Summary (SA)
Chapter 48- Story of Indradyumna (cont.)- Indradyumna’s anxiety
{{Ref- SS 103}}
मुनय ऊचुः-
ब्रूहि नो देवदेवेश यत् पृच्छामः पुरातनम् ।
यथा ताः प्रतिमाः पूर्वम् इन्द्रद्युम्नेन निर्मिताः ॥ १ ॥
केन चैव प्रकारेण तुष्टस् तस्मै स माधवः ।
तत् सर्वं वद चास्माकं परं कौतूहलं हि नः ॥ २ ॥
ब्रह्मोवाच-
शृणुध्वं मुनिशार्दूलाः पुराणं वेदसम्मितम् ।
कथयामि पुरा वृत्तं प्रतिमानां च सम्भवम् ॥ ३ ॥
प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते ।
चिन्ता तस्य बभूवाथ प्रतिमार्थम् अहर्निशम् ॥ ४ ॥
न वेद्मि केन देवेशं सर्वेशं लोकपावनम् ।
सर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमम् ॥ ५ ॥
चिन्ताविष्टस् त्व् अभूद् राजा शेते रात्रौ दिवापि न ।
न भुङ्क्ते विविधान् भोगान् न च स्नानं प्रसाधनम् ॥ ६ ॥
नैव वाद्येन गन्धेन गायनैर् वर्णकैर् अपि ।
न गजैर् मदयुक्तैश् च न चानेकैर् हयान्वितैः ॥ ७ ॥
नेन्द्रनीलैर् महानीलैः पद्मरागमयैर् न च ।
सुवर्णरजताद्यैश् च वज्रस्फटिकसंयुतैः ॥ ८ ॥
बहुरागार्थकामैर् वा न वन्यैर् अन्तरिक्षगैः ।
बभूव तस्य नृपतेर् मनसस् तुष्टिवर्धनम् ॥ ९ ॥
शैलमृद्दारुजातेषु प्रशस्तं किं महीतले ।
विष्णुप्रतिमायोग्यं च सर्वलक्षणलक्षितम् ॥ १० ॥
एतैर् एव त्रयाणां तु दयितं स्यात् सुरार्चितम् ।
स्थापिते प्रीतिम् अभ्येति इति चिन्तापरो ऽभवत् ॥ ११ ॥
पञ्चरात्रविधानेन सम्पूज्य पुरुषोत्तमम् ।
चिन्ताविष्टो महीपालः संस्तोतुम् उपचक्रमे ॥ १२ ॥