Summary (SA)
Chapter 47- Story of Indradyumna (cont.)- Construction of temple; Indradyumna’s horse-sacrifice
{{Ref- SS 102-103}}
ब्रह्मोवाच-
एवं स पृथिवीपालश् चिन्तयित्वा द्विजोत्तमाः ।
प्रासादार्थं हरेस् तत्र प्रारम्भम् अकरोत् तदा ॥ १ ॥
आनाय्य गणकान् सर्वान् आचार्याञ् शास्त्रपारगान् ।
भूमिं संशोध्य यत्नेन राजा तु परया मुदा ॥ २ ॥
ब्राह्मणैर् ज्ञानसम्पन्नैर् वेदशास्त्रार्थपारगैः ।
अमात्यैर् मन्त्रिभिश् चैव वास्तुविद्याविशारदैः ॥ ३ ॥
तैः सार्धं स समालोच्य सुमुहूर्ते शुभे दिने ।
सुचन्द्रतारासंयोगे ग्रहानुकूल्यसंयुते ॥ ४ ॥
जयमङ्गलशब्दैश् च नानावाद्यैर् मनोहरैः ।
वेदाध्ययननिर्घोषैर् गीतैः सुमधुरस्वरैः ॥ ५ ॥
पुष्पलाजाक्षतैर् गन्धैः पूर्णकुम्भैः सदीपकैः ।
ददाव् अर्घ्यं ततो राजा श्रद्धया सुसमाहितः ॥ ६ ॥
दत्त्वैवम् अर्घ्यं विधिवद् आनाय्य स महीपतिः ।
कलिङ्गाधिपतिं शूरम् उत्कलाधिपतिं तथा ।
कोशलाधिपतिं चैव तान् उवाच तदा नृपः ॥ ७ ॥
राजोवाच-
गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः ।
गृहीत्वा शिल्पिमुख्यांश् च शिलाकर्मविशारदान् ॥ ८ ॥
विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम् ।
निरूप्य सर्वसानूनि च्छेदयित्वा शिलाः शुभाः ।
संवाह्यन्तां च शकटैर् नौकाभिर् मा विलम्बथ ॥ ९ ॥
ब्रह्मोवाच-
एवं गन्तुं समादिश्य तान् नृपान् स महीपतिः ।
पुनर् एवाब्रवीद् वाक्यं सामात्यान् सपुरोहितान् ॥ १० ॥
राजोवाच-
गच्छन्तु दूताः सर्वत्र ममाज्ञां प्रवदन्तु वै ।
यत्र तिष्ठन्ति राजानः पृथिव्यां तान् सुशीघ्रगाः ॥ ११ ॥
हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः ।
गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात् ॥ १२ ॥
ब्रह्मोवाच-
एवं दूताः समाज्ञाता राज्ञा तेन महात्मना ।
गत्वा तदा नृपान् ऊचुर् वचनं तस्य भूपतेः ॥ १३ ॥
श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः ।
आजग्मुस् त्वरिताः सर्वे स्वसैन्यैः परिवारिताः ॥ १४ ॥
ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थिताः ।
पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः ॥ १५ ॥
प्रत्यन्तवासिनो ये ऽपि ये च सन्निधिवासिनः ।
पार्वतीयाश् च ये केचित् तथा द्वीपनिवासिनः ॥ १६ ॥
रथैर् नागैः पदातैश् च वाजिभिर् धनविस्तरैः ।
सम्प्राप्ता बहुशो विप्राः श्रुत्वेन्द्रद्युम्नशासनम् ॥ १७ ॥
तान् आगतान् नृपान् दृष्ट्वा सामात्यान् सपुरोहितान् ।
प्रोवाच राजा हृष्टात्मा कार्यम् उद्दिश्य सादरम् ॥ १८ ॥
राजोवाच-
शृणुध्वं नृपशार्दूला यथा किञ्चिद् ब्रवीम्य् अहम् ।
अस्मिन् क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे ॥ १९ ॥
हयमेधं महायज्ञं प्रासादं चैव वैष्णवम् ।
कथं शक्नोम्य् अहं कर्तुम् इति चिन्ताकुलं मनः ॥ २० ॥
भवद्भिः सुसहायैस् तु सर्वम् एतत् करोम्य् अहम् ।
यदि यूयं सहाया मे भवध्वं नृपसत्तमाः ॥ २१ ॥
ब्रह्मोवाच-
इत्य् एवं वदमानस्य राजराजस्य धीमतः ।
सर्वे प्रमुदिता हृष्टा भूपास् ते तस्य शासनात् ॥ २२ ॥
ववृषुर् धनरत्नैश् च सुवर्णमणिमौक्तिकैः ।
कम्बलाजिनरत्नैश् च राङ्कवास्तरणैः शुभैः ॥ २३ ॥
वज्रवैदूर्यमाणिक्यैः पद्मरागेन्द्रनीलकैः ।
गजैर् अश्वैर् धनैश् चान्यै रथैश् चैव करेणुभिः ॥ २४ ॥
असङ्ख्येयैर् बहुविधैर् द्रव्यैर् उच्चावचैस् तथा ।
शालिव्रीहियवैश् चैव माषमुद्गतिलैस् तथा ॥ २५ ॥
सिद्धार्थचणकैश् चैव गोधूमैर् मसुरादिभिः ।
श्यामाकैर् मधुकैश् चैव नीवारैः सकुलत्थकैः ॥ २६ ॥
अन्यैश् च विविधैर् धान्यैर् ग्राम्यारण्यैः सहस्रशः ।
बहुधान्यसहस्राणां तण्डुलानां च राशिभिः ॥ २७ ॥
गव्यस्य हविषः कुम्भैः शतशो ऽथ सहस्रशः ।
तथान्यैर् विविधैर् द्रव्यैर् भक्ष्यभोज्यानुलेपनैः ॥ २८ ॥
राजानः पूरयाम् आसुर् यत् किञ्चिद् द्रव्यसम्भवैः ।
तान् दृष्ट्वा यज्ञसम्भारान् सर्वसम्पत्समन्वितान् ॥ २९ ॥
यज्ञकर्मविदो विप्रान् वेदवेदाङ्गपारगान् ।
शास्त्रेषु निपुणान् दक्षान् कुशलान् सर्वकर्मसु ॥ ३० ॥
ऋषींश् चैव महर्षींश् च देवर्षींश् चैव तापसान् ।
ब्रह्मचारिगृहस्थांश् च वानप्रस्थान् यतींस् तथा ॥ ३१ ॥
स्नातकान् ब्राह्मणांश् चान्यान् अग्निहोत्रे सदा स्थितान् ।
आचार्योपाध्यायवरान् स्वाध्यायतपसान्वितान् ॥ ३२ ॥
सदस्याञ् शास्त्रकुशलांस् तथान्यान् पावकान् बहून् ।
दृष्ट्वा तान् नृपतिः श्रीमान् उवाच स्वं पुरोहितम् ॥ ३३ ॥
राजोवाच-
ततः प्रयान्तु विद्वांसो ब्राह्मणा वेदपारगाः ।
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥ ३४ ॥
ब्रह्मोवाच-
इत्य् उक्तः स तथा चक्रे वचनं तस्य भूपतेः ।
हृष्टः स मन्त्रिभिः सार्धं तदा राजपुरोहितः ॥ ३५ ॥
ततो ययौ पुरोधाश् च प्राज्ञः स्थपतिभिः सह ।
ब्राह्मणान् अग्रतः कृत्वा कुशलान् यज्ञकर्मणि ॥ ३६ ॥
तं देशं धीवरग्रामं सप्रतोलिविटङ्किनम् ।
कारयाम् आस विप्रो ऽसौ यज्ञवाटं यथाविधि ॥ ३७ ॥
प्रासादशतसम्बाधं मणिप्रवरशोभितम् ।
इन्द्रसद्मनिभं रम्यं हेमरत्नविभूषितम् ॥ ३८ ॥
स्तम्भान् कनकचित्रांश् च तोरणानि बृहन्ति च ।
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥ ३९ ॥
अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् ।
कारयाम् आस धर्मात्मा तत्र तत्र यथाविधि ॥ ४० ॥
ब्राह्मणानां च वैश्यानां नानादेशसमीयुषाम् ।
कारयाम् आस विधिवच् छालास् तत्राप्य् अनेकशः ॥ ४१ ॥
प्रियार्थं तस्य नृपतेर् आययुर् नृपसत्तमाः ।
रत्नान्य् अनेकान्य् आदाय स्त्रियश् चाययुर् उत्सवे ॥ ४२ ॥
तेषां निर्विशतां स्वेषु शिबिरेषु महात्मनाम् ।
नदतः सागरस्येव दिविस्पृग् अभवद् ध्वनिः ॥ ४३ ॥
तेषाम् अभ्यागतानां च स राजा मुनिसत्तमाः ।
व्यादिदेशायतनानि शय्याश् चाप्य् उपचारतः ॥ ४४ ॥
भोजनानि विचित्राणि शालीक्षुयवगोरसैः ।
उपेत्य नृपतिश्रेष्ठो व्यादिदेश स्वयं तदा ॥ ४५ ॥
तथा तस्मिन् महायज्ञे बहवो ब्रह्मवादिनः ।
ये च द्विजातिप्रवरास् तत्रासन् द्विजसत्तमाः ॥ ४६ ॥
समाजग्मुः सशिष्यास् तान् प्रतिजग्राह पार्थिवः ।
सर्वांश् च तान् अनुययौ यावद् आवसथान् इति ॥ ४७ ॥
स्वयम् एव महातेजा दम्भं त्यक्त्वा नृपोत्तमः ।
ततः कृत्वा स्वशिल्पं च शिल्पिनो ऽन्ये च ये तदा ॥ ४८ ॥
कृत्स्नं यज्ञविधिं राज्ञे तदा तस्मै न्यवेदयन् ।
ततः श्रुत्वा नृपश्रेष्ठः कृतं सर्वम् अतन्द्रितः ।
हृष्टरोमाभवद् राजा सह मन्त्रिभिर् अच्युतः ॥ ४९ ॥
ब्रह्मोवाच-
तस्मिन् यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिभिः ।
हेतुवादान् बहून् आहुः परस्परजिगीषवः ॥ ५० ॥
देवेन्द्रस्येव विहितं राजसिंहेन भो द्विजाः ।
ददृशुस् तोरणान्य् अत्र शातकुम्भमयानि च ॥ ५१ ॥
शय्यासनविकारांश् च सुबहून् रत्नसञ्चयान् ।
घटपात्रीकटाहानि कलशान् वर्धमानकान् ॥ ५२ ॥
नहि कश्चिद् असौवर्णम् अपश्यद् वसुधाधिपः ।
यूपांश् च शास्त्रपठितान् दारवान् हेमभूषितान् ॥ ५३ ॥
उपक्षिप्तान् यथाकालं विधिवद् भूरिवर्चसः ।
स्थलजा जलजा ये च पशवः केचन द्विजाः ॥ ५४ ॥
सर्वान् एव समानीतान् अपश्यंस् तत्र ते नृपाः ।
गाश् चैव महिषीश् चैव तथा वृद्धस्त्रियो ऽपि च ॥ ५५ ॥
औदकानि च सत्त्वानि श्वापदानि वयांसि च ।
जरायुजाण्डजातानि स्वेदजान्य् उद्भिदानि च ॥ ५६ ॥
पर्वतान्य् उपधान्यानि भूतानि ददृशुश् च ते ।
एवं प्रमुदितं सर्वं पशुतो धनधान्यतः ॥ ५७ ॥
यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं गताः ।
ब्राह्मणानां विशां चैव बहुमिष्टान्नम् ऋद्धिमत् ॥ ५८ ॥
पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् ।
दुन्दुभिर् मेघनिर्घोषान् मुहुर्मुहुर् अथाकरोत् ॥ ५९ ॥
विननादासकृच् चापि दिवसे दिवसे गते ।
एवं स ववृधे यज्ञस् तस्य राज्ञस् तु धीमतः ॥ ६० ॥
अन्नस्य सुबहून् विप्रा उत्सर्गान् निर्गतोपमान् ।
दधिकुल्याश् च ददृशुः पयसश् च ह्रदांस् तथा ॥ ६१ ॥
जम्बूद्वीपो हि सकलो नानाजनपदैर् युतः ।
द्विजाश् च तत्र दृश्यन्ते राज्ञस् तस्य महामखे ॥ ६२ ॥
तत्र यानि सहस्राणि पुरुषाणां ततस् ततः ।
गृहीत्वा भाजनं जग्मुर् बहूनि द्विजसत्तमाः ॥ ६३ ॥
श्राविणश् चापि ते सर्वे सुमृष्टमणिकुण्डलाः ।
पर्यवेषयन् द्विजातीञ् शतशो ऽथ सहस्रशः ॥ ६४ ॥
विविधान्य् अनुपानानि पुरुषा ये ऽनुयायिनः ।
ते वै नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः सह ॥ ६५ ॥
समागतान् वेदविदो राज्ञश् च पृथिवीश्वरान् ।
पूजां चक्रे तदा तेषां विधिवद् भूरिदक्षिणः ॥ ६६ ॥
दिग्देशाद् आगतान् राज्ञो महासङ्ग्रामशालिनः ।
नटनर्तककादींश् च गीतस्तुतिविशारदान् ॥ ६७ ॥
पत्न्यो मनोरमास् तस्य पीनोन्नतपयोधराः ।
इन्दीवरपलाशाक्ष्यः शरच्चन्द्रनिभाननाः ॥ ६८ ॥
कुलशीलगुणोपेताः सहस्रैकं शताधिकम् ।
एवं तद्भूपपरमपत्नीगणसमन्वितम् ॥ ६९ ॥
रत्नमालाकुलं दिव्यं पताकाध्वजसेवितम् ।
रत्नहारयुतं रम्यं चन्द्रकान्तिसमप्रभम् ॥ ७० ॥
करिणः पर्वताकारान् मदसिक्तान् महाबलान् ।
शतशः कोटिसङ्घातैर् दन्तिभिर् दन्तभूषणैः ॥ ७१ ॥
वातवेगजवैर् अश्वैः सिन्धुजातैः सुशोभनैः ।
श्वेताश्वैः श्यामकर्णैश् च कोट्यनेकैर् जवान्वितैः ॥ ७२ ॥
सन्नद्धबद्धकक्षैश् च नानाप्रहरणोद्यतैः ।
असङ्ख्येयैः पदातैश् च देवपुत्रोपमैस् तथा ॥ ७३ ॥
इत्य् एवं ददृशे राजा यज्ञसम्भारविस्तरम् ।
मुदं लेभे तदा राजा संहृष्टो वाक्यम् अब्रवीत् ॥ ७४ ॥
राजोवाच-
आनयध्वं हयश्रेष्ठं सर्वलक्षणलक्षितम् ।
चारयध्वं पृथिव्यां वै राजपुत्राः सुसंयताः ॥ ७५ ॥
विद्वद्भिर् धर्मविद्भिश् च अत्र होमो विधीयताम् ।
कृष्णच्छागं च महिषं कृष्णसारमृगं द्विजान् ॥ ७६ ॥
अनड्वाहं च गाश् चैव सर्वांश् च पशुपालकान् ।
इष्टयश् च प्रवर्तन्तां प्रासादं वैष्णवं ततः ॥ ७७ ॥
सर्वम् एतच् च विप्रेभ्यो दीयतां मनसेप्सितम् ।
स्त्रियश् च रत्नकोट्यश् च ग्रामाश् च नगराणि च ॥ ७८ ॥
सम्यक् समृद्धभूम्यश् च विषयाश् चैवम् अर्थिनाम् ।
अन्यानि द्रव्यजातानि मनोज्ञानि बहूनि च ॥ ७९ ॥
सर्वेषां याचमानानां नास्ति ह्य् एतन् न भाषयेत् ।
तावत् प्रवर्ततां यज्ञो यावद् देवः पुरा त्व् इह ।
प्रत्यक्षं मम चाभ्येति यज्ञस्यास्य समीपतः ॥ ८० ॥
ब्रह्मोवाच-
एवम् उक्त्वा तदा विप्रा राजसिंहो महाभुजः ।
ददौ सुवर्णसङ्घातं कोटीनां चैव भूषणम् ॥ ८१ ॥
करेणुशतसाहस्रं वाजिनो नियुतानि च ।
अर्बुदं चैव वृषभं स्वर्णशृङ्गीश् च धेनुकाः ॥ ८२ ॥
सुरूपाः सुरभीश् चैव कांस्यदोहाः पयस्विनीः ।
प्रायच्छत् स तु विप्रेभ्यो वेदविद्भ्यो मुदा युतः ॥ ८३ ॥
वासांसि च महार्हाणि राङ्कवास्तरणानि च ।
सुशुक्लानि च शुभ्राणि प्रवालमणिम् उत्तमम् ॥ ८४ ॥
अददात् स महायज्ञे रत्नानि विविधानि च ॥ ८५ ॥
वज्रवैदूर्यमाणिक्यमुक्तिकाद्यानि यानि च ।
अलङ्कारवतीः शुभ्राः कन्या राजीवलोचनाः ॥ ८६ ॥
शतानि पञ्च विप्रेभ्यो राजा हृष्टः प्रदत्तवान् ।
स्त्रियः पीनपयोभाराः कञ्चुकैः स्वस्तनावृताः ॥ ८७ ॥
मध्यहीनाश् च सुश्रोण्यः पद्मपत्त्रायतेक्षणाः ।
हावभावान्वितग्रीवा बह्व्यो वलयभूषिताः ॥ ८८ ॥
पादनूपुरसंयुक्ताः पट्टदुकूलवाससः ।
एकैकशो ऽददात् तस्मिन् काम्याश् च कामिनीर् बहूः ॥ ८९ ॥
अर्थिभ्यो ब्राह्मणादिभ्यो हयमेधे द्विजोत्तमाः ।
भक्ष्यं भोज्यं च सम्पूर्णं नानासम्भारसंयुतम् ॥ ९० ॥
खण्डकाद्यान्य् अनेकानि स्विन्नपक्वांश् च पिष्टकान् ।
अन्नान्य् अन्यानि मेध्यांश् च घृतपूरांश् च खाण्डवान् ॥ ९१ ॥
मधुरांस् तर्जितान् पूपान् अन्नं मृष्टं सुपाकिकम् ।
प्रीत्यर्थं सर्वसत्त्वानां दीयते ऽन्नं पुनः पुनः ॥ ९२ ॥
दत्तस्य दीयमानस्य धनस्यान्तो न विद्यते ।
एवं दृष्ट्वा महायज्ञं देवदैत्याः सवारणाः ॥ ९३ ॥
गन्धर्वाप्सरसः सिद्धा ऋषयश् च प्रजेश्वराः ।
विस्मयं परमं याता दृष्ट्वा क्रतुवरं शुभम् ॥ ९४ ॥
पुरोधा मन्त्रिणो राजा हृष्टास् तत्रैव सर्वशः ।
न तत्र मलिनः कश्चिन् न दीनो न क्षुधान्वितः ॥ ९५ ॥
न वोपसर्गो न ग्लानिर् नाधयो व्याधयस् तथा ।
नाकालमरणं तत्र न दंशो न ग्रहा विषम् ॥ ९६ ॥
हृष्टपुष्टजनाः सर्वे तस्मिन् राज्ञो महोत्सवे ।
ये च तत्र तपःसिद्धा मुनयश् चिरजीविनः ॥ ९७ ॥
न जातं तादृशं यज्ञं धनधान्यसमन्वितम् ।
एवं स राजा विधिवद् वाजिमेधं द्विजोत्तमाः ।
क्रतुं समापयाम् आस प्रासादं वैष्णवं तथा ॥ ९८ ॥