045

Summary (SA)

Chapter 45- Story of Indradyumna (cont.)- The disappearance of Nīlamādhava

{{Ref- SS 98-101}}

मुनय ऊचुः-

तस्मिन् क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे ।
किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो ॥ १ ॥

येनासौ नृपतिस् तत्र गत्वा सबलवाहनः ।
स्थापयाम् आस कृष्णं च रामं भद्रां शुभप्रदाम् ॥ २ ॥

संशयो नो महान् अत्र विस्मयश् च जगत्पते ।
श्रोतुम् इच्छामहे सर्वं ब्रूहि तत्कारणं च नः ॥ ३ ॥

ब्रह्मोवाच-

शृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम् ।
प्रवक्ष्यामि समासेन श्रिया पृष्टः पुरा हरिः ॥ ४ ॥

सुमेरोः काञ्चने शृङ्गे सर्वाश्चर्यसमन्विते ।
सिद्धविद्याधरैर् यक्षैः किन्नरैर् उपशोभिते ॥ ५ ॥

देवदानवगन्धर्वैर् नागैर् अप्सरसां गणैः ।
मुनिभिर् गुह्यकैः सिद्धैः सौपर्णैः समरुद्गणैः ॥ ६ ॥

अन्यैर् देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः ।
वालखिल्यादिभिश् चैव शोभिते सुमनोहरे ॥ ७ ॥

कर्णिकारवनैर् दिव्यैः सर्वर्तुकुसुमोत्करैः ।
जातरूपप्रतीकाशैर् भूषिते सूर्यसन्निभैः ॥ ८ ॥

अन्यैश् च बहुभिर् वृक्षैः शालतालादिभिर् वनैः ।
पुन्नागाशोकसरलन्यग्रोधाम्रातकार्जुनैः ॥ ९ ॥

पारिजाताम्रखदिरनीपबिल्वकदम्बकैः ।
धवखादिरपालाशशीर्षामलकतिन्दुकैः ॥ १० ॥

नारिङ्गकोलबकुललोध्रदाडिमदारुकैः ।
सर्जैश् च कर्णैस् तगरैः शिशिभूर्जवनिम्बकैः ॥ ११ ॥

अन्यैश् च काञ्चनैश् चैव फलभारैश् च नामितैः ।
नानाकुसुमगन्धाढ्यैर् भूषिते पुष्पपादपैः ॥ १२ ॥

मालतीयूथिकामल्लीकुन्दबाणकुरुण्टकैः ।
पाटलागस्त्यकुटजमन्दारकुसुमादिभिः ॥ १३ ॥

अन्यैश् च विविधैः पुष्पैर् मनसः प्रीतिदायकैः ।
नानाविहगसङ्घैश् च कूजद्भिर् मधुरस्वरैः ॥ १४ ॥

पुंस्कोकिलरुतैर् दिव्यैर् मत्तबर्हिणनादितैः ।
एवं नानाविधैर् वृक्षैः पुष्पैर् नानाविधैस् तथा ॥ १५ ॥

खगैर् नानाविधैश् चैव शोभिते सुरसेविते ।
तत्र स्थितं जगन्नाथं जगत्स्रष्टारम् अव्ययम् ॥ १६ ॥

सर्वलोकविधातारं वासुदेवाख्यम् अव्ययम् ।
प्रणम्य शिरसा देवी लोकानां हितकाम्यया ।
पप्रच्छेमं महाप्रश्नं पद्मजा तम् अनुत्तमम् ॥ १७ ॥

श्रीर् उवाच-

ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् ।
मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे ॥ १८ ॥

लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे ।
येन मुच्येत देवेश अस्मात् संसारसागरात् ॥ १९ ॥

आचक्ष्व सर्वदेवेश प्रणतां यदि मन्यसे ।
त्वदृते नास्ति लोके ऽस्मिन् वक्ता संशयनिर्णये ॥ २० ॥

ब्रह्मोवाच-

श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः ।
प्रोवाच परया प्रीत्या परं सारामृतोपमम् ॥ २१ ॥

श्रीभगवान् उवाच-

सुखोपास्यः सुसाध्यश् च ऽभिरामश् च सुसत्फलः ।
आस्ते तीर्थवरे देवि विख्यातः पुरुषोत्तमः ॥ २२ ॥

न तेन सदृशः कश्चित् त्रिषु लोकेषु विद्यते ।
कीर्तनाद् यस्य देवेशि मुच्यते सर्वपातकैः ॥ २३ ॥

न विज्ञातो ऽमरैः सर्वैर् न दैत्यैर् न च दानवैः ।
मरीच्याद्यैर् मुनिवरैर् गोपितं मे वरानने ॥ २४ ॥

तत् ते ऽहं सम्प्रवक्ष्यामि तीर्थराजं च साम्प्रतम् ।
भावेनैकेन सुश्रोणि शृणुष्व वरवर्णिनि ॥ २५ ॥

आसीत् कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे ।
प्रलीना देवगन्धर्वदैत्यविद्याधरोरगाः ॥ २६ ॥

तमोभूतम् इदं सर्वं न प्राज्ञायत किञ्चन ।
तस्मिञ् जागर्ति भूतात्मा परमात्मा जगद्गुरुः ॥ २७ ॥

श्रीमांस् त्रिमूर्तिकृद् देवो जगत्कर्ता महेश्वरः ।
वासुदेवेति विख्यातो योगात्मा हरिर् ईश्वरः ॥ २८ ॥

सो ऽसृजद् योगनिद्रान्ते नाभ्यम्भोरुहमध्यगम् ।
पद्मकेशरसङ्काशं ब्रह्माणं भूतम् अव्ययम् ॥ २९ ॥

तादृग्भूतस् ततो ब्रह्मा सर्वलोकमहेश्वरः ।
पञ्चभूतसमायुक्तं सृजते च शनैः शनैः ॥ ३० ॥

मात्रायोनीनि भूतानि स्थूलसूक्ष्माणि यानि च ।
चतुर्विधानि सर्वाणि स्थावराणि चराणि च ॥ ३१ ॥

ततः प्रजापतिर् ब्रह्मा चक्रे सर्वं चराचरम् ।
सञ्चिन्त्य मनसात्मानं ससर्ज विविधाः प्रजाः ॥ ३२ ॥

मरीच्यादीन् मुनीन् सर्वान् देवासुरपितॄन् अपि ।
यक्षविद्याधरांश् चान्यान् गङ्गाद्याः सरितस् तथा ॥ ३३ ॥

नरवानरसिंहांश् च विविधांश् च विहङ्गमान् ।
जरायून् अण्डजान् देवि स्वेदजोद्भेदजांस् तथा ॥ ३४ ॥

ब्रह्म क्षत्रं तथा वैश्यं शूद्रं चैव चतुष्टयम् ।
अन्त्यजातांश् च म्लेच्छांश् च ससर्ज विविधान् पृथक् ॥ ३५ ॥

यत् किञ्चिज् जीवसञ्ज्ञं तु तृणगुल्मपिपीलिकम् ।
ब्रह्मा भूत्वा जगत् सर्वं निर्ममे स चराचरम् ॥ ३६ ॥

दक्षिणाङ्गे तथात्मानं सञ्चिन्त्य पुरुषं स्वयम् ।
वामे चैव तु नारीं स द्विधा भूतम् अकल्पयत् ॥ ३७ ॥

ततः प्रभृति लोके ऽस्मिन् प्रजा मैथुनसम्भवाः ।
अधमोत्तममध्याश् च मम क्षेत्राणि यानि च ॥ ३८ ॥

एवं सञ्चिन्त्य देवो ऽसौ पुरा सलिलयोनिजः ।
जगाम ध्यानम् आस्थाय वासुदेवात्मिकां तनुम् ॥ ३९ ॥

ध्यानमात्रेण देवेन स्वयम् एव जनार्दनः ।
तस्मिन् क्षणे समुत्पन्नः सहस्राक्षः सहस्रपात् ॥ ४० ॥

सहस्रशीर्षा पुरुषः पुण्डरीकनिभेक्षणः ।
सलिलध्वान्तमेघाभः श्रीमाञ् श्रीवत्सलक्षणः ॥ ४१ ॥

अपश्यत् सहसा तं तु ब्रह्मा लोकपितामहः ।
आसनैर् अर्घ्यपाद्यैश् च अक्षतैर् अभिनन्द्य च ॥ ४२ ॥

तुष्टाव परमैः स्तोत्रैर् विरिञ्चिः सुसमाहितः ।
ततो ऽहम् उक्तवान् देवं ब्रह्माणं कमलोद्भवम् ।
कारणं वद मां तात मम ध्यानस्य साम्प्रतम् ॥ ४३ ॥

ब्रह्मोवाच-

जगद्धिताय देवेश मर्त्यलोकैश् च दुर्लभम् ।
स्वर्गद्वारस्य मार्गाणि यज्ञदानव्रतानि च ॥ ४४ ॥

योगः सत्यं तपः श्रद्धा तीर्थानि विविधानि च ।
विहाय सर्वम् एतेषां सुखं तत्साधनं वद ॥ ४५ ॥

स्थानं जगत्पते मह्याम् उत्कृष्टं च यद् उच्यते ।
सर्वेषाम् उत्तमं स्थानं ब्रूहि मे पुरुषोत्तम ॥ ४६ ॥

विधातुर् वचनं श्रुत्वा ततो ऽहं प्रोक्तवान् प्रिये ।
शृणु ब्रह्मन् प्रवक्ष्यामि निर्मलं भुवि दुर्लभम् ॥ ४७ ॥

उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम् ।
गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम् ॥ ४८ ॥

भुक्तिमुक्तिप्रदं नॄणां क्षेत्रं परमदुर्लभम् ।
महापुण्यं तु सर्वेषां सिद्धिदं वै पितामहे ॥ ४९ ॥

तस्माद् आसीत् समुत्पन्नं तीर्थराजं सनातनम् ।
विख्यातं परमं क्षेत्रं चतुर्युगनिषेवितम् ॥ ५० ॥

सर्वेषाम् एव देवानाम् ऋषीणां ब्रह्मचारिणाम् ।
दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम् ॥ ५१ ॥

नागविद्याधराणां च स्थावरस्य चरस्य च ।
उत्तमः पुरुषो यस्मात् तस्मात् स पुरुषोत्तमः ॥ ५२ ॥

दक्षिणस्योदधेस् तीरे न्यग्रोधो यत्र तिष्ठति ।
दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ ५३ ॥

यस् तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे ।
विनाशं नैवम् अभ्येति स्वयं तत्रैवम् आस्थितः ॥ ५४ ॥

दृष्टमात्रे वटे तस्मिंश् छायाम् आक्रम्य चासकृत् ।
ब्रह्महत्यात् प्रमुच्येत पापेष्व् अन्येषु का कथा ॥ ५५ ॥

प्रदक्षिणा कृता यैस् तु नमस्कारश् च जन्तुभिः ।
सर्वे विधूतपाप्मानस् ते गताः केशवालयम् ॥ ५६ ॥

न्यग्रोधस्योत्तरे किञ्चिद् दक्षिणे केशवस्य तु ।
प्रासादस् तत्र तिष्ठेत् तु पदं धर्ममयं हि तत् ॥ ५७ ॥

प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम् ।
अनायासेन वै यान्ति भुवनं मे ततो नराः ॥ ५८ ॥

गच्छमानांस् तु तान् प्रेक्ष्य एकदा धर्मराट् प्रिये ।
मदन्तिकम् अनुप्राप्य प्रणम्य शिरसाब्रवीत् ॥ ५९ ॥

यम उवाच-

नमस् ते भगवन् देव लोकनाथ जगत्पते ।
क्षीरोदवासिनं देवं शेषभोगानुशायिनम् ॥ ६० ॥

वरं वरेण्यं वरदं कर्तारम् अकृतं प्रभुम् ।
विश्वेश्वरम् अजं विष्णुं सर्वज्ञम् अपराजितम् ॥ ६१ ॥

नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् ।
सर्वज्ञं निर्गुणं शान्तं जगद्धातारम् अव्ययम् ॥ ६२ ॥

सर्वलोकविधातारं सर्वलोकसुखावहम् ।
पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम् ॥ ६३ ॥

परावराणां स्रष्टारं लोकनाथं जगद्गुरुम् ।
श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् ॥ ६४ ॥

पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ।
हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम् ॥ ६५ ॥

सर्वलक्षणसम्पूर्णं सर्वेन्द्रियविवर्जितम् ।
कूटस्थम् अचलं सूक्ष्मं ज्योतीरूपं सनातनम् ॥ ६६ ॥

भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् ।
नमस्यामि जगन्नाथम् ईश्वरं सुखदं प्रभुम् ॥ ६७ ॥

इत्य् एवं धर्मराजस् तु पुरा न्यग्रोधसन्निधौ ।
स्तुत्वा नानाविधैः स्तोत्रैः प्रणामम् अकरोत् तदा ॥ ६८ ॥

तं दृष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम् ।
स्तोत्रस्य कारणं देवि पृष्टवान् अहम् अन्तकम् ॥ ६९ ॥

वैवस्वत महाबाहो सर्वदेवोत्तमो ह्य् असि ।
किमर्थं स्तुतवान् मां त्वं सङ्क्षेपात् तद् ब्रवीहि मे ॥ ७० ॥

धर्मराज उवाच-

अस्मिन्न् आयतने पुण्ये विख्याते पुरुषोत्तमे ।
इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी ॥ ७१ ॥

तां दृष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया ।
श्वेताख्यं भवनं यान्ति निष्कामाश् चैव मानवाः ॥ ७२ ॥

अतः कर्तुं न शक्नोमि व्यापारम् अरिसूदन ।
प्रसीद सुमहादेव संहर प्रतिमां विभो ॥ ७३ ॥

श्रुत्वा वैवस्वतस्यैतद् वाक्यम् एतद् उवाच ह ।
यम तां गोपयिष्यामि सिकताभिः समन्ततः ॥ ७४ ॥

ततः सा प्रतिमा देवि वल्लिभिर् गोपिता मया ।
यथा तत्र न पश्यन्ति मनुजाः स्वर्गकाङ्क्षिणः ॥ ७५ ॥

प्रच्छाद्य वल्लिकैर् देवि जातरूपपरिच्छदैः ।
यमं प्रस्थापयाम् आस स्वां पुरीं दक्षिणां दिशम् ॥ ७६ ॥

ब्रह्मोवाच-

लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः ।
तस्मिन् क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे ॥ ७७ ॥

यो भूतस् तत्र वृत्तान्तो देवदेवो जनार्दनः ।
तं सर्वं कथयाम् आस स तस्यै भगवान् पुरा ॥ ७८ ॥

इन्द्रद्युम्नस्य गमनं क्षेत्रसन्दर्शनं तथा ।
क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा ॥ ७९ ॥

हयमेधस्य यजनं स्वप्नदर्शनम् एव च ।
लवणस्योदधेस् तीरे काष्ठस्य दर्शनं तथा ॥ ८० ॥

दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः ।
निर्माणं प्रतिमायास् तु यथावर्णं विशेषतः ॥ ८१ ॥

स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे ।
यात्राकाले च विप्रेन्द्राः कल्पसङ्कीर्तनं तथा ॥ ८२ ॥

मार्कण्डेयस्य चरितं स्थापनं शङ्करस्य च ।
पञ्चतीर्थस्य माहात्म्यं दर्शनं शूलपाणिनः ॥ ८३ ॥

वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः ।
दर्शनं बलदेवस्य कृष्णस्य च विशेषतः ॥ ८४ ॥

सुभद्रायाश् च तत्रैव माहात्म्यं चैव सर्वशः ।
दर्शनं नरसिंहस्य व्युष्टिसङ्कीर्तनं तथा ॥ ८५ ॥

अनन्तवासुदेवस्य दर्शनं गुणकीर्तनम् ।
श्वेतमाधवमाहात्म्यं स्वर्गद्वारस्य दर्शनम् ॥ ८६ ॥

उदधेर् दर्शनं चैव स्नानं तर्पणम् एव च ।
समुद्रस्नानमाहात्म्यम् इन्द्रद्युम्नस्य च द्विजाः ॥ ८७ ॥

पञ्चतीर्थफलं चैव महाज्येष्ठं तथैव च ।
स्थानं कृष्णस्य हलिनः पर्वयात्राफलं तथा ॥ ८८ ॥

वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः पुनः ।
पूर्वं कथितवान् सर्वं तस्यै स पुरुषोत्तमः ॥ ८९ ॥