044

Summary (SA)

Chapter 44- Story of Indradyumna (cont.)- The journey to the southern ocean

{{Ref- SS 97-98}}

ब्रह्मोवाच-

तस्यां स नृपतिः पूर्वं कुर्वन् राज्यम् अनुत्तमम् ।
पालयाम् आस मतिमान् प्रजाः पुत्रान् इवौरसान् ॥ १ ॥

सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः ।
मतिमान् धर्मसम्पन्नः सर्वशस्त्रभृतां वरः ॥ २ ॥

सत्यवाञ् शीलवान् दान्तः श्रीमान् परपुरञ्जयः ।
आदित्य इव तेजोभी रूपैर् आश्विनयोर् इव ॥ ३ ॥

वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः ।
शारदेन्दुर् इवाभाति लक्षणैः समलङ्कृतः ॥ ४ ॥

आहर्ता सर्वयज्ञानां हयमेधादिकृत् तथा ।
दानैर् यज्ञैस् तपोभिश् च तत्तुल्यो नास्ति भूपतिः ॥ ५ ॥

सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः ।
प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम् ॥ ६ ॥

हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम् ।
रत्नानां धनधान्यानाम् अन्तस् तस्य न विद्यते ॥ ७ ॥

एवं सर्वधनैर् युक्तो गुणैः सर्वैर् अलङ्कृतः ।
सर्वकामसमृद्धात्मा कुर्वन् राज्यम् अकण्टकम् ॥ ८ ॥

तस्येयं मतिर् उत्पन्ना सर्वयोगेश्वरं हरिम् ।
कथम् आराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम् ॥ ९ ॥

विचार्य सर्वशास्त्राणि तन्त्राण्य् आगमविस्तरम् ।
इतिहासपुराणानि वेदाङ्गानि च सर्वशः ॥ १० ॥

धर्मशास्त्राणि सर्वाणि नियमान् ऋषिभाषितान् ।
वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च ॥ ११ ॥

गुरुं संसेव्य यत्नेन ब्राह्मणान् वेदपारगान् ।
आधाय परमां काष्ठां कृतकृत्यो ऽभवत् तदा ॥ १२ ॥

सम्प्राप्य परमं तत्त्वं वासुदेवाख्यम् अव्ययम् ।
भ्रान्तिज्ञानाद् अतीतस् तु मुमुक्षुः संयतेन्द्रियः ॥ १३ ॥

कथम् आराधयिष्यामि देवदेवं सनातनम् ।
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥ १४ ॥

वनमालावृतोरस्कं पद्मपत्त्रायतेक्षणम् ।
श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम् ॥ १५ ॥

स्वपुरात् स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः ।
बलेन महता युक्तः सभृत्यः सपुरोहितः ॥ १६ ॥

अनुजग्मुस् तु तं सर्वे रथिनः शस्त्रपाणयः ।
रथैर् विमानसङ्काशैः पताकाध्वजसेवितैः ॥ १७ ॥

सादिनश् च तथा सर्वे प्रासतोमरपाणयः ।
अश्वैः पवनसङ्काशैर् अनुजग्मुस् तु तं नृपम् ॥ १८ ॥

हिमवत्सम्भवैर् मत्तैर् वारणैः पर्वतोपमैः ।
ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः ॥ १९ ॥

हेमकक्षैः सपताकैर् घण्टारवविभूषितैः ।
अनुजग्मुश् च तं सर्वे गजयुद्धविशारदाः ॥ २० ॥

असङ्ख्येयाश् च पादाता धनुष्प्रासासिपाणयः ।
दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ २१ ॥

अनुजग्मुश् च तं सर्वे युवानो मृष्टकुण्डलाः ।
सर्वास्त्रकुशलाः शूराः सदा सङ्ग्रामलालसाः ॥ २२ ॥

अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलङ्कृताः ।
बिम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः ॥ २३ ॥

दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः ।
दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः ॥ २४ ॥

सुमध्यमाश् चारुवेषाश् चारुकर्णालकाञ्चिताः ।
ताम्बूलरञ्जितमुखा रक्षिभिश् च सुरक्षिताः ॥ २५ ॥

यानैर् उच्चावचैः शुभ्रैर् मणिकाञ्चनभूषितैः ।
उपगीयमानास् ताः सर्वा गायनैः स्तुतिपाठकैः ॥ २६ ॥

वेष्टिताः शस्त्रहस्तैश् च पद्मपत्त्रायतेक्षणाः ।
ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुश् च तं नृपम् ॥ २७ ॥

वणिग्ग्रामगणाः सर्वे नानापुरनिवासिनः ।
धनै रत्नैः सुवर्णैश् च सदाराः सपरिच्छदाः ॥ २८ ॥

अस्त्रविक्रयकाश् चैव ताम्बूलपण्यजीविनः ।
तृणविक्रयकाश् चैव काष्ठविक्रयकारकाः ॥ २९ ॥

रङ्गोपजीविनः सर्वे मांसविक्रयिणस् तथा ।
तैलविक्रयकाश् चैव वस्त्रविक्रयकास् तथा ॥ ३० ॥

फलविक्रयिणश् चैव पत्त्रविक्रयिणस् तथा ।
तथा जवसहाराश् च रजकाश् च सहस्रशः ॥ ३१ ॥

गोपाला नापिताश् चैव तथान्ये वस्त्रसूचकाः ।
मेषपालाश् चाजपाला मृगपालाश् च हंसकाः ॥ ३२ ॥

धान्यविक्रयिणश् चैव सक्तुविक्रयिणश् च ये ।
गुडविक्रयिकाश् चैव तथा लवणजीविनः ॥ ३३ ॥

गायना नर्तकाश् चैव तथा मङ्गलपाठकाः ।
शैलूषाः कथकाश् चैव पुराणार्थविशारदाः ॥ ३४ ॥

कवयः काव्यकर्तारो नानाकाव्यविशारदाः ।
विषघ्ना गारुडाश् चैव नानारत्नपरीक्षकाः ॥ ३५ ॥

व्योकारास् ताम्रकाराश् च कांस्यकाराश् च रूठकाः ।
कौषकाराश् चित्रकाराः कुन्दकाराश् च पावकाः ॥ ३६ ॥

दण्डकाराश् चासिकाराः सुराधूतोपजीविनः ।
मल्ला दूताश् च कायस्था ये चान्ये कर्मकारिणः ॥ ३७ ॥

तन्तुवाया रूपकारा वार्तिकास् तैलपाठकाः ।
लावजीवास् तैत्तिरिका मृगपक्ष्युपजीविनः ॥ ३८ ॥

गजवैद्याश् च वैद्याश् च नरवैद्याश् च ये नराः ।
वृक्षवैद्याश् च गोवैद्या ये चान्ये छेददाहकाः ॥ ३९ ॥

एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः ।
अनुजग्मुस् तु राजानं समस्तपुरवासिनः ॥ ४० ॥

यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः ।
अनुयान्ति यथा पुत्रास् तथा तं ते ऽपि नागराः ॥ ४१ ॥

एवं स नृपतिः श्रीमान् वृतः सर्वैर् महाजनैः ।
हस्त्यश्वरथपादातैर् जगाम च शनैः शनैः ॥ ४२ ॥

एवं गत्वा स नृपतिर् दक्षिणस्योदधेस् तटम् ।
सर्वैस् तैर् दीर्घकालेन बलैर् अनुगतः प्रभुः ॥ ४३ ॥

ददर्श सागरं रम्यं नृत्यन्तम् इव च स्थितम् ।
अनेकशतसाहस्रैर् ऊर्मिभिश् च समाकुलम् ॥ ४४ ॥

नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम् ।
वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम् ॥ ४५ ॥

तीर्थराजं महाशब्दम् अपारं सुभयङ्करम् ।
मेघवृन्दप्रतीकाशम् अगाधं मकरालयम् ॥ ४६ ॥

मत्स्यैः कूर्मैश् च शङ्खैश् च शुक्तिकानक्रशङ्कुभिः ।
शिंशुमारैः कर्कटैश् च वृतं सर्पैर् महाविषैः ॥ ४७ ॥

लवणोदं हरेः स्थानं शयनस्य नदीपतिम् ।
सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम् ॥ ४८ ॥

अनेकावर्तगम्भीरं दानवानां समाश्रयम् ।
अमृतस्यारणिं दिव्यं देवयोनिम् अपां पतिम् ॥ ४९ ॥

विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम् ।
सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम् ॥ ५० ॥

तीर्थानाम् उत्तमं तीर्थम् अव्ययं यादसां पतिम् ।
चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम् ॥ ५१ ॥

अभेद्यं सर्वभूतानां देवानाम् अमृतालयम् ।
उत्पत्तिस्थितिसंहारहेतुभूतं सनातनम् ॥ ५२ ॥

उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम् ।
दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः ॥ ५३ ॥

निवासम् अकरोत् तत्र वेलाम् असाद्य सागरीम् ।
पुण्ये मनोहरे देशे सर्वभूमिगुणैर् युते ॥ ५४ ॥

वृतं शालैः कदम्बैश् च पुन्नागैः सरलद्रुमैः ।
पनसैर् नारिकेलैश् च बकुलैर् नागकेसरैः ॥ ५५ ॥

तालैः पिप्पलैः खर्जूरैर् नारङ्गैर् बीजपूरकैः ।
शालैर् आम्रातकैर् लोध्रैर् बकुलैर् बहुवारकैः ॥ ५६ ॥

कपित्थैः कर्णिकारैश् च पाटलाशोकचम्पकैः ।
दाडिमैश् च तमालैश् च पारिजातैस् तथार्जुनैः ॥ ५७ ॥

प्राचीनामलकैर् बिल्वैः प्रियङ्गुवटखादिरैः ।
इङ्गुदीसप्तपर्णैश् च अश्वत्थागस्त्यजम्बुकैः ॥ ५८ ॥

मधुकैः कर्णिकारैश् च बहुवारैः सतिन्दुकैः ।
पलाशबदरैर् नीपैः सिद्धनिम्बशुभाञ्जनैः ॥ ५९ ॥

वारकैः कोविदारैश् च भल्लातामलकैस् तथा ।
इति हिन्तालकाङ्कोलैः करञ्जैः सविभीतकैः ॥ ६० ॥

ससर्जमधुकाश्मर्यैः शाल्मलीदेवदारुभिः ।
शाखोठकैर् निम्बवटैः कुम्भीकौष्ठहरीतकैः ॥ ६१ ॥

गुग्गुलैश् चन्दनैर् वृक्षैस् तथैवागुरुपाटलैः ।
जम्बीरकरुणैर् वृक्षैस् तिन्तिडीरक्तचन्दनैः ॥ ६२ ॥

एवं नानाविधैर् वृक्षैस् तथान्यैर् बहुपादपैः ।
कल्पद्रुमैर् नित्यफलैः सर्वर्तुकुसुमोत्करैः ॥ ६३ ॥

नानापक्षिरुतैर् दिव्यैर् मत्तकोकिलनादितैः ।
मयूरवरसङ्घुष्टैः शुकसारिकसङ्कुलैः ॥ ६४ ॥

हारीतैर् भृङ्गराजैश् च चातकैर् बहुपुत्रकैः ।
जीवञ्जीवककाकोलैः कलविङ्कैः कपोतकैः ॥ ६५ ॥

खगैर् नानाविधैश् चान्यैः श्रोत्ररम्यैर् मनोहरैः ।
पुष्पिताग्रेषु वृक्षेषु कूजद्भिश् चार्वधिष्ठितैः ॥ ६६ ॥

केतकीवनखण्डैश् च सदा पुष्पधरैः सितैः ।
मल्लिकाकुन्दकुसुमैर् यूथिकातगरैस् तथा ॥ ६७ ॥

कुटजैर् बाणपुष्पैश् च अतिमुक्तैः सकुब्जकैः ।
मालतीकरवीरैश् च तथा कदलकाञ्चनैः ॥ ६८ ॥

अन्यैर् नानाविधैः पुष्पैः सुगन्धैश् चारुदर्शनैः ।
वनोद्यानोपवनजैर् नानावर्णैः सुगन्धिभिः ॥ ६९ ॥

विद्याधरगणाकीर्णैः सिद्धचारणसेवितैः ।
गन्धर्वोरगरक्षोभिर् भूताप्सरसकिन्नरैः ॥ ७० ॥

मुनियक्षगणाकीर्णैर् नानासत्त्वनिषेवितैः ।
मृगैः शाखामृगैः सिंहैर् वराहमहिषाकुलैः ॥ ७१ ॥

तथान्यैः कृष्णसाराद्यैर् मृगैः सर्वत्र शोभितैः ।
शार्दूलैर् दीप्तमातङ्गैस् तथान्यैर् वनचारिभिः ॥ ७२ ॥

एवं नानाविधैर् वृक्षैर् उद्यानैर् नन्दनोपमैः ।
लतागुल्मवितानैश् च विविधैश् च जलाशयैः ॥ ७३ ॥

हंसकारण्डवाकीर्णैः पद्मिनीखण्डमण्डितैः ।
कादम्बैश् च प्लवैर् हंसैश् चक्रवाकोपशोभितैः ॥ ७४ ॥

कमलैः शतपत्त्रैश् च कह्लारैः कुमुदोत्पलैः ।
खगैर् जलचरैश् चान्यैः पुष्पैर् जलसमुद्भवैः ॥ ७५ ॥

पर्वतैर् दीप्तशिखरैश् चारुकन्दरमण्डितैः ।
नानावृक्षसमाकीर्णैर् नानाधातुविभूषितैः ॥ ७६ ॥

सर्वाश्चर्यमयैः शृङ्गैः सर्वभूतालयैः शुभैः ।
सर्वौषधिसमायुक्तैर् विपुलैश् चित्रसानुभिः ॥ ७७ ॥

एवं सर्वैः समुदितैः शोभितं सुमनोहरैः ।
ददर्श स महीपालः स्थानं त्रैलोक्यपूजितम् ॥ ७८ ॥

दशयोजनविस्तीर्णं पञ्चयोजनम् आयतम् ।
नानाश्चर्यसमायुक्तं क्षेत्रं परमदुर्लभम् ॥ ७९ ॥