Summary (SA)
Chapter 43- Story of Indradyumna
{{Ref- SS 95-97}}
ब्रह्मोवाच-
पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः ।
बभूव नृपतिः श्रीमान् इन्द्रद्युम्न इति श्रुतः ॥ १ ॥
सत्यवादी शुचिर् दक्षः सर्वशास्त्रविशारदः ।
रूपवान् सुभगः शूरो दाता भोक्ता प्रियंवदः ॥ २ ॥
यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसङ्गरः ।
धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती ॥ ३ ॥
वल्लभो नरनारीणां पौर्णमास्यां यथा शशी ।
आदित्य इव दुष्प्रेक्ष्यः शत्रुसङ्घभयङ्करः ॥ ४ ॥
वैष्णवः सत्त्वसम्पन्नो जितक्रोधो जितेन्द्रियः ।
अध्येता योगसाङ्ख्यानां मुमुक्षुर् धर्मतत्परः ॥ ५ ॥
एवं स पालयन् पृथ्वीं राजा सर्वगुणाकरः ।
तस्य बुद्धिः समुत्पन्ना हरेर् आराधनं प्रति ॥ ६ ॥
कथम् आराधयिष्यामि देवदेवं जनार्दनम् ।
कस्मिन् क्षेत्रे ऽथवा तीर्थे नदीतीरे तथाश्रमे ॥ ७ ॥
एवं चिन्तापरः सो ऽथ निरीक्ष्य मनसा महीम् ।
आलोक्य सर्वतीर्थानि क्षेत्राण्य् अथ पुराण्य् अपि ॥ ८ ॥
तानि सर्वाणि सन्त्यज्य जगामायतनं पुनः ।
विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ ९ ॥
स गत्वा तत् क्षेत्रवरं समृद्धबलवाहनः ।
अयजच् चाश्वमेधेन विधिवद् भूरिदक्षिणः ॥ १० ॥
कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम् ।
तत्र सङ्कर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् ॥ ११ ॥
पञ्चतीर्थं च विधिवत् कृत्वा तत्र महीपतिः ।
स्नानं दानं तपो होमं देवताप्रेक्षणं तथा ॥ १२ ॥
भक्त्या चाराध्य विधिवत् प्रत्यहं पुरुषोत्तमम् ।
प्रसादाद् देवदेवस्य ततो मोक्षम् अवाप्तवान् ॥ १३ ॥
मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः ।
सागरे चेन्द्रद्युम्नाख्ये स्नात्वा मोक्षं लभेद् ध्रुवम् ॥ १४ ॥
मुनय ऊचुः-
कस्मात् स नृपतिः पूर्वम् इन्द्रद्युम्नो जगत्पतिः ।
जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ १५ ॥
गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः ।
वाजिमेधेन विधिवद् इष्टवान् पुरुषोत्तमम् ॥ १६ ॥
कथं स सर्वफलदे क्षेत्रे परमदुर्लभे ।
प्रासादं कारयाम् आस चेष्टं त्रैलोक्यविश्रुतम् ॥ १७ ॥
कथं स कृष्णं रामं च सुभद्रां च प्रजापते ।
निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान् कथम् ॥ १८ ॥
कथं तत्र महीपालः प्रासादे भुवनोत्तमे ।
स्थापयाम् आस मतिमान् कृष्णादींस् त्रिदशार्चितान् ॥ १९ ॥
एतत् सर्वं सुरश्रेष्ठ विस्तरेण यथातथम् ।
वक्तुम् अर्हस्य् अशेषेण चरितं तस्य धीमतः ॥ २० ॥
न तृप्तिम् अधिगच्छामस् तव वाक्यामृतेन वै ।
श्रोतुम् इच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ २१ ॥
ब्रह्मोवाच-
साधु साधु द्विजश्रेष्ठा यत् पृच्छध्वं पुरातनम् ।
सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम् ॥ २२ ॥
वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे ।
शृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः ॥ २३ ॥
अवन्ती नाम नगरी मालवे भुवि विश्रुता ।
बभूव तस्य नृपतेः पृथिवी ककुदोपमा ॥ २४ ॥
हृष्टपुष्टजनाकीर्णा दृढप्राकारतोरणा ।
दृढयन्त्रार्गलद्वारा परिखाभिर् अलङ्कृता ॥ २५ ॥
नानावणिक्समाकीर्णा नानाभाण्डसुविक्रिया ।
रथ्यापणवती रम्या ।
सुविभक्तचतुष्पथा ॥ २६ ॥
गृहगोपुरसम्बाधा वीथीभिः समलङ्कृता ।
राजहंसनिभैः शुभ्रैश् चित्रग्रीवैर् मनोहरैः ॥ २७ ॥
अनेकशतसाहस्रैः प्रासादैः समलङ्कृता ।
यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना ॥ २८ ॥
नानावर्णपताकाभिर् ध्वजैश् च समलङ्कृता ।
हस्त्यश्वरथसङ्कीर्णा पदातिगणसङ्कुला ॥ २९ ॥
नानायोधसमाकीर्णा नानाजनपदैर् युता ।
ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् चैव द्विजातिभिः ॥ ३० ॥
समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलङ्कृता ।
न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः ॥ ३१ ॥
न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः ।
सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रियः ॥ ३२ ॥
क्रीडन्ति स्म दिवा रात्रौ हृष्टास् तत्र पृथक् पृथक् ।
सुवेषाः पुरुषास् तत्र दृश्यन्ते मृष्टकुण्डलाः ॥ ३३ ॥
सुरूपाः सुगुणाश् चैव दिव्यालङ्कारभूषिताः ।
कामदेवप्रतीकाशाः सर्वलक्षणलक्षिताः ॥ ३४ ॥
सुकेशाः सुकपोलाश् च सुमुखाः श्मश्रुधारिणः ।
ज्ञातारः सर्वशास्त्राणां भेत्तारः शत्रुवाहिनीम् ॥ ३५ ॥
दातारः सर्वरत्नानां भोक्तारः सर्वसम्पदाम् ।
स्त्रियस् तत्र मुनिश्रेष्ठा दृश्यन्ते सुमनोहराः ॥ ३६ ॥
हंसवारणगामिन्यः प्रफुल्लाम्भोजलोचनाः ।
सुमध्यमाः सुजघनाः पीनोन्नतपयोधराः ॥ ३७ ॥
सुकेशाश् चारुवदनाः सुकपोलाः स्थिरालकाः ।
हावभावानतग्रीवाः कर्णाभरणभूषिताः ॥ ३८ ॥
बिम्बौष्ठ्यो रञ्जितमुखास् ताम्बूलेन विराजिताः ।
सुवर्णाभरणोपेताः सर्वालङ्कारभूषिताः ॥ ३९ ॥
श्यामावदाताः सुश्रोण्यः काञ्चीनूपुरनादिताः ।
दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ४० ॥
विदग्धाः सुभगाः कान्ताश् चार्वङ्ग्यः प्रियदर्शनाः ।
रूपलावण्यसंयुक्ताः सर्वाः प्रहसिताननाः ॥ ४१ ॥
क्रीडन्त्यश् च मदोन्मत्ताः च ।
गीतवाद्यकथालापै रमयन्त्यश् च ताः स्त्रियः ॥ ४२ ॥
वारमुख्याश् च दृश्यन्ते नृत्यगीतविशारदाः ।
प्रेक्षणालापकुशलाः सर्वयोषिद्गुणान्विताः ॥ ४३ ॥
अन्याश् च तत्र दृश्यन्ते गुणाचार्याः कुलस्त्रियः ।
पतिव्रताश् च सुभगा गुणैः सर्वैर् अलङ्कृताः ॥ ४४ ॥
वनैश् चोपवनैः पुण्यैर् उद्यानैश् च मनोरमैः ।
देवतायतनैर् दिव्यैर् नानाकुसुमशोभितैः ॥ ४५ ॥
शालैस् तालैस् तमालैश् च बकुलैर् नागकेसरैः ।
पिप्पलैः कर्णिकारैश् च चन्दनागुरुचम्पकैः ॥ ४६ ॥
पुन्नागैर् नारिकेरैश् च पनसैः सरलद्रुमैः ।
नारङ्गैर् लकुचैर् लोध्रैः सप्तपर्णैः शुभाञ्जनैः ॥ ४७ ॥
चूतबिल्वकदम्बैश् च शिंशपैर् धवखादिरैः ।
पाटलाशोकतगरैः करवीरैः सितेतरैः ॥ ४८ ॥
पीतार्जुनकभल्लातैः सिद्धैर् आम्रातकैस् तथा ।
न्यग्रोधाश्वत्थकाश्मर्यैः पलाशैर् देवदारुभिः ॥ ४९ ॥
मन्दारैः पारिजातैश् च तिन्तिडीकविभीतकैः ।
प्राचीनामलकैः प्लक्षैर् जम्बूशिरीषपादपैः ॥ ५० ॥
कालेयैः काञ्चनारैश् च मधुजम्बीरतिन्दुकैः ।
खर्जूरागस्त्यबकुलैः शाखोटकहरीतकैः ॥ ५१ ॥
कङ्कोलैर् मुचुकुन्दैश् च हिन्तालैर् बीजपूरकैः ।
केतकीवनखण्डैश् च अतिमुक्तैः सकुब्जकैः ॥ ५२ ॥
मल्लिकाकुन्दबाणैश् च कदलीखण्डमण्डितैः ।
मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः ॥ ५३ ॥
बहुवारैः कोविदारैर् बदरैः सकरञ्जकैः ।
अन्यैश् च विविधैः पुष्पवृक्षैश् चान्यैर् मनोहरैः ॥ ५४ ॥
लतागुल्मैर् वितानैश् च उद्यानैर् नन्दनोपमैः ।
सदा कुसुमगन्धाढ्यैः सदा फलभरानतैः ॥ ५५ ॥
नानापक्षिरुतै रम्यैर् नानामृगगणावृतैः ।
चकोरैः शतपत्त्रैश् च भृङ्गारैः प्रियपुत्रकैः ॥ ५६ ॥
कलविङ्कैर् मयूरैश् च शुकैः कोकिलकैस् तथा ।
कपोतैः खञ्जरीटैश् च श्येनैः पारावतैस् तथा ॥ ५७ ॥
खगैश् चान्यैर् बहुविधैः श्रोत्ररम्यैर् मनोरमैः ।
सरितः पुष्करिण्यश् च सरांसि सुबहूनि च ॥ ५८ ॥
अन्यैर् जलाशयैः पुण्यैः कुमुदोत्पलमण्डितैः ।
पद्मैः सितेतरैः शुभ्रैः कह्लारैश् च सुगन्धिभिः ॥ ५९ ॥
अन्यैर् बहुविधैः पुष्पैर् जलजैः सुमनोहरैः ।
गन्धामोदकरैर् दिव्यैः सर्वर्तुकुसुमोज्ज्वलैः ॥ ६० ॥
हंसकारण्डवाकीर्णैश् चक्रवाकोपशोभितैः ।
सारसैश् च बलाकैश् च कूर्मैर् मत्स्यैः सनक्रकैः ॥ ६१ ॥
जलपादैः कदम्बैश् च प्लवैश् च जलकुक्कुटैः ।
खगैर् जलचरैश् चान्यैर् नानारवविभूषितैः ॥ ६२ ॥
नानावर्णैः सदा हृष्टैर् अञ्चितानि समन्ततः ।
एवं नानाविधैः पुष्पैर् विविधैश् च जलाशयैः ॥ ६३ ॥
विविधैः पादपैः पुण्यैर् उद्यानैर् विविधैस् तथा ।
जलस्थलचरैश् चैव विहगैश् चार्वधिष्ठितैः ॥ ६४ ॥
देवतायतनैर् दिव्यैः शोभिता सा महापुरी ।
तत्रास्ते भगवान् देवस् त्रिपुरारिस् त्रिलोचनः ॥ ६५ ॥
महाकालेति विख्यातः सर्वकामप्रदः शिवः ।
शिवकुण्डे नरः स्नात्वा विधिवत् पापनाशने ॥ ६६ ॥
देवान् पितॄन् ऋषींश् चैव सन्तर्प्य विधिवद् बुधः ।
गत्वा शिवालयं पश्चात् कृत्वा तं त्रिः प्रदक्षिणम् ॥ ६७ ॥
प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः ।
स्नानैः पुष्पैस् तथा गन्धैर् धूपैर् दीपैश् च भक्तितः ॥ ६८ ॥
नैवेद्यैर् उपहारैश् च गीतवाद्यैः प्रदक्षिणैः ।
दण्डवत्प्रणिपातैश् च नृत्यैः स्तोत्रैश् च शङ्करम् ॥ ६९ ॥
सम्पूज्य विधिवद् भक्त्या महाकालं सकृच् छिवम् ।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ ७० ॥
पापैः सर्वैर् विनिर्मुक्तो विमानैः सार्वकामिकैः ।
आरुह्य त्रिदिवं याति यत्र शम्भोर् निकेतनम् ॥ ७१ ॥
दिव्यरूपधरः श्रीमान् दिव्यालङ्कारभूषितः ।
भुङ्क्ते तत्र वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ ७२ ॥
शिवलोके मुनिश्रेष्ठा जरामरणवर्जितः ।
पुण्यक्षयाद् इहायातः प्रवरे ब्राह्मणे कुले ॥ ७३ ॥
चतुर्वेदी भवेद् विप्रः सर्वशास्त्रविशारदः ।
योगं पाशुपतं प्राप्य ततो मोक्षम् अवाप्नुयात् ॥ ७४ ॥
आस्ते तत्र नदी पुण्या शिप्रा नामेति विश्रुता ।
तस्यां स्नातस् तु विधिवत् सन्तर्प्य पितृदेवताः ॥ ७५ ॥
सर्वपापविनिर्मुक्तो विमानवरम् आस्थितः ।
भुङ्क्ते बहुविधान् भोगान् स्वर्गलोके नरोत्तमः ॥ ७६ ॥
आस्ते तत्रैव भगवान् देवदेवो जनार्दनः ।
गोविन्दस्वामिनामासौ भुक्तिमुक्तिप्रदो हरिः ॥ ७७ ॥
तं दृष्ट्वा मुक्तिम् आप्नोति त्रिसप्तकुलसंयुतः ।
विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥ ७८ ॥
सर्वकामसमृद्धेन कामगेनास्थिरेण च ।
उपगीयमानो गन्धर्वैर् विष्णुलोके महीयते ॥ ७९ ॥
भुङ्क्ते च विविधान् कामान् निरातङ्को गतज्वरः ।
आभूतसम्प्लवं यावत् सुरूपः सुभगः सुखी ॥ ८० ॥
कालेनागत्य मतिमान् ब्राह्मणः स्यान् महीतले ।
प्रवरे योगिनां गेहे वेदशास्त्रार्थतत्त्ववित् ॥ ८१ ॥
वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात् ।
विक्रमस्वामिनामानं विष्णुं तत्रैव भो द्विजाः ॥ ८२ ॥
दृष्ट्वा नरो वा नारी वा फलं पूर्वोदितं लभेत् ।
अन्ये ऽपि तत्र तिष्ठन्ति देवाः शक्रपुरोगमाः ॥ ८३ ॥
मातरश् च मुनिश्रेष्ठाः सर्वकामफलप्रदाः ।
दृष्ट्वा तान् विधिवद् भक्त्या सम्पूज्य प्रणिपत्य च ॥ ८४ ॥
सर्वपापविनिर्मुक्तो नरो याति त्रिविष्टपम् ।
एवं सा नगरी रम्या राजसिंहेन पालिता ॥ ८५ ॥
नित्योत्सवप्रमुदिता यथेन्द्रस्यामरावती ।
पुराष्टादशसंयुक्ता सुविस्तीर्णचतुष्पथा ॥ ८६ ॥
धनुर्ज्याघोषनिनदा सिद्धसङ्गमभूषिता ।
विद्यावद्गणभूयिष्ठा वेदनिर्घोषनादिता ॥ ८७ ॥
इतिहासपुराणानि शास्त्राणि विविधानि च ।
काव्यालापकथाश् चैव श्रूयन्ते ऽहर्निशं द्विजाः ॥ ८८ ॥
एवं मया गुणाढ्या सा तदुयिनी?? समुदाहृता ।
यस्यां राजाभवत् पूर्वम् इन्द्रद्युम्नो महामतिः ॥ ८९ ॥