Summary (SA)
Chapter 42- Description of Viraja; description of Utkala
{{Ref- SS 94-95}}
ब्रह्मोवाच-
विरजे विरजा माता ब्रह्माणी सम्प्रतिष्ठिता ।
यस्याः सन्दर्शनान् मर्त्यः पुनात्य् आसप्तमं कुलम् ॥ १ ॥
सकृद् दृष्ट्वा तु तां देवीं भक्त्यापूज्य प्रणम्य च ।
नरः स्ववंशम् उद्धृत्य मम लोकं स गच्छति ॥ २ ॥
अन्याश् च तत्र तिष्ठन्ति विरजे लोकमातरः ।
सर्वपापहरा देव्यो वरदा भक्तिवत्सलाः ॥ ३ ॥
आस्ते वैतरणी तत्र सर्वपापहरा नदी ।
यस्यां स्नात्वा नरश्रेष्ठः सर्वपापैः प्रमुच्यते ॥ ४ ॥
आस्ते स्वयम्भूस् तत्रैव क्रोडरूपी हरिः स्वयम् ।
दृष्ट्वा प्रणम्य तं भक्त्या परं विष्णुं व्रजन्ति ते ॥ ५ ॥
कापिले गोग्रहे सोमे तीर्थे चालाबुसञ्ज्ञिते ।
मृत्युञ्जये क्रोडतीर्थे वासुके सिद्धकेश्वरे ॥ ६ ॥
तीर्थेष्व् एतेषु मतिमान् विरजे संयतेन्द्रियः ।
गत्वाष्टतीर्थं विधिवत् स्नात्वा देवान् प्रणम्य च ॥ ७ ॥
सर्वपापविनिर्मुक्तो विमानवरम् आस्थितः ।
उपगीयमानो गन्धर्वैर् मम लोके महीयते ॥ ८ ॥
विरजे यो मम क्षेत्रे पिण्डदानं करोति वै ।
स करोत्य् अक्षयां तृप्तिं पितॄणां नात्र संशयः ॥ ९ ॥
मम क्षेत्रे मुनिश्रेष्ठा विरजे ये कलेवरम् ।
परित्यजन्ति पुरुषास् ते मोक्षं प्राप्नुवन्ति वै ॥ १० ॥
स्नात्वा यः सागरे मर्त्यो दृष्ट्वा च कपिलं हरिम् ।
पश्येद् देवीं च वाराहीं स याति त्रिदशालयम् ॥ ११ ॥
सन्ति चान्यानि तीर्थानि पुण्यान्य् आयतनानि च ।
तत्काले तु मुनिश्रेष्ठा वेदितव्यानि तानि वै ॥ १२ ॥
समुद्रस्योत्तरे तीरे तस्मिन् देशे द्विजोत्तमाः ।
आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम् ॥ १३ ॥
सर्वत्र वालुकाकीर्णं पवित्रं सर्वकामदम् ।
दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ १४ ॥
अशोकार्जुनपुन्नागैर् बकुलैः सरलद्रुमैः ।
पनसैर् नारिकेलैश् च शालैस् तालैः कपित्थकैः ॥ १५ ॥
चम्पकैः कर्णिकारैश् च चूतबिल्वैः सपाटलैः ।
कदम्बैः कोविदारैश् च लकुचैर् नागकेसरैः ॥ १६ ॥
प्राचीनामलकैर् लोध्रैर् नारङ्गैर् धवखादिरैः ।
सर्जभूर्जाश्वकर्णैश् च तमालैर् देवदारुभिः ॥ १७ ॥
मन्दारैः पारिजातैश् च न्यग्रोधागुरुचन्दनैः ।
खर्जूराम्रातकैः सिद्धैर् मुचुकुन्दैः सकिंशुकैः ॥ १८ ॥
अश्वत्थैः सप्तपर्णैश् च मधुधारशुभाञ्जनैः ।
शिंशपामलकैर् नीपैर् निम्बतिन्दुविभीतकैः ॥ १९ ॥
सर्वर्तुफलगन्धाढ्यैः सर्वर्तुकुसुमोज्ज्वलैः ।
मनोह्लादकरैः शुभ्रैर् नानाविहगनादितैः ॥ २० ॥
श्रोत्ररम्यैः सुमधुरैर् बलनिर्मदनेरितैः ।
मनसः प्रीतिजनकैः शब्दैः खगमुखेरितैः ॥ २१ ॥
चकोरैः शतपत्त्रैश् च भृङ्गराजैस् तथा शुकैः ।
कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः ॥ २२ ॥
प्रियपुत्रैश् चातकैश् च तथान्यैर् मधुरस्वरैः ।
श्रोत्ररम्यैः प्रियकरैः कूजद्भिश् चार्वधिष्ठितैः ॥ २३ ॥
केतकीवनखण्डैश् च अतिमुक्तैः सकुब्जकैः ।
मालतीकुन्दबाणैश् च करवीरैः सितेतरैः ॥ २४ ॥
जम्बीरकरुणाङ्कोलैर् दाडिमैर् बीजपूरकैः ।
मातुलुङ्गैः पूगफलैर् हिन्तालैः कदलीवनैः ॥ २५ ॥
अन्यैश् च विविधैर् वृक्षैः पुष्पैश् चान्यैर् मनोहरैः ।
लतावितानगुल्मैश् च विविधैश् च जलाशयैः ॥ २६ ॥
दीर्घिकाभिस् तडागैश् च पुष्करिणीभिश् च वापिभिः ।
नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः ॥ २७ ॥
सरांसि च मनोज्ञानि प्रसन्नसलिलानि च ।
कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः ॥ २८ ॥
कह्लारैः कमलैश् चापि आचितानि समन्ततः ।
कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः ॥ २९ ॥
कारण्डवैः प्लवैर् हंसैः कूर्मैर् मत्स्यैश् च मद्गुभिः ।
दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः ॥ ३० ॥
एतैश् चान्यैश् च कूजद्भिः समन्ताज् जलचारिभिः ।
खगैर् जलचरैश् चान्यैः कुसुमैश् च जलोद्भवैः ॥ ३१ ॥
एवं नानाविधैर् वृक्षैः पुष्पैः स्थलजलोद्भवैः ।
ब्रह्मचारिगृहस्थैश् च वानप्रस्थैश् च भिक्षुभिः ॥ ३२ ॥
स्वधर्मनिरतैर् वर्णैस् तथान्यैः समलङ्कृतम् ।
हृष्टपुष्टजनाकीर्णं नरनारीसमाकुलम् ॥ ३३ ॥
अशेषविद्यानिलयं सर्वधर्मगुणाकरम् ।
एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम् ॥ ३४ ॥
आस्ते तत्र मुनिश्रेष्ठा विख्यातः पुरुषोत्तमः ।
यावद् उत्कलमर्यादा दिक् क्रमेण प्रकीर्तिता ॥ ३५ ॥
तावत् कृष्णप्रसादेन देशः पुण्यतमो हि सः ।
यत्र तिष्ठति विश्वात्मा देशे स पुरुषोत्तमः ॥ ३६ ॥
जगद्व्यापी जगन्नाथस् तत्र सर्वं प्रतिष्ठितम् ।
अहं रुद्रश् च शक्रश् च देवाश् चाग्निपुरोगमाः ॥ ३७ ॥
निवसामो मुनिश्रेष्ठास् तस्मिन् देशे सदा वयम् ।
गन्धर्वाप्सरसः सर्वाः पितरो देवमानुषाः ॥ ३८ ॥
यक्षा विद्याधराः सिद्धा मुनयः संशितव्रताः ।
ऋषयो वालखिल्याश् च कश्यपाद्याः प्रजेश्वराः ॥ ३९ ॥
सुपर्णाः किन्नरा नागास् तथान्ये स्वर्गवासिनः ।
साङ्गाश् च चतुरो वेदाः शास्त्राणि विविधानि च ॥ ४० ॥
इतिहासपुराणानि यज्ञाश् च वरदक्षिणाः ।
नद्यश् च विविधाः पुण्यास् तीर्थान्य् आयतनानि च ॥ ४१ ॥
सागराश् च तथा शैलास् तस्मिन् देशे व्यवस्थिताः ।
एवं पुण्यतमे देशे देवर्षिपितृसेविते ॥ ४२ ॥
सर्वोपभोगसहिते वासः कस्य न रोचते ।
श्रेष्ठत्वं कस्य देशस्य किं चान्यद् अधिकं ततः ॥ ४३ ॥
आस्ते यत्र स्वयं देवो मुक्तिदः पुरुषोत्तमः ।
धन्यास् ते विबुधप्रख्या ये वसन्त्य् उत्कले नराः ॥ ४४ ॥
तीर्थराजजले स्नात्वा पश्यन्ति पुरुषोत्तमम् ।
स्वर्गे वसन्ति ते मर्त्या न ते यान्ति यमालये ॥ ४५ ॥
ये वसन्त्य् उत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे ।
सफलं जीवितं तेषाम् उत्कलानां सुमेधसाम् ॥ ४६ ॥
ये पश्यन्ति सुरश्रेष्ठं प्रसन्नायतलोचनम् ।
चारुभ्रूकेशमुकुटं चारुकर्णावतंसकम् ॥ ४७ ॥
चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम् ।
सुनासं सुकपोलं च सुललाटं सुलक्षणम् ॥ ४८ ॥
त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम् ॥ ४९ ॥