041

Summary (SA)

Chapter 41- Description of Ekāmraka; worship of Śiva

{{Ref- SS 93-94}}

लोमहर्षण उवाच-

श्रुत्वैवं वै मुनिश्रेष्ठाः कथां पापप्रणाशिनीम् ।
रुद्रक्रोधोद्भवां पुण्यां व्यासस्य वदतो द्विजाः ॥ १ ॥

पार्वत्याश् च तथा रोषं क्रोधं शम्भोश् च दुःसहम् ।
उत्पत्तिं वीरभद्रस्य भद्रकाल्याश् च सम्भवम् ॥ २ ॥

दक्षयज्ञविनाशं च वीर्यं शम्भोस् तथाद्भुतम् ।
पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः ॥ ३ ॥

यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः ।
हृष्टा बभूवुः सम्प्रीता विस्मिताश् च पुनः पुनः ॥ ४ ॥

पप्रच्छुश् च पुनर् व्यासं कथाशेषं तथा द्विजाः ।
पृष्टः प्रोवाच तान् व्यासः क्षेत्रम् एकाम्रकं पुनः ॥ ५ ॥

व्यास उवाच-

ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुङ्गवाः ।
प्रशशंसुस् तदा हृष्टा रोमाञ्चिततनूरुहाः ॥ ६ ॥

ऋषय ऊचुः-

अहो देवस्य माहात्म्यं त्वया शम्भोः प्रकीर्तितम् ।
दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा ॥ ७ ॥

एकाम्रकं क्षेत्रवरं वक्तुम् अर्हसि साम्प्रतम् ।
श्रोतुम् इच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ ८ ॥

व्यास उवाच-

तेषां तद् वचनं श्रुत्वा लोकनाथश् चतुर्मुखः ।
प्रोवाच शम्भोस् तत् क्षेत्रं भूतले दुष्कृतच्छदम् ॥ ९ ॥

ब्रह्मोवाच-

शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम् ॥ १० ॥

लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम् ।
एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम् ॥ ११ ॥

एकाम्रवृक्षस् तत्रासीत् पुरा कल्पे द्विजोत्तमाः ।
नाम्ना तस्यैव तत् क्षेत्रम् एकाम्रकम् इति श्रुतम् ॥ १२ ॥

हृष्टपुष्टजनाकीर्णं नरनारीसमन्वितम् ।
विद्वांसगण भूयिष्ठं धनधान्यादिसंयुतम् ॥ १३ ॥

गृहगोपुरसम्बाधं त्रिकचाद्वारभूषितम् ।
नानावणिक्समाकीर्णं नानारत्नोपशोभितम् ॥ १४ ॥

पुराट्टालकसंयुक्तं रथिभिः समलङ्कृतम् ।
राजहंसनिभैः शुभ्रैः प्रासादैर् उपशोभितम् ॥ १५ ॥

मार्गगद्वारसंयुक्तं सितप्राकारशोभितम् ।
रक्षितं शस्त्रसङ्घैश् च परिखाभिर् अलङ्कृतम् ॥ १६ ॥

सितरक्तैस् तथा पीतैः कृष्णश्यामैश् च वर्णकैः ।
समीरणोद्धताभिश् च पताकाभिर् अलङ्कृतम् ॥ १७ ॥

नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः ।
वीणावेणुमृदङ्गैश् च क्षेपणीभिर् अलङ्कृतम् ॥ १८ ॥

देवतायतनैर् दिव्यैः प्राकारोद्यानमण्डितैः ।
पूजाविचित्ररचितैः सर्वत्र समलङ्कृतम् ॥ १९ ॥

स्त्रियः प्रमुदितास् तत्र दृश्यन्ते तनुमध्यमाः ।
हारैर् अलङ्कृतग्रीवाः पद्मपत्त्रायतेक्षणाः ॥ २० ॥

पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः ।
स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः ॥ २१ ॥

सुकेश्यश् चारुजघनाः कर्णान्तायतलोचनाः ।
सर्वलक्षणसम्पन्नाः सर्वाभरणभूषिताः ॥ २२ ॥

दिव्यवस्त्रधराः शुभ्राः काश्चित् काञ्चनसन्निभाः ।
हंसवारणगामिन्यः कुचभारावनामिताः ॥ २३ ॥

दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः ।
मदालसाश् च सुश्रोण्यो नित्यं प्रहसिताननाः ॥ २४ ॥

ईषद्विस्पष्टदशना बिम्बौष्ठा मधुरस्वराः ।
ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः ॥ २५ ॥

सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः ।
दिव्यवस्त्रधराः सर्वाः सदा चारित्रमण्डिताः ॥ २६ ॥

क्रीडन्ति ताः सदा तत्र स्त्रियश् चाप्सरसोपमाः ।
स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः ॥ २७ ॥

पुरुषास् तत्र दृश्यन्ते रूपयौवनगर्विताः ।
सर्वलक्षणसम्पन्नाः सुमृष्टमणिकुण्डलाः ॥ २८ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च मुनिसत्तमाः ।
स्वधर्मनिरतास् तत्र निवसन्ति सुधार्मिकाः ॥ २९ ॥

अन्याश् च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः ।
घृताचीमेनकातुल्यास् तथा समतिलोत्तमाः ॥ ३० ॥

उर्वशीसदृशाश् चैव विप्रचित्तिनिभास् तथा ।
विश्वाचीसहजन्याभाः प्रम्लोचासदृशास् तथा ॥ ३१ ॥

सर्वास् ताः प्रियवादिन्यः सर्वा विहसिताननाः ।
कलाकौशलसंयुक्ताः सर्वास् ता गुणसंयुताः ॥ ३२ ॥

एवं पण्यस्त्रियस् तत्र नृत्यगीतविशारदाः ।
निवसन्ति मुनिश्रेष्ठाः सर्वस्त्रीगुणगर्विताः ॥ ३३ ॥

प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः ।
न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः ॥ ३४ ॥

यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः ।
न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः ॥ ३५ ॥

न रोगिणो न मलिना न कदर्या न मायिनः ।
न रूपहीना दुर्वृत्ता न परद्रोहकारिणः ॥ ३६ ॥

तिष्ठन्ति मानवास् तत्र क्षेत्रे जगति विश्रुते ।
सर्वत्र सुखसञ्चारं सर्वसत्त्वसुखावहम् ॥ ३७ ॥

नानाजनसमाकीर्णं सर्वसस्यसमन्वितम् ।
कर्णिकारैश् च पनसैश् चम्पकैर् नागकेसरैः ॥ ३८ ॥

पाटलाशोकबकुलैः कपित्थैर् बहुलैर् धवैः ।
चूतनिम्बकदम्बैश् च तथान्यैः पुष्पजातिभिः ॥ ३९ ॥

नीपकैर् धवखदिरैर् लताभिश् च विराजितम् ।
शालैस् तालैस् तमालैश् च नारिकेलैः शुभाञ्जनैः ॥ ४० ॥

अर्जुनैः समपर्णैश् च कोविदारैः सपिप्पलैः ।
लकुचैः सरलैर् लोध्रैर् हिन्तालैर् देवदारुभिः ॥ ४१ ॥

पलाशैर् मुचुकुन्दैश् च पारिजातैः सकुब्जकैः ।
कदलीवनखण्डैश् च जम्बूपूगफलैस् तथा ॥ ४२ ॥

केतकीकरवीरैश् च अतिमुक्तैश् च किंशुकैः ।
मन्दारकुन्दपुष्पैश् च तथान्यैः पुष्पजातिभिः ॥ ४३ ॥

नानापक्षिरुतैः सेव्यैर् उद्यानैर् नन्दनोपमैः ।
फलभारानतैर् वृक्षैः सर्वर्तुकुसुमोत्करैः ॥ ४४ ॥

चकोरैः शतपत्त्रैश् च भृङ्गराजैश् च कोकिलैः ।
कलविङ्कैर् मयूरैश् च प्रियपुत्रैः शुकैस् तथा ॥ ४५ ॥

जीवञ्जीवकहारीतैश् चातकैर् वनवेष्टितैः ।
नानापक्षिगणैश् चान्यैः कूजद्भिर् मधुरस्वरैः ॥ ४६ ॥

दीर्घिकाभिस् तडागैश् च पुष्करिणीभिश् च वापिभिः ।
नानाजलाशयैश् चान्यैः पद्मिनीखण्डमण्डितैः ॥ ४७ ॥

कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः ।
कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः ॥ ४८ ॥

कारण्डवैः प्लवैर् हंसैस् तथान्यैर् जलचारिभिः ।
एवं नानाविधैर् वृक्षैः पुष्पैर् नानाविधैर् वरैः ॥ ४९ ॥

नानाजलाशयैः पुण्यैः शोभितं तत् समन्ततः ।
आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः ॥ ५० ॥

हिताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः ।
पृथिव्यां यानि तीर्थानि सरितश् च सरांसि च ॥ ५१ ॥

पुष्करिण्यस् तडागानि वाप्यः कूपाश् च सागराः ।
तेभ्यः पूर्वं समाहृत्य जलबिन्दून् पृथक् पृथक् ॥ ५२ ॥

सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह ।
तीर्थं बिन्दुसरो नाम तस्मिन् क्षेत्रे द्विजोत्तमाः ॥ ५३ ॥

चकार ऋषिभिः सार्धं तेन बिन्दुसरः स्मृतम् ।
अष्टम्यां बहुले पक्षे मार्गशीर्षे द्विजोत्तमाः ॥ ५४ ॥

यस् तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः ।
विधिवद् बिन्दुसरसि स्नात्वा श्रद्धासमन्वितः ॥ ५५ ॥

देवान् ऋषीन् मनुष्यांश् च पितॄन् सन्तर्प्य वाग्यतः ।
तिलोदकेन विधिना नामगोत्रविधानवित् ॥ ५६ ॥

स्नात्वैवं विधिवत् तत्र सो ऽश्वमेधफलं लभेत् ।
ग्रहोपरागे विषुवे सङ्क्रान्त्याम् अयने तथा ॥ ५७ ॥

युगादिषु षडशीत्यां तथान्यत्र शुभे तिथौ ।
ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम् ॥ ५८ ॥

अन्यतीर्थाच् छतगुणं फलं ते प्राप्नुवन्ति वै ।
पिण्डं ये सम्प्रयच्छन्ति पितृभ्यः सरसस् तटे ॥ ५९ ॥

पितॄणाम् अक्षयां तृप्तिं ते कुर्वन्ति न संशयः ।
ततः शम्भोर् गृहं गत्वा वाग्यतः संयतेन्द्रियः ॥ ६० ॥

प्रविश्य पूजयेच् छर्वं कृत्वा तं त्रिः प्रदक्षिणम् ।
घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः ॥ ६१ ॥

चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च ।
ततः सम्पूजयेद् देवं चन्द्रमौलिम् उमापतिम् ॥ ६२ ॥

पुष्पैर् नानाविधैर् मेध्यैर् बिल्वार्ककमलादिभिः ।
आगमोक्तेन मन्त्रेण वेदोक्तेन च शङ्करम् ॥ ६३ ॥

अदीक्षितस् तु नाम्नैव मूलमन्त्रेण चार्चयेत् ।
एवं सम्पूज्य तं देवं गन्धपुष्पानुरागिभिः ॥ ६४ ॥

धूपदीपैश् च नैवेद्यैर् उपहारैस् तथा स्तवैः ।
दण्डवत्प्रणिपातैश् च गीतैर् वाद्यैर् मनोहरैः ॥ ६५ ॥

नृत्यजप्यनमस्कारैर् जयशब्दैः प्रदक्षिणैः ।
एवं सम्पूज्य विधिवद् देवदेवम् उमापतिम् ॥ ६६ ॥

सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः ।
कुलैकविंशम् उद्धृत्य दिव्याभरणभूषिताः ॥ ६७ ॥

सौवर्णेन विमानेन किङ्किणीजालमालिना ।
उपगीयमानो गन्धर्वैर् अप्सरोभिर् अलङ्कृतः ॥ ६८ ॥

उद्द्योतयन् दिशः सर्वाः शिवलोकं स गच्छति ।
भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम् ॥ ६९ ॥

तल्लोकवासिभिः सार्धं यावद् आभूतसम्प्लवम् ।
ततस् तस्माद् इहायातः पृथिव्यां पुण्यसङ्क्षये ॥ ७० ॥

जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः ।
योगं पाशुपतं प्राप्य ततो मोक्षम् अवाप्नुयात् ॥ ७१ ॥

शयनोत्थापने चैव सङ्क्रान्त्याम् अयने तथा ।
अशोकाख्यां तथाष्टम्यां पवित्रारोपणे तथा ॥ ७२ ॥

ये च पश्यन्ति तं देवं कृत्तिवाससम् उत्तमम् ।
विमानेनार्कवर्णेन शिवलोकं व्रजन्ति ते ॥ ७३ ॥

सर्वकाले ऽपि तं देवं ये पश्यन्ति सुमेधसः ।
ते ऽपि पापविनिर्मुक्ताः शिवलोकं व्रजन्ति वै ॥ ७४ ॥

देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा ।
योजनद्वितयं सार्धं क्षेत्रं तद् भुक्तिमुक्तिदम् ॥ ७५ ॥

तस्मिन् क्षेत्रवरे लिङ्गं भास्करेश्वरसञ्ज्ञितम् ।
पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम् ॥ ७६ ॥

आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम् ।
सर्वपापविनिर्मुक्ता विमानवरम् आस्थिताः ॥ ७७ ॥

उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते ।
तिष्ठन्ति तत्र मुदिताः कल्पम् एकं द्विजोत्तमाः ॥ ७८ ॥

भुक्त्वा तु विपुलान् भोगाञ् शिवलोके मनोरमान् ।
पुण्यक्षयाद् इहायाता जायन्ते प्रवरे कुले ॥ ७९ ॥

अथवा योगिनां गेहे वेदवेदाङ्गपारगाः ।
उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः ॥ ८० ॥

मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः ।
योगं शम्भोर् वरं प्राप्य ततो मोक्षं व्रजन्ति ते ॥ ८१ ॥

तस्मिन् क्षेत्रवरे पुण्ये लिङ्गं यद् दृश्यते द्विजाः ।
पूज्यापूज्यं च सर्वत्र वने रथ्यान्तरे ऽपि वा ॥ ८२ ॥

चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति ।
दृष्ट्वा तल् लिङ्गम् अव्यग्रः श्रद्धया सुसमाहितः ॥ ८३ ॥

स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर् मनोहरैः ।
धूपैर् दीपैः सनैवेद्यैर् नमस्कारैस् तथा स्तवैः ॥ ८४ ॥

दण्डवत्प्रणिपातैश् च नृत्यगीतादिभिस् तथा ।
सम्पूज्यैवं विधानेन शिवलोकं व्रजेन् नरः ॥ ८५ ॥

नारी वा द्विजशार्दूलाः सम्पूज्य श्रद्धयान्विता ।
पूर्वोक्तं फलम् आप्नोति नात्र कार्या विचारणा ॥ ८६ ॥

कः शक्नोति गुणान् वक्तुं समग्रान् मुनिसत्तमाः ।
तस्य क्षेत्रवरस्याथ ऋते देवान् महेश्वरात् ॥ ८७ ॥

तस्मिन् क्षेत्रोत्तमे गत्वा श्रद्धयाश्रद्धयापि वा ।
माधवादिषु मासेषु नरो वा यदि वाङ्गना ॥ ८८ ॥

यस्मिन् यस्मिंस् तिथौ विप्राः स्नात्वा बिन्दुसरोम्भसि ।
पश्येद् देवं विरूपाक्षं देवीं च वरदां शिवाम् ॥ ८९ ॥

गणं चण्डं कार्त्तिकेयं गणेशं वृषभं तथा ।
कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति ॥ ९० ॥

स्नात्वा च कापिले तीर्थे विधिवत् पापनाशने ।
प्राप्नोत्य् अभिमतान् कामाञ् शिवलोकं स गच्छति ॥ ९१ ॥

यः स्तम्भ्यं तत्र विधिवत् करोति नियतेन्द्रियः ।
कुलैकविंशम् उद्धृत्य शिवलोकं स गच्छति ॥ ९२ ॥

एकाम्रके शिवक्षेत्रे वाराणसीसमे शुभे ।
स्नानं करोति यस् तत्र मोक्षं स लभते ध्रुवम् ॥ ९३ ॥