Summary (SA)
Chapter 40- Dakṣa’s hymn of the thousand names of Śiva; the distribution of fever
{{Ref- SS 91-93}}
ब्रह्मोवाच-
एवं दृष्ट्वा तदा दक्षः शम्भोर् वीर्यं द्विजोत्तमाः ।
प्राञ्जलिः प्रणतो भूत्वा संस्तोतुम् उपचक्रमे ॥ १ ॥
दक्ष उवाच-
नमस् ते देवदेवेश नमस् ते ऽन्धकसूदन ।
देवेन्द्र त्वं बलश्रेष्ठ देवदानवपूजित ॥ २ ॥
सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय ।
सर्वतःपाणिपादस् त्वं सर्वतोक्षिशिरोमुखः ॥ ३ ॥
सर्वतःश्रुतिमांल् लोके सर्वम् आवृत्य तिष्ठसि ।
शङ्कुकर्णो महाकर्णः कुम्भकर्णो ऽर्णवालयः ॥ ४ ॥
गजेन्द्रकर्णो गोकर्णः शतकर्णो नमो ऽस्तु ते ।
शतोदरः शतावर्तः शतजिह्वः सनातनः ॥ ५ ॥
गायन्ति त्वां गायत्रिणो अर्चयन्त्य् अर्कम् अर्किणः ।
देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः ॥ ६ ॥
मूर्तिमांस् त्वं महामूर्तिः समुद्रः सरसां निधिः ।
त्वयि सर्वा देवता हि गावो गोष्ठ इवासते ॥ ७ ॥
त्वत्तः शरीरे पश्यामि सोमम् अग्निजलेश्वरम् ।
आदित्यम् अथ विष्णुं च ब्रह्माणं सबृहस्पतिम् ॥ ८ ॥
क्रिया करणकार्ये च कर्ता कारणम् एव च ।
असच् च सदसच् चैव तथैव प्रभवाव्ययौ ॥ ९ ॥
नमो भवाय शर्वाय रुद्राय वरदाय च ।
पशूनां पतये चैव नमो ऽस्त्व् अन्धकघातिने ॥ १० ॥
त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे ।
त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥ ११ ॥
नमश् चण्डाय मुण्डाय विश्वचण्डधराय च ।
दण्डिने शङ्कुकर्णाय दण्डिदण्डाय वै नमः ॥ १२ ॥
नमो ऽर्धदण्डिकेशाय शुष्काय विकृताय च ।
विलोहिताय धूम्राय नीलग्रीवाय वै नमः ॥ १३ ॥
नमो ऽस्त्व् अप्रतिरूपाय विरूपाय शिवाय च ।
सूर्याय सूर्यपतये सूर्यध्वजपताकिने ॥ १४ ॥
नमः प्रमथनाशाय वृषस्कन्धाय वै नमः ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ १५ ॥
हिरण्यकृतचूडाय हिरण्यपतये नमः ।
शत्रुघाताय चण्डाय पर्णसङ्घशयाय च ॥ १६ ॥
नमः स्तुताय स्तुतये स्तूयमानाय वै नमः ।
सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥ १७ ॥
नमो होमाय मन्त्राय शुक्लध्वजपताकिने ।
नमो ऽनम्याय नम्याय नमः किलकिलाय च ॥ १८ ॥
नमस् त्वां शयमानाय शयितायोत्थिताय च ।
स्थिताय धावमानाय कुब्जाय कुटिलाय च ॥ १९ ॥
नमो नर्तनशीलाय मुखवादित्रकारिणे ।
बाधापहाय लुब्धाय गीतवादित्रकारिणे ॥ २० ॥
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च ।
उग्राय च नमो नित्यं नमश् च दशबाहवे ॥ २१ ॥
नमः कपालहस्ताय सितभस्मप्रियाय च ।
विभीषणाय भीमाय भीष्मव्रतधराय च ॥ २२ ॥
नानाविकृतवक्त्राय खड्गजिह्वोग्रदंष्ट्रिणे ।
पक्षमासलवार्धाय तुम्बीवीणाप्रियाय च ॥ २३ ॥
अघोरघोररूपाय घोराघोरतराय च ।
नमः शिवाय शान्ताय नमः शान्ततमाय च ॥ २४ ॥
नमो बुद्धाय शुद्धाय संविभागप्रियाय च ।
पवनाय पतङ्गाय नमः साङ्ख्यपराय च ॥ २५ ॥
नमश् चण्डैकघण्टाय घण्टाजल्पाय घण्टिने ।
सहस्रशतघण्टाय घण्टामालाप्रियाय च ॥ २६ ॥
प्राणदण्डाय नित्याय नमस् ते लोहिताय च ।
हूंहूङ्काराय रुद्राय भगाकारप्रियाय च ॥ २७ ॥
नमो ऽपारवते नित्यं गिरिवृक्षप्रियाय च ।
नमो यज्ञाधिपतये भूताय प्रसुताय च ॥ २८ ॥
यज्ञवाहाय दान्ताय तप्याय च भगाय च ।
नमस् तटाय तट्याय तटिनीपतये नमः ॥ २९ ॥
अन्नदायान्नपतये नमस् त्व् अन्नभुजाय च ।
नमः सहस्रशीर्षाय सहस्रचरणाय च ॥ ३० ॥
सहस्रोद्धतशूलाय सहस्रनयनाय च ।
नमो बालार्कवर्णाय बालरूपधराय च ॥ ३१ ॥
नमो बालार्करूपाय बालक्रीडनकाय च ।
नमः शुद्धाय बुद्धाय क्षोभणाय क्षयाय च ॥ ३२ ॥
तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः ।
नमः षट्कर्मनिष्ठाय त्रिकर्मनियताय च ॥ ३३ ॥
वर्णाश्रमाणां विधिवत् पृथग्धर्मप्रवर्तिने ।
नमः श्रेष्ठाय ज्येष्ठाय नमः कलकलाय च ॥ ३४ ॥
श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च ।
धर्मकामार्थमोक्षाय क्रथाय क्रथनाय च ॥ ३५ ॥
साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः ।
नमो रथ्याधिरथ्याय चतुष्पथपथाय च ॥ ३६ ॥
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ।
ईशान रुद्रसङ्घात हरिकेश नमो ऽस्तु ते ॥ ३७ ॥
त्र्यम्बकायाम्बिकानाथ व्यक्ताव्यक्त नमो ऽस्तु ते ।
कालकामदकामघ्न दुष्टोद्वृत्तनिषूदन ॥ ३८ ॥
सर्वगर्हित सर्वघ्न सद्योजात नमो ऽस्तु ते ।
उन्मादन शतावर्तगङ्गातोयार्द्रमूर्धज ॥ ३९ ॥
चन्द्रार्धसंयुगावर्त मेघावर्त नमो ऽस्तु ते ।
नमो ऽन्नदानकर्त्रे च अन्नदप्रभवे नमः ॥ ४० ॥
अन्नभोक्त्रे च गोप्त्रे च त्वम् एव प्रलयानल ।
जरायुजाण्डजाश् चैव स्वेदजोद्भिज्ज एव च ॥ ४१ ॥
त्वम् एव देवदेवेश भूतग्रामश् चतुर्विधः ।
चराचरस्य स्रष्टा त्वं प्रतिहर्ता त्वम् एव च ॥ ४२ ॥
त्वम् एव ब्रह्मा विश्वेश अप्सु ब्रह्म वदन्ति ते ।
सर्वस्य परमा योनिः सुधांशो ज्योतिषां निधिः ॥ ४३ ॥
ऋक्सामानि तथौङ्कारम् आहुस् त्वां ब्रह्मवादिनः ।
हायि हायि हरे हायि हुवाहावेति वासकृत् ॥ ४४ ॥
गायन्ति त्वां सुरश्रेष्ठाः सामगा ब्रह्मवादिनः ।
यजुर्मय ऋङ्मयश् च सामाथर्वयुतस् तथा ॥ ४५ ॥
पठ्यसे ब्रह्मविद्भिस् त्वं कल्पोपनिषदां गणैः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णाश्रमाश् च ये ॥ ४६ ॥
त्वम् एवाश्रमसङ्घाश् च विद्युत् स्तनितम् एव च ।
संवत्सरस् त्वम् ऋतवो मासा मासार्धम् एव च ॥ ४७ ॥
कला काष्ठा निमेषाश् च नक्षत्राणि युगानि च ।
वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च ॥ ४८ ॥
सिंहो मृगाणां पतयस् तक्षकानन्तभोगिनाम् ।
क्षीरोदो ह्य् उदधीनां च मन्त्राणां प्रणवस् तथा ॥ ४९ ॥
वज्रं प्रहरणानां च व्रतानां सत्यम् एव च ।
त्वम् एवेच्छा च द्वेषश् च रागो मोहः शमः क्षमा ॥ ५० ॥
व्यवसायो धृतिर् लोभः कामक्रोधौ जयाजयौ ।
त्वं गदी त्वं शरी चापी खट्वाङ्गी मुद्गरी तथा ॥ ५१ ॥
छेत्ता भेत्ता प्रहर्ता च नेता मन्तासि नो मतः ।
दशलक्षणसंयुक्तो धर्मो ऽर्थः काम एव च ॥ ५२ ॥
इन्दुः समुद्रः सरितः पल्वलानि सरांसि च ।
लतावल्ल्यस् तृणौषध्यः पशवो मृगपक्षिणः ॥ ५३ ॥
द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ।
आदिश् चान्तश् च मध्यश् च गायत्र्य् ओङ्कार एव च ॥ ५४ ॥
हरितो लोहितः कृष्णो नीलः पीतस् तथा क्षणः ।
कद्रुश् च कपिलो बभ्रुः कपोतो मच्छकस् तथा ॥ ५५ ॥
सुवर्णरेता विख्यातः सुवर्णश् चाप्य् अथो मतः ।
सुवर्णनामा च तथा सुवर्णप्रिय एव च ॥ ५६ ॥
त्वम् इन्द्रश् च यमश् चैव वरुणो धनदो ऽनलः ।
उत्फुल्लश् चित्रभानुश् च स्वर्भानुर् भानुर् एव च ॥ ५७ ॥
होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः ।
त्रिसौपर्णस् तथा ब्रह्मन् यजुषां शतरुद्रियम् ॥ ५८ ॥
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ।
प्राणश् च त्वं रजश् च त्वं तमः सत्त्वयुतस् तथा ॥ ५९ ॥
प्राणो ऽपानः समानश् च उदानो व्यान एव च ।
उन्मेषश् च निमेषश् च क्षुत्तृङ्जृम्भा तथैव च ॥ ६० ॥
लोहिताङ्गश् च दंष्ट्री च महावक्त्रो महोदरः ।
शुचिरोमा हरिच्छ्मश्रुर् ऊर्ध्वकेशश् चलाचलः ॥ ६१ ॥
गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः ।
मत्स्यो जालो जलो ऽजय्यो जलव्यालः कुटीचरः ॥ ६२ ॥
विकालश् च सुकालश् च दुष्कालः कालनाशनः ।
मृत्युश् चैवाक्षयो ऽन्तश् च क्षमामायाकरोत्करः ॥ ६३ ॥
संवर्तो वर्तकश् चैव संवर्तकबलाहकौ ।
घण्टाकी घण्टकी घण्टी चूडालो लवणोदधिः ॥ ६४ ॥
ब्रह्मा कालाग्निवक्त्रश् च दण्डी मुण्डस् त्रिदण्डधृक् ।
चतुर्युगश् चतुर्वेदश् चतुर्होत्रश् चतुष्पथः ॥ ६५ ॥
चातुराश्रम्यनेता च चातुर्वर्ण्यकरश् च ह ।
क्षराक्षरः प्रियो धूर्तो गणैर् गण्यो गणाधिपः ॥ ६६ ॥
रक्तमाल्याम्बरधरो गिरीशो गिरिजाप्रियः ।
शिल्पीशः शिल्पिनः श्रेष्ठः सर्वशिल्पिप्रवर्तकः ॥ ६७ ॥
भगनेत्रान्तकश् चण्डः पूष्णो दन्तविनाशनः ।
स्वाहा स्वधा वषट्कारो नमस्कार नमो ऽस्तु ते ॥ ६८ ॥
गूढव्रतश् च गूढश् च गूढव्रतनिषेवितः ।
तरणस् तारणश् चैव सर्वभूतेषु तारणः ॥ ६९ ॥
धाता विधाता सन्धाता निधाता धारणो धरः ।
तपो ब्रह्म च सत्यं च ब्रह्मचर्यं तथार्जवम् ॥ ७० ॥
भूतात्मा भूतकृद् भूतो भूतभव्यभवोद्भवः ।
भूर् भुवः स्वरितश् चैव भूतो ह्य् अग्निर् महेश्वरः ॥ ७१ ॥
ब्रह्मावर्तः सुरावर्तः कामावर्त नमो ऽस्तु ते ।
कामबिम्बविनिर्हन्ता कर्णिकारस्रजप्रियः ॥ ७२ ॥
गोनेता गोप्रचारश् च गोवृषेश्वरवाहनः ।
त्रैलोक्यगोप्ता गोविन्दो गोप्ता गोगर्ग एव च ॥ ७३ ॥
अखण्डचन्द्राभिमुखः सुमुखो दुर्मुखो ऽमुखः ।
चतुर्मुखो बहुमुखो रणेष्व् अभिमुखः सदा ॥ ७४ ॥
हिरण्यगर्भः शकुनिर् धनदो ऽर्थपतिर् विराट् ।
अधर्महा महादक्षो दण्डधारो रणप्रियः ॥ ७५ ॥
तिष्ठन् स्थिरश् च स्थाणुश् च निष्कम्पश् च सुनिश्चलः ।
दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ॥ ७६ ॥
दुर्धरो दुर्वशो नित्यो दुर्दर्पो विजयो जयः ।
शशः शशाङ्कनयनशीतोष्णः क्षुत् तृषा जरा ॥ ७७ ॥
आधयो व्याधयश् चैव व्याधिहा व्याधिपश् च यः ।
सह्यो यज्ञमृगव्याधो व्याधीनाम् आकरो ऽकरः ॥ ७८ ॥
शिखण्डी पुण्डरीकश् च पुण्डरीकावलोकनः ।
दण्डधृक् चक्रदण्डश् च रौद्रभागविनाशनः ॥ ७९ ॥
विषपो ऽमृतपश् चैव सुरापः क्षीरसोमपः ।
मधुपश् चापपश् चैव सर्वपश् च बलाबलः ॥ ८० ॥
वृषाङ्गराम्भो वृषभस् तथा वृषभलोचनः ।
वृषभश् चैव विख्यातो लोकानां लोकसंस्कृतः ॥ ८१ ॥
चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः ।
अग्निष्टोमस् तथा देहो धर्मकर्मप्रसाधितः ॥ ८२ ॥
न ब्रह्मा न च गोविन्दः पुराणर्षयो न च ।
माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ ८३ ॥
शिवा या मूर्तयः सूक्ष्मास् ते मह्यं यान्तु दर्शनम् ।
ताभिर् मां सर्वतो रक्ष पिता पुत्रम् इवौरसम् ॥ ८४ ॥
रक्ष मां रक्षणीयो ऽहं तवानघ नमो ऽस्तु ते ।
भक्तानुकम्पी भगवान् भक्तश् चाहं सदा त्वयि ॥ ८५ ॥
यः सहस्राण्य् अनेकानि पुंसाम् आवृत्य दुर्दृशाम् ।
तिष्ठत्य् एकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥ ८६ ॥
यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः ।
ज्योतिः पश्यन्ति युञ्जानास् तस्मै योगात्मने नमः ॥ ८७ ॥
सम्भक्ष्य सर्वभूतानि युगान्ते समुपस्थिते ।
यः शेते जलमध्यस्थस् तं प्रपद्ये ऽम्बुशायिनम् ॥ ८८ ॥
प्रविश्य वदनं राहोर् यः सोमं पिबते निशि ।
ग्रसत्य् अर्कं च स्वर्भानुर् भूत्वा सोमाग्निर् एव च ॥ ८९ ॥
अङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् ।
रक्षन्तु ते च मां नित्यं नित्यं चाप्याययन्तु माम् ॥ ९० ॥
येनाप्य् उत्पादिता गर्भा अपो भागगताश् च ये ।
तेषां स्वाहा स्वधा चैव आप्नुवन्ति स्वदन्ति च ॥ ९१ ॥
येन रोहन्ति देहस्थाः प्राणिनो रोदयन्ति च ।
हर्षयन्ति न कृष्यन्ति नमस् तेभ्यस् तु नित्यशः ॥ ९२ ॥
ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च ।
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ ९३ ॥
चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च ।
हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ ९४ ॥
येषु पञ्चसु भूतेषु दिशासु विदिशासु च ।
इन्द्रार्कयोर् मध्यगता ये च चन्द्रार्करश्मिषु ॥ ९५ ॥
रसातलगता ये च ये च तस्मात् परं गताः ।
नमस् तेभ्यो नमस् तेभ्यो नमस् तेभ्यस् तु सर्वशः ॥ ९६ ॥
सर्वस् त्वं सर्वगो देवः सर्वभूतपतिर् भवः ।
सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ ९७ ॥
त्वम् एव चेज्यसे देव यज्ञैर् विविधदक्षिणैः ।
त्वम् एव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ ९८ ॥
अथवा मायया देव मोहितः सूक्ष्मया तव ।
तस्मात् तु कारणाद् वापि त्वं मया न निमन्त्रितः ॥ ९९ ॥
प्रसीद मम देवेश त्वम् एव शरणं मम ।
त्वं गतिस् त्वं प्रतिष्ठा च न चान्यो ऽस्तीति मे मतिः ॥ १०० ॥
ब्रह्मोवाच-
स्तुत्वैवं स महादेवं विरराम महामतिः ।
भगवान् अपि सुप्रीतः पुनर् दक्षम् अभाषत ॥ १०१ ॥
श्रीभगवान् उवाच-
परितुष्टो ऽस्मि ते दक्ष स्तवेनानेन सुव्रत ।
बहुना तु किम् उक्तेन मत्समीपं गमिष्यसि ॥ १०२ ॥
ब्रह्मोवाच-
तथैवम् अब्रवीद् वाक्यं त्रैलोक्याधिपतिर् भवः ।
कृत्वाश्वासकरं वाक्यं सर्वज्ञो वाक्यसंहितम् ॥ १०३ ॥
श्रीशिव उवाच-
दक्ष दुःखं न कर्तव्यं यज्ञविध्वंसनं प्रति ।
अहं यज्ञहनस् तुभ्यं दृष्टम् एतत् पुरानघ ॥ १०४ ॥
भूयश् च त्वं वरम् इमं मत्तो गृह्णीष्व सुव्रत ।
प्रसन्नसुमुखो भूत्वा ममैकाग्रमनाः शृणु ॥ १०५ ॥
अश्वमेधसहस्रस्य वाजपेयशतस्य वै ।
प्रजापते मत्प्रसादात् फलभागी भविष्यसि ॥ १०६ ॥
वेदान् षडङ्गान् बुध्यस्व साङ्ख्ययोगांश् च कृत्स्नशः ।
तपश् च विपुलं तप्त्वा दुश्चरं देवदानवैः ॥ १०७ ॥
अब्दैर् द्वादशभिर् युक्तं गूढम् अप्रज्ञनिन्दितम् ।
वर्णाश्रमकृतैर् धर्मैर् विनीतं न क्वचित् क्वचित् ॥ १०८ ॥
समागतं व्यवसितं पशुपाशविमोक्षणम् ।
सर्वेषाम् आश्रमाणां च मया पाशुपतं व्रतम् ॥ १०९ ॥
उत्पादितं दक्ष शुभं सर्वपापविमोचनम् ।
अस्य चीर्णस्य यत् सम्यक् फलं भवति पुष्कलम् ।
तच् चास्तु सुमहाभाग मानसस् त्यज्यतां ज्वरः ॥ ११० ॥
ब्रह्मोवाच-
एवम् उक्त्वा तु देवेशः सपत्नीकः सहानुगः ।
अदर्शनम् अनुप्राप्तो दक्षस्यामिततेजसः ॥ १११ ॥
अवाप्य च तथा भागं यथोक्तं चोमया भवः ।
ज्वरं च सर्वधर्मज्ञो बहुधा व्यभजत् तदा ॥ ११२ ॥
शान्त्यर्थं सर्वभूतानां शृणुध्वम् अथ वै द्विजाः ।
शिखाभितापो नागानां पर्वतानां शिलाजतु ॥ ११३ ॥
अपां तु नीलिकां विद्यान् निर्मोको भुजगेषु च ।
खोरकः सौरभेयाणाम् ऊखरः पृथिवीतले ॥ ११४ ॥
शुनाम् अपि च धर्मज्ञा दृष्टिप्रत्यवरोधनम् ।
रन्ध्रागतम् अथाश्वानां शिखोद्भेदश् च बर्हिणाम् ॥ ११५ ॥
नेत्ररागः कोकिलानां द्वेषः प्रोक्तो महात्मनाम् ।
जनानाम् अपि भेदश् च सर्वेषाम् इति नः श्रुतम् ॥ ११६ ॥
शुकानाम् अपि सर्वेषां हिक्किका प्रोच्यते ज्वरः ।
शार्दूलेष्व् अथ वै विप्राः श्रमो ज्वर इहोच्यते ॥ ११७ ॥
मानुषेषु च सर्वज्ञा ज्वरो नामैष कीर्तितः ।
मरणे जन्मनि तथा मध्ये चापि निवेशितः ॥ ११८ ॥
एतन् माहेश्वरं तेजो ज्वरो नाम सुदारुणः ।
नमस्यश् चैव मान्यश् च सर्वप्राणिभिर् ईश्वरः ॥ ११९ ॥
इमां ज्वरोत्पत्तिम् अदीनमानसः ।
पठेत् सदा यः सुसमाहितो नरः ।
विमुक्तरोगः स नरो मुदायुतो ।
लभेत कामांश् च यथामनीषितान् ॥ १२० ॥
दक्षप्रोक्तं स्तवं चापि कीर्तयेद् यः शृणोति वा ।
नाशुभं प्राप्नुयात् किञ्चिद् दीर्घम् आयुर् अवाप्नुयात् ॥ १२१ ॥
यथा सर्वेषु देवेषु वरिष्ठो भगवान् भवः ।
तथा स्तवो वरिष्ठो ऽयं स्तवानां दक्षनिर्मितः ॥ १२२ ॥
यशःस्वर्गसुरैश्वर्यवित्तादिजयकाङ्क्षिभिः ।
स्तोतव्यो भक्तिम् आस्थाय विद्याकामैश् च यत्नतः ॥ १२३ ॥
व्याधितो दुःखितो दीनो नरो ग्रस्तो भयादिभिः ।
राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ १२४ ॥
अनेनैव च देहेन गणानां च महेश्वरात् ।
इह लोके सुखं प्राप्य गणराड् उपजायते ॥ १२५ ॥
न यक्षा न पिशाचा वा न नागा न विनायकाः ।
कुर्युर् विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ १२६ ॥
शृणुयाद् वा इदं नारी भक्त्याथ भवभाविता ।
पितृपक्षे भर्तृपक्षे पूज्या भवति चैव ह ॥ १२७ ॥
शृणुयाद् वा इदं सर्वं कीर्तयेद् वाप्य् अभीक्ष्णशः ।
तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्य् अविघ्नतः ॥ १२८ ॥
मनसा चिन्तितं यच् च यच् च वाचाप्य् उदाहृतम् ।
सर्वं सम्पद्यते तस्य स्तवस्यास्यानुकीर्तनात् ॥ १२९ ॥
देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य च ।
बलिं विभजतः कृत्वा दमेन नियमेन च ॥ १३० ॥
ततः प्रयुक्तो गृह्णीयान् नामान्य् आशु यथाक्रमम् ।
ईप्सितांल् लभते ऽप्य् अर्थान् कामान् भोगांश् च मानवः ॥ १३१ ॥
मृतश् च स्वर्गम् आप्नोति स्त्रीसहस्रसमावृतः ।
सर्वकामसुयुक्तो वा युक्तो वा सर्वपातकैः ॥ १३२ ॥
पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते ।
मृतश् च गणसायुज्यं पूज्यमानः सुरासुरैः ॥ १३३ ॥
वृषेण विनियुक्तेन विमानेन विराजते ।
आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ १३४ ॥
इत्य् आह भगवान् व्यासः पराशरसुतः प्रभुः ।
नैतद् वेदयते कश्चिन् नैतच् छ्राव्यं च कस्यचित् ॥ १३५ ॥
श्रुत्वेमं परमं गुह्यं ये ऽपि स्युः पापयोनयः ।
वैश्याः स्त्रियश् च शूद्राश् च रुद्रलोकम् अवाप्नुयुः ॥ १३६ ॥
श्रावयेद् यश् च विप्रेभ्यः सदा पर्वसु पर्वसु ।
रुद्रलोकम् अवाप्नोति द्विजो वै नात्र संशयः ॥ १३७ ॥