039

Summary (SA)

Chapter 39- Destruction of Dakṣa’s sacrifice by Śiva

{{Ref- SS 89-91}}

ऋषय ऊचुः-

प्राचेतसस्य दक्षस्य कथं वैवस्वते ऽन्तरे ।
विनाशम् अगमद् ब्रह्मन् हयमेधः प्रजापतेः ॥ १ ॥

देव्या मन्युकृतं बुद्ध्वा क्रुद्धः सर्वात्मकः प्रभुः ।
कथं विनाशितो यज्ञो दक्षस्यामिततेजसः ।
महादेवेन रोषाद् वै तन् नः प्रब्रूहि विस्तरात् ॥ २ ॥

ब्रह्मोवाच-

वर्णयिष्यामि वो विप्रा महादेवेन वै यथा ।
क्रोधाद् विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया ॥ ३ ॥

पुरा मेरोर् द्विजश्रेष्ठाः शृङ्गं त्रैलोक्यपूजितम् ।
ज्योतिःस्थलं नाम चित्रं सर्वरत्नविभूषितम् ॥ ४ ॥

अप्रमेयम् अनाधृष्यं सर्वलोकनमस्कृतम् ।
तत्र देवो गिरितटे सर्वधातुविचित्रिते ॥ ५ ॥

पर्यङ्क इव विस्तीर्ण उपविष्टो बभूव ह ।
शैलराजसुता चास्य नित्यं पार्श्वस्थिताभवत् ॥ ६ ॥

आदित्याश् च महात्मानो वसवश् च महौजसः ।
तथैव च महात्मानाव् अश्विनौ भिषजां वरौ ॥ ७ ॥

तथा वैश्रवणो राजा गुह्यकैः परिवारितः ।
यक्षाणाम् ईश्वरः श्रीमान् कैलासनिलयः प्रभुः ॥ ८ ॥

उपासते महात्मानम् उशना च महामुनिः ।
सनत्कुमारप्रमुखास् तथैव परमर्षयः ॥ ९ ॥

अङ्गिरःप्रमुखाश् चैव तथा देवर्षयो ऽपि च ।
विश्वावसुश् च गन्धर्वस् तथा नारदपर्वतौ ॥ १० ॥

अप्सरोगणसङ्घाश् च समाजग्मुर् अनेकशः ।
ववौ सुखशिवो वायुर् नानागन्धवहः शुचिः ॥ ११ ॥

सर्वर्तुकुसुमोपेतः पुष्पवन्तो ऽभवन् द्रुमाः ।
तथा विद्याधराः साध्याः सिद्धाश् चैव तपोधनाः ॥ १२ ॥

महादेवं पशुपतिं पर्युपासत तत्र वै ।
भूतानि च तथान्यानि नानारूपधराण्य् अथ ॥ १३ ॥

राक्षसाश् च महारौद्राः पिशाचाश् च महाबलाः ।
बहुरूपधरा धृष्टा नानाप्रहरणायुधाः ॥ १४ ॥

देवस्यानुचरास् तत्र तस्थुर् वैश्वानरोपमाः ।
नन्दीश्वरश् च भगवान् देवस्यानुमते स्थितः ॥ १५ ॥

प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा ।
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ॥ १६ ॥

पर्युपासत तं देवं रूपिणी द्विजसत्तमाः ।
एवं स भगवांस् तत्र पूज्यमानः सुरर्षिभिः ॥ १७ ॥

देवैश् च सुमहाभागैर् महादेवो व्यतिष्ठत ।
कस्यचित् त्व् अथ कालस्य दक्षो नाम प्रजापतिः ॥ १८ ॥

पूर्वोक्तेन विधानेन यक्ष्यमाणो ऽभ्यपद्यत ।
ततस् तस्य मखे देवाः सर्वे शक्रपुरोगमाः ॥ १९ ॥

स्वर्गस्थानाद् अथागम्य दक्षम् आपेदिरे तथा ।
ते विमानैर् महात्मानो ज्वलद्भिर् ज्वलनप्रभाः ॥ २० ॥

देवस्यानुमते ऽगच्छन् गङ्गाद्वारम् इति श्रुतिः ।
गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम् ॥ २१ ॥

ऋषिसिद्धैः परिवृतं दक्षं धर्मभृतां वरम् ।
पृथिव्याम् अन्तरिक्षे च ये च स्वर्लोकवासिनः ॥ २२ ॥

सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् ।
आदित्या वसवो रुद्राः साध्याः सर्वे मरुद्गणाः ॥ २३ ॥

विष्णुना सहिताः सर्व आगता यज्ञभागिनः ।
ऊष्मपा धूमपाश् चैव आज्यपाः सोमपास् तथा ॥ २४ ॥

अश्विनौ मरुतश् चैव नानादेवगणैः सह ।
एते चान्ये च बहवो भूतग्रामास् तथैव च ॥ २५ ॥

जरायुजाण्डजाश् चैव तथैव स्वेदजोद्भिदः ।
आगताः सत्त्रिणः सर्वे देवाः स्त्रीभिः सहर्षिभिः ॥ २६ ॥

विराजन्ते विमानस्था दीप्यमाना इवाग्नयः ।
तान् दृष्ट्वा मन्युनाविष्टो दधीचिर् वाक्यम् अब्रवीत् ॥ २७ ॥

दधीचिर् उवाच-

अपूज्यपूजने चैव पूज्यानां चाप्य् अपूजने ।
नरः पापम् अवाप्नोति महद् वै नात्र संशयः ॥ २८ ॥

ब्रह्मोवाच-

एवम् उक्त्वा तु विप्रर्षिः पुनर् दक्षम् अभाषत ॥ २९ ॥

दधीचिर् उवाच-

पूज्यं च पशुभर्तारं कस्मान् नार्चयसे प्रभुम् ॥ ३० ॥

दक्ष उवाच-

सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ।
एकादशस्थानगता नान्यं विद्मो महेश्वरम् ॥ ३१ ॥

दधीचिर् उवाच-

सर्वेषाम् एकमन्त्रो ऽयं ममेशो न निमन्त्रितः ।
यथाहं शङ्कराद् ऊर्ध्वं नान्यं पश्यामि दैवतम् ।
तथा दक्षस्य विपुलो यज्ञो ऽयं न भविष्यति ॥ ३२ ॥

दक्ष उवाच-

दक्ष उवाच- विष्णोश् च भागा विविधाः प्रदत्तास् ।
तथा च रुद्रेभ्य उत प्रदत्ताः ।
अन्ये ऽपि देवा निजभागयुक्ता ।
ददामि भागं न तु शङ्कराय ॥ ३३ ॥

ब्रह्मोवाच-

गतास् तु देवता ज्ञात्वा शैलराजसुता तदा ।
उवाच वचनं शर्वं देवं पशुपतिं पतिम् ॥ ३४ ॥

उमोवाच-

भगवन् कुत्र यान्त्य् एते देवाः शक्रपुरोगमाः ।
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महान् अयम् ॥ ३५ ॥

महेश्वर उवाच-

दक्षो नाम महाभागे प्रजानां पतिर् उत्तमः ।
हयमेधेन यजते तत्र यान्ति दिवौकसः ॥ ३६ ॥

देव्य् उवाच-

यज्ञम् एतं महाभाग किमर्थं नानुगच्छसि ।
केन वा प्रतिषेधेन गमनं ते न विद्यते ॥ ३७ ॥

महेश्वर उवाच-

सुरैर् एव महाभागे सर्वम् एतद् अनुष्ठितम् ।
यज्ञेषु मम सर्वेषु न भाग उपकल्पितः ॥ ३८ ॥

पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि ।
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥ ३९ ॥

उमोवाच-

भगवन् सर्वदेवेषु प्रभावाभ्यधिको गुणैः ।
अजेयश् चाप्य् अधृष्यश् च तेजसा यशसा श्रिया ॥ ४० ॥

अनेन तु महाभाग प्रतिषेधेन भागतः ।
अतीव दुःखम् आपन्ना वेपथुश् च महान् अयम् ॥ ४१ ॥

किं नाम दानं नियमं तपो वा ।
कुर्याम् अहं येन पतिर् ममाद्य ।
लभेत भागं भगवान् अचिन्त्यो ।
यज्ञस्य चेन्द्राद्यमरैर् विचित्रम् ॥ ४२ ॥

ब्रह्मोवाच-

एवं ब्रुवाणां भगवान् विचिन्त्य ।
पत्नीं प्रहृष्टः क्षुभिताम् उवाच ।

महेश्वर उवाच-

न वेत्सि मां देवि कृशोदराङ्गि ।
किं नाम युक्तं वचनं तवेदम् ॥ ४३ ॥

अहं विजानामि विशालनेत्रे ।
ध्यानेन सर्वे च विदन्ति सन्तः ।
तवाद्य मोहेन सहेन्द्रदेवा ।
लोकत्रयं सर्वम् अथो विनष्टम् ॥ ४४ ॥

माम् अध्वरेशं नितरां स्तुवन्ति ।
रथन्तरं साम गायन्ति मह्यम् ।
मां ब्राह्मणा ब्रह्ममन्त्रैर् यजन्ति ।
ममाध्वर्यवः कल्पयन्ते च भागम् ॥ ४५ ॥

देव्य् उवाच-

विकत्थसे प्राकृतवत् सर्वस्त्रीजनसंसदि ।
स्तौषि गर्वायसे चापि स्वम् आत्मानं न संशयः ॥ ४६ ॥

भगवान् उवाच-

नात्मानं स्तौमि देवेशि यथा त्वम् अनुगच्छसि ।
संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि ॥ ४७ ॥

ब्रह्मोवाच-

इत्य् उक्त्वा भगवान् पत्नीम् उमां प्राणैर् अपि प्रियाम् ।
सो ऽसृजद् भगवान् वक्त्राद् भूतं क्रोधाग्निसम्भवम् ॥ ४८ ॥

तम् उवाच मखं गच्छ दक्षस्य त्वं महेश्वरः ।
नाशयाशु क्रतुं तस्य दक्षस्य मदनुज्ञया ॥ ४९ ॥

ब्रह्मोवाच-

ततो रुद्रप्रयुक्तेन सिंहवेषेण लीलया ।
देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥ ५० ॥

मन्युना च महाभीमा भद्रकाली महेश्वरी ।
आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा ॥ ५१ ॥

स एष भगवान् क्रोधः प्रेतावासकृतालयः ।
वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः ॥ ५२ ॥

सो ऽसृजद् रोमकूपेभ्य आत्मनैव गणेश्वरान् ।
रुद्रानुगान् गणान् रौद्रान् रुद्रवीर्यपराक्रमान् ॥ ५३ ॥

रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः ।
ते निपेतुस् ततस् तूर्णं शतशो ऽथ सहस्रशः ॥ ५४ ॥

ततः किलकिलाशब्द आकाशं पूरयन्न् इव ।
समभूत् सुमहान् विप्राः सर्वरुद्रगणैः कृतः ॥ ५५ ॥

तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः ।
पर्वताश् च व्यशीर्यन्त चकम्पे च वसुन्धरा ॥ ५६ ॥

मरुतश् च ववुः क्रूराश् चुक्षुभे वरुणालयः ।
अग्नयो वै न दीप्यन्ते न चादीप्यत भास्करः ॥ ५७ ॥

ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः ।
ऋषयो न प्रभासन्ते न देवा न च दानवाः ॥ ५८ ॥

एवं हि तिमिरीभूते निर्दहन्ति गणेश्वराः ।
प्रभञ्जन्त्य् अपरे यूपान् घोरान् उत्पाटयन्ति च ॥ ५९ ॥

प्रणदन्ति तथा चान्ये विकुर्वन्ति तथा परे ।
त्वरितं वै प्रधावन्ति वायुवेगा मनोजवाः ॥ ६० ॥

चूर्ण्यन्ते यज्ञपात्राणि यज्ञस्यायतनानि च ।
शीर्यमाणान्य् अदृश्यन्त तारा इव नभस्तलात् ॥ ६१ ॥

दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः ।
क्षीरनद्यस् तथा चान्या घृतपायसकर्दमाः ॥ ६२ ॥

मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः ।
षड्रसान् निवहन्त्य् अन्या गुडकुल्या मनोरमाः ॥ ६३ ॥

उच्चावचानि मांसानि भक्ष्याणि विविधानि च ।
यानि कानि च दिव्यानि लेह्यचोष्याणि यानि च ॥ ६४ ॥

भुञ्जन्ति विविधैर् वक्त्रैर् विलुम्पन्ति क्षिपन्ति च ।
रुद्रकोपा महाकोपाः कालाग्निसदृशोपमाः ॥ ६५ ॥

भक्षयन्तो ऽथ शैलाभा भीषयन्तश् च सर्वतः ।
क्रीडन्ति विविधाकाराश् चिक्षिपुः सुरयोषितः ॥ ६६ ॥

एवं गणाश् च तैर् युक्तो वीरभद्रः प्रतापवान् ।
रुद्रकोपप्रयुक्तश् च सर्वदेवैः सुरक्षितम् ॥ ६७ ॥

तं यज्ञम् अदहच् छीघ्रं भद्रकाल्याः समीपतः ।
चक्रुर् अन्ये तथा नादान् सर्वभूतभयङ्करान् ॥ ६८ ॥

छित्त्वा शिरो ऽन्ये यज्ञस्य व्यनदन्त भयङ्करम् ।
ततः शक्रादयो देवा दक्षश् चैव प्रजापतिः ।
ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवान् इति ॥ ६९ ॥

वीरभद्र उवाच-

नाहं देवो न दैत्यो वा न च भोक्तुम् इहागतः ।
नैव द्रष्टुं च देवेन्द्रा न च कौतूहलान्विताः ॥ ७० ॥

दक्षयज्ञविनाशार्थं सम्प्राप्तो ऽहं सुरोत्तमाः ।
वीरभद्रेति विख्यातो रुद्रकोपाद् विनिःसृतः ॥ ७१ ॥

भद्रकाली च विख्याता देव्याः क्रोधाद् विनिर्गता ।
प्रेषिता देवदेवेन यज्ञान्तिकम् उपागता ॥ ७२ ॥

शरणं गच्छ राजेन्द्र देवदेवम् उमापतिम् ।
वरं क्रोधो ऽपि देवस्य न वरः परिचारकैः ॥ ७३ ॥

ब्रह्मोवाच-

निखातोत्पाटितैर् यूपैर् अपविद्धैस् ततस् ततः ।
उत्पतद्भिः पतद्भिश् च गृध्रैर् आमिषगृध्नुभिः ॥ ७४ ॥

पक्षवातविनिर्धूतैः शिवारुतविनादितैः ।
स तस्य यज्ञो नृपतेर् बाध्यमानस् तदा गणैः ॥ ७५ ॥

आस्थाय मृगरूपं वै खम् एवाभ्यपतत् तदा ।
तं तु यज्ञं तथारूपं गच्छन्तम् उपलभ्य सः ॥ ७६ ॥

धनुर् आदाय बाणं च तदर्थम् अगमत् प्रभुः ।
ततस् तस्य गणेशस्य क्रोधाद् अमिततेजसः ॥ ७७ ॥

ललाटात् प्रसृतो घोरः स्वेदबिन्दुर् बभूव ह ।
तस्मिन् पतितमात्रे च स्वेदबिन्दौ तदा भुवि ॥ ७८ ॥

प्रादुर्भूतो महान् अग्निर् ज्वलत्कालानलोपमः ।
तत्रोदपद्यत तदा पुरुषो द्विजसत्तमाः ॥ ७९ ॥

ह्रस्वो ऽतिमात्रो रक्ताक्षो हरिच्छ्मश्रुर् विभीषणः ।
ऊर्ध्वकेशो ऽतिरोमाङ्गः शोणकर्णस् तथैव च ॥ ८० ॥

करालकृष्णवर्णश् च रक्तवासास् तथैव च ।
तं यज्ञं स महासत्त्वो ऽदहत् कक्षम् इवानलः ॥ ८१ ॥

देवाश् च प्रद्रुताः सर्वे गता भीता दिशो दश ।
तेन तस्मिन् विचरता विक्रमेण तदा तु वै ॥ ८२ ॥

पृथिवी व्यचलत् सर्वा सप्तद्वीपा समन्ततः ।
महाभूते प्रवृत्ते तु देवलोकभयङ्करे ॥ ८३ ॥

तदा चाहं महादेवम् अब्रवं प्रतिपूजयन् ।
भवते ऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो ॥ ८४ ॥

क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया ।
इमाश् च देवताः सर्वा ऋषयश् च सहस्रशः ॥ ८५ ॥

तव क्रोधान् महादेव न शान्तिम् उपलेभिरे ।
यश् चैष पुरुषो जातः स्वेदजस् ते सुरर्षभ ॥ ८६ ॥

ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति ।
एकीभूतस्य न ह्य् अस्य धारणे तेजसः प्रभो ॥ ८७ ॥

समर्था सकला पृथ्वी बहुधा सृज्यताम् अयम् ।
इत्य् उक्तः स मया देवो भागे चापि प्रकल्पिते ॥ ८८ ॥

भगवान् मां तथेत्य् आह देवदेवः पिनाकधृक् ।
परां च प्रीतिम् अगमत् स स्वयं च पिनाकधृक् ॥ ८९ ॥

दक्षो ऽपि मनसा देवं भवं शरणम् अन्वगात् ।
प्राणापानौ समारुध्य चक्षुःस्थाने प्रयत्नतः ॥ ९० ॥

विधार्य सर्वतो दृष्टिं बहुदृष्टिर् अमित्रजित् ।
स्मितं कृत्वाब्रवीद् वाक्यं ब्रूहि किं करवाणि ते ॥ ९१ ॥

श्राविते च महाख्याने देवानां पितृभिः सह ।
तम् उवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः ।
भीतः शङ्कितचित्तस् तु सबाष्पवदनेक्षणः ॥ ९२ ॥

दक्ष उवाच-

यदि प्रसन्नो भगवान् यदि वाहं तव प्रियः ।
यदि चाहम् अनुग्राह्यो यदि देयो वरो मम ॥ ९३ ॥

यद् भक्ष्यं भक्षितं पीतं त्रासितं यच् च नाशितम् ।
चूर्णीकृतापविद्धं च यज्ञसम्भारम् ईदृशम् ॥ ९४ ॥

दीर्घकालेन महता प्रयत्नेन च सञ्चितम् ।
न च मिथ्या भवेन् मह्यं त्वत्प्रसादान् महेश्वर ॥ ९५ ॥

ब्रह्मोवाच-

तथास्त्व् इत्य् आह भगवान् भगनेत्रहरो हरः ।
धर्माध्यक्षं महादेवं त्र्यम्बकं च प्रजापतिः ॥ ९६ ॥

जानुभ्याम् अवनीं गत्वा दक्षो लब्ध्वा भवाद् वरम् ।
नाम्नां चाष्टसहस्रेण स्तुतवान् वृषभध्वजम् ॥ ९७ ॥