038

Summary (SA)

Chapter 38- Story of how Kāma was burnt by Śiva; Menā’s reproach of Śiva

{{Ref- SS 88-89}}

ब्रह्मोवाच-

प्रविष्टे भवनं देवे सूपविष्टे वरासने ।
स वक्रो मन्मथः क्रूरो देवं वेद्धुमना भवत् ॥ १ ॥

तम् अनाचारसंयुक्तं दुरात्मानं कुलाधमम् ।
लोकान् सर्वान् पीडयन्तं सर्वाङ्गावरणात्मकम् ॥ २ ॥

ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह ।
चक्राह्वयस्य रूपेण रत्या सह समागतम् ॥ ३ ॥

अथाततायिनं विप्रा वेद्धुकामं सुरेश्वरः ।
नयनेन तृतीयेन सावज्ञं समवैक्षत ॥ ४ ॥

ततो ऽस्य नेत्रजो वह्निर् ज्वालामालासहस्रवान् ।
सहसा रतिभर्तारम् अदहत् सपरिच्छदम् ॥ ५ ॥

स दह्यमानः करुणम् आर्तो ऽक्रोशत विस्वरम् ।
प्रसादयंश् च तं देवं पपात धरणीतले ॥ ६ ॥

अथ सो ऽग्निपरीताङ्गो मन्मथो लोकतापनः ।
पपात सहसा मूर्छां क्षणेन समपद्यत ॥ ७ ॥

पत्नी तु करुणं तस्य विललाप सुदुःखिता ।
देवीं देवं च दुःखार्ता अयाचत् करुणावती ॥ ८ ॥

तस्याश् च करुणां ज्ञात्वा देवौ तौ करुणात्मकौ ।
ऊचतुस् तां समालोक्य समाश्वास्य च दुःखिताम् ॥ ९ ॥

उमामहेश्वराव् ऊचतुः-

दग्ध एव ध्रुवं भद्रे नास्योत्पत्तिर् इहेष्यते ।
अशरीरो ऽपि ते भद्रे कार्यं सर्वं करिष्यति ॥ १० ॥

यदा तु विष्णुर् भगवान् वसुदेवसुतः शुभे ।
तदा तस्य सुतो यश् च पतिस् ते सम्भविष्यति ॥ ११ ॥

ब्रह्मोवाच-

ततः सा तु वरं लब्ध्वा कामपत्नी शुभानना ।
जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ॥ १२ ॥

दग्ध्वा कामं ततो विप्राः स तु देवो वृषध्वजः ।
रेमे तत्रोमया सार्धं प्रहृष्टस् तु हिमाचले ॥ १३ ॥

कन्दरेषु च रम्येषु पद्मिनीषु गुहासु च ।
निर्झरेषु च रम्येषु कर्णिकारवनेषु च ॥ १४ ॥

नदीतीरेषु कान्तेषु किन्नराचरितेषु च ।
शृङ्गेषु शैलराजस्य तडागेषु सरःसु च ॥ १५ ॥

वनराजिषु रम्यासु नानापक्षिरुतेषु च ।
तीर्थेषु पुण्यतोयेषु मुनीनाम् आश्रमेषु च ॥ १६ ॥

एतेषु पुण्येषु मनोहरेषु ।
देशेषु विद्याधरभूषितेषु ।
गन्धर्वयक्षामरसेवितेषु ।
रेमे स देव्या सहितस् त्रिनेत्रः ॥ १७ ॥

देवैः सहेन्द्रैर् मुनियक्षसिद्धैर् ।
गन्धर्वविद्याधरदैत्यमुख्यैः ।
अन्यैश् च सर्वैर् विविधैर् वृतो ऽसौ ।
तस्मिन् नगे हर्षम् अवाप शम्भुः ॥ १८ ॥

नृत्यन्ति तत्राप्सरसः सुरेशा ।
गायन्ति गन्धर्वगणाः प्रहृष्टाः ।
दिव्यानि वाद्यान्य् अथ वादयन्ति ।
केचिद् द्रुतं देववरं स्तुवन्ति ॥ १९ ॥

एवं स देवः स्वगणैर् उपेतो ।
महाबलैः शक्रयमाग्नितुल्यैः ।
देव्याः प्रियार्थं भगनेत्रहन्ता ।
गिरिं न तत्याज तदा महात्मा ॥ २० ॥

ऋषय ऊचुः-

देव्याः समं तु भगवांस् तिष्ठंस् तत्र स कामहा ।
अकरोत् किं महादेव एतद् इच्छाम वेदितुम् ॥ २१ ॥

ब्रह्मोवाच-

भगवान् हिमवच्छृङ्गे स हि देव्याः प्रियेच्छया ।
गणेशैर् विविधाकारैर् हासं सञ्जनयन् मुहुः ॥ २२ ॥

देवीं बालेन्दुतिलको रमयंश् च रराम च ।
महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः ॥ २३ ॥

अथ देव्य् आससादैका मातरं परमेश्वरी ।
आसीनां काञ्चने शुभ्र आसने परमाद्भुते ॥ २४ ॥

अथ दृष्ट्वा सतीं देवीम् आगतां सुररूपिणीम् ।
आसनेन महार्हेण ऽसम्पादयद् अनिन्दिताम् ।
आसीनां ताम् अथोवाच मेना हिमवतः प्रिया ॥ २५ ॥

मेनोवाच-

चिरस्यागमनं ते ऽद्य वद पुत्रि शुभेक्षणे ।
दरिद्रा क्रीडनैस् त्वं हि भर्त्रा क्रीडसि सङ्गता ॥ २६ ॥

ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः ।
उमे त एवं क्रीडन्ति यथा तव पतिः शुभे ॥ २७ ॥

ब्रह्मोवाच-

सैवम् उक्ताथ मात्रा तु नातिहृष्टमना भवत् ।
महत्या क्षमया युक्ता न किञ्चित् ताम् उवाच ह ।
विसृष्टा च तदा मात्रा गत्वा देवम् उवाच ह ॥ २८ ॥

पार्वत्य् उवाच-

भगवन् देवदेवेश नेह वत्स्यामि भूधरे ।
अन्यं कुरु ममावासं भुवनेषु महाद्युते ॥ २९ ॥

देव उवाच-

सदा त्वम् उच्यमाना वै मया वासार्थम् ईश्वरि ।
अन्यं न रोचितवती वासं वै देवि कर्हिचित् ॥ ३० ॥

इदानीं स्वयम् एव त्वं वासम् अन्यत्र शोभने ।
कस्मान् मृगयसे देवि ब्रूहि तन् मे शुचिस्मिते ॥ ३१ ॥

देव्य् उवाच-

गृहं गतास्मि देवेश पितुर् अद्य महात्मनः ।
दृष्ट्वा च तत्र मे माता विजने लोकभावने ॥ ३२ ॥

आसनादिभिर् अभ्यर्च्य सा माम् एवम् अभाषत ।
उमे तव सदा भर्ता दरिद्रः क्रीडनैः शुभे ॥ ३३ ॥

क्रीडते नहि देवानां क्रीडा भवति तादृशी ।
यत् किल त्वं महादेव गणैश् च विविधैस् तथा ।
रमसे तद् अनिष्टं हि मम मातुर् वृषध्वज ॥ ३४ ॥

ब्रह्मोवाच-

ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः ॥ ३५ ॥

देव उवाच-

एवम् एव न सन्देहः कस्मान् मन्युर् अभूत् तव ।
कृत्तिवासा ह्य् अवासाश् च श्मशाननिलयश् च ह ॥ ३६ ॥

अनिकेतो ह्य् अरण्येषु पर्वतानां गुहासु च ।
विचरामि गणैर् नग्नैर् वृतो ऽम्भोजविलोचने ॥ ३७ ॥

मा क्रुधो देवि मात्रे त्वं तथ्यं मातावदत् तव ।
नहि मातृसमो बन्धुर् जन्तूनाम् अस्ति भूतले ॥ ३८ ॥

देव्य् उवाच-

न मे ऽस्ति बन्धुभिः किञ्चित् कृत्यं सुरवरेश्वर ।
तथा कुरु महादेव यथाहं सुखम् आप्नुयाम् ॥ ३९ ॥

ब्रह्मोवाच-

श्रुत्वा स देव्या वचनं सुरेशस् ।
तस्याः प्रियार्थे स्वगिरिं विहाय ।
जगाम मेरुं सुरसिद्धसेवितं ।
भार्यासहायः स्वगणैश् च युक्तः ॥ ४० ॥