037

Summary (SA)

Chapter 37- Praise of Śiva by the gods

{{Ref- SS 87-88}}

ब्रह्मोवाच-

अथ वृत्ते विवाहे तु भवस्यामिततेजसः ।
प्रहर्षम् अतुलं गत्वा देवाः शक्रपुरोगमाः ।
तुष्टुवुर् वाग्भिर् आद्याभिः प्रणेमुस् ते महेश्वरम् ॥ १ ॥

देवा ऊचुः-

नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः ।
नमः पवनवेगाय विरूपायाजिताय च ।
नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् ॥ २ ॥

नमो नीलशिखण्डाय अम्बिकापतये नमः ।
नमः पवनरूपाय शतरूपाय वै नमः ॥ ३ ॥

नमो भैरवरूपाय विरूपनयनाय च ।
नमः सहस्रनेत्राय सहस्रचरणाय च ॥ ४ ॥

नमो देववयस्याय वेदाङ्गाय नमो नमः ।
विष्टम्भनाय शक्रस्य बाह्वोर् वेदाङ्कुराय च ॥ ५ ॥

चराचराधिपतये शमनाय नमो नमः ।
सलिलाशयलिङ्गाय युगान्ताय नमो नमः ॥ ६ ॥

नमः कपालमालाय कपालसूत्रधारिणे ।
नमः कपालहस्ताय दण्डिने गदिने नमः ॥ ७ ॥

नमस् त्रैलोक्यनाथाय पशुलोकरताय च ।
नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च ॥ ८ ॥

नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे ।
भगनेत्रनिपाताय पूष्णो दन्तहराय च ॥ ९ ॥

नमः पिनाकशूलासिखड्गमुद्गरधारिणे ।
नमो ऽस्तु कालकालाय तृतीयनयनाय च ॥ १० ॥

अन्तकान्तकृते चैव नमः पर्वतवासिने ।
सुवर्णरेतसे चैव नमः कुण्डलधारिणे ॥ ११ ॥

दैत्यानां योगनाशाय योगिनां गुरवे नमः ।
शशाङ्कादित्यनेत्राय ललाटनयनाय च ॥ १२ ॥

नमः श्मशानरतये श्मशानवरदाय च ।
नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ॥ १३ ॥

गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे ।
नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥ १४ ॥

सलिले तप्यमानाय योगैश्वर्यप्रदाय च ।
नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ॥ १५ ॥

नमो ऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः ।
नमो रुद्राय वसव आदित्यायाश्विने नमः ॥ १६ ॥

नमः पित्रे ऽथ साङ्ख्याय विश्वेदेवाय वै नमः ।
नमः शर्वाय उग्राय शिवाय वरदाय च ॥ १७ ॥

नमो भीमाय सेनान्ये पशूनां पतये नमः ।
शुचये वैरिहानाय सद्योजाताय वै नमः ॥ १८ ॥

महादेवाय चित्राय विचित्राय च वै नमः ।
प्रधानायाप्रमेयाय कार्याय कारणाय च ॥ १९ ॥

पुरुषाय नमस् ते ऽस्तु पुरुषेच्छाकराय च ।
नमः पुरुषसंयोगप्रधानगुणकारिणे ॥ २० ॥

प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः ।
कृताकृतस्य सत्कर्त्रे फलसंयोगदाय च ॥ २१ ॥

कालज्ञाय च सर्वेषां नमो नियमकारिणे ।
नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥ २२ ॥

नमस् ते देवदेवेश नमस् ते भूतभावन ।
शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो ॥ २३ ॥

ब्रह्मोवाच-

एवं स भगवान् देवो जगत्पतिर् उमापतिः ।
स्तूयमानः सुरैः सर्वैर् अमरान् इदम् अब्रवीत् ॥ २४ ॥

श्रीशङ्कर उवाच-

द्रष्टुं सुखश् च सौम्यश् च देवानाम् अस्मि भोः सुराः ।
वरं वरयत क्षिप्रं दातास्मि तम् असंशयम् ॥ २५ ॥

ब्रह्मोवाच-

ततस् ते प्रणताः सर्वे सुरा ऊचुस् त्रिलोचनम् ॥ २६ ॥

देवा ऊचुः-

तवैव भगवन् हस्ते वर एषो ऽवतिष्ठताम् ।
यदा कार्यं तदा नस् त्वं दास्यसे वरम् ईप्सितम् ॥ २७ ॥

ब्रह्मोवाच-

एवम् अस्त्व् इति तान् उक्त्वा विसृज्य च सुरान् हरः ।
लोकांश् च प्रमथैः सार्धं विवेश भवनं स्वकम् ॥ २८ ॥

यस् तु हरोत्सवम् अद्भुतम् एनं ।
गायति दैवतविप्रसमक्षम् ।
सो ऽप्रतिरूपगणेशसमानो ।
देहविपर्ययम् एत्य सुखी स्यात् ॥ २९ ॥

ब्रह्मोवाच-

विप्रवर्याः स्तवं हीमं शृणुयाद् वा पठेच् च यः ।
स सर्वलोकगो देवैः पूज्यते ऽमरराड् इव ॥ ३० ॥