Summary (SA)
Chapter 36- Umā’s self-choice; the wedding of Śiva and Umā
{{Ref- SS 85-87}}
ब्रह्मोवाच-
विस्तृते हिमवत्पृष्ठे विमानशतसङ्कुले ।
अभवत् स तु कालेन शैलपुत्र्याः स्वयंवरः ॥ १ ॥
अथ पर्वतराजो ऽसौ हिमवान् ध्यानकोविदः ।
दुहितुर् देवदेवेन ज्ञात्वा तद् अभिमन्त्रितम् ॥ २ ॥
जानन्न् अपि महाशैलः समयारक्षणेप्सया ।
स्वयंवरं ततो देव्याः सर्वलोकेष्व् अघोषयत् ॥ ३ ॥
देवदानवसिद्धानां सर्वलोकनिवासिनाम् ।
वृणुयात् परमेशानं समक्षं यदि मे सुता ॥ ४ ॥
तद् एव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् ।
इति सञ्चिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ॥ ५ ॥
आब्रह्मकेषु देवेषु देव्याः शैलेन्द्रसत्तमः ।
कृत्वा रत्नाकुलं देशं स्वयंवरम् अचीकरत् ॥ ६ ॥
अथैवम् आघोषितमात्र एव ।
स्वयंवरे तत्र नगेन्द्रपुत्र्याः ।
देवादयः सर्वजगन्निवासाः ।
समाययुस् तत्र गृहीतवेशाः ॥ ७ ॥
प्रफुल्लपद्मासनसन्निविष्टः ।
सिद्धैर् वृतो योगिभिर् अप्रमेयैः ।
विज्ञापितस् तेन महीध्रराज्ञा ।
आगतस् तदाहं त्रिदिवैर् उपेतः ॥ ८ ॥
अक्ष्णां सहस्रं सुरराट् स बिभ्रद् ।
दिव्याङ्गहारस्रगुदाररूपः ।
ऐरावतं सर्वगजेन्द्रमुख्यं ।
स्रवन्मदासारकृतप्रवाहम् ॥ ९ ॥
आरुह्य सर्वामरराट् स वज्रं ।
बिभ्रत् समागात् पुरतः सुराणाम् ।
तेजःप्रभावाधिकतुल्यरूपी ।
प्रोद्भासयन् सर्वदिशो विवस्वान् ॥ १० ॥
हैमं विमानं सवलत्पताकम् ।
आरूढ आगात् त्वरितं जवेन ।
मणिप्रदीप्तोज्ज्वलकुण्डलश् च ।
वह्न्यर्कतेजःप्रतिमे विमाने ॥ ११ ॥
समभ्यगात् कश्यपसूनुर् एक ।
आदित्यमध्याद् भगनामधारी ।
तेजोबलाज्ञासदृशप्रभावः ॥ १२ ॥
दण्डं समागृह्य कृतान्त आगाद् ।
आरुह्य भीमं महिषं जवेन ।
महामहीध्रोच्छ्रयपीनगात्रः ।
स्वर्णादिरत्नाञ्चितचारुवेशः ॥ १३ ॥
समीरणः सर्वजगद्विभर्ता ।
विमानम् आरुह्य समभ्यगाद् धि ।
सन्तापयन् सर्वसुरासुरेशांस् ।
तेजोधिकस् तेजसि सन्निविष्टः ॥ १४ ॥
वह्निः समभ्येत्य सुरेन्द्रमध्ये ।
ज्वलन् प्रतस्थौ वरवेशधारी ।
नानामणिप्रज्वलिताङ्गयष्टिर् ।
जगद्वरं दिव्यविमानम् अग्र्यम् ॥ १५ ॥
आरुह्य सर्वद्रविणाधिपेशः ।
स राजराजस् त्वरितो ऽभ्यगाच् च ।
आप्याययन् सर्वसुरासुरेशान् ।
कान्त्या च वेशेन च चारुरूपः ॥ १६ ॥
ज्वलन् महारत्नविचित्ररूपं ।
विमानम् आरुह्य शशी समायात् ।
श्यामाङ्गयष्टिः सुविचित्रवेशः ।
सर्वाङ्ग आबद्धसुगन्धिमाल्यः ॥ १७ ॥
तार्क्ष्यं समारुह्य महीध्रकल्पं ।
गदाधरो ऽसौ त्वरितः समेतः ।
अथाश्विनौ चापि भिषग्वरौ द्वाव् ।
एकं विमानं त्वरयाधिरुह्य ॥ १८ ॥
मनोहरौ प्रज्वलचारुवेशौ ।
आजग्मतुर् देववरौ सुवीरौ ।
सहस्रनागः स्फुरदग्निवर्णं ।
बिभ्रत् तदानीं ज्वलनार्कतेजाः ॥ १९ ॥
सार्धं स नागैर् अपरैर् महात्मा ।
विमानम् आरुह्य समभ्यगाच् च ।
दितेः सुतानां च महासुराणां ।
वह्न्यर्कशक्रानिलतुल्यभासाम् ॥ २० ॥
वरानुरूपं प्रविधाय वेशं ।
वृन्दं समागात् पुरतः सुराणाम् ।
गन्धर्वराजः स च चारुरूपी ।
दिव्याङ्गदो दिव्यविमानचारी ॥ २१ ॥
गन्धर्वसङ्घैः सहितो ऽप्सरोभिः ।
शक्राज्ञया तत्र समाजगाम ।
अन्ये च देवास् त्रिदिवात् तदानीं ।
पृथक् पृथक् चारुगृहीतवेशाः ॥ २२ ॥
आजग्मुर् आरुह्य विमानपृष्ठं ।
गन्धर्वयक्षोरगकिन्नराश् च ।
शचीपतिस् तत्र सुरेन्द्रमध्ये ।
रराज राजाधिकलक्ष्यमूर्तिः ॥ २३ ॥
आज्ञाबलैश्वर्यकृतप्रमोदः ।
स्वयंवरं तं समलञ्चकार ।
हेतुस् त्रिलोकस्य जगत्प्रसूतेर् ।
माता च तेषां ससुरासुराणाम् ॥ २४ ॥
पत्नी च शम्भोः पुरुषस्य धीमतो ।
गीता पुराणे प्रकृतिः परा या ।
दक्षस्य कोपाद् धिमवद्गृहं सा ।
कार्यार्थमायात् त्रिदिवौकसां हि ॥ २५ ॥
विमानपृष्ठे मणिहेमजुष्टे ।
स्थिता वलच्चामरवीजिताङ्गी ।
सर्वर्तुपुष्पां सुसुगन्धमालां ।
प्रगृह्य देवी प्रसभं प्रतस्थे ॥ २६ ॥
ब्रह्मोवाच-
मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि ।
शक्राद्यैर् आगतैर् देवैः स्वयंवर उपागते ॥ २७ ॥
देव्या जिज्ञासया शम्भुर् भूत्वा पञ्चशिखः शिशुः ।
उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः ॥ २८ ॥
ततो ददर्श तं देवी शिशुं पञ्चशिखं स्थितम् ।
ज्ञात्वा तं समवध्यानाज् जगृहे प्रीतिसंयुता ॥ २९ ॥
अथ सा शुद्धसङ्कल्पा काङ्क्षितं प्राप्य सत्पतिम् ।
निवृत्ता च तदा तस्थौ कृत्वा सा हृदि तं विभुम् ॥ ३० ॥
ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम् ।
को ऽयम् अत्रेति सम्मन्त्र्य चुक्रुशुर् भृशमोहिताः ॥ ३१ ॥
वज्रम् आहारयत् तस्य बाहुम् उत्क्षिप्य वृत्रहा ।
स बाहुर् उत्थितस् तस्य तथैव समतिष्ठत ॥ ३२ ॥
स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना ।
वज्रं क्षेप्तुं न शशाक वृत्रहा चलितुं न च ॥ ३३ ॥
भगो नाम ततो देव आदित्यः काश्यपो बली ।
उत्क्षिप्य आयुधं दीप्तं छेत्तुम् इच्छन् विमोहितः ॥ ३४ ॥
तस्यापि भगवान् बाहुं तथैवास्तम्भयत् तदा ।
बलं तेजश् च योगश् च तथैवास्तम्भयद् विभुः ॥ ३५ ॥
शिरः प्रकम्पयन् विष्णुः शङ्करं समवैक्षत ।
अथ तेषु स्थितेष्व् एवं मन्युमत्सु सुरेषु च ॥ ३६ ॥
अहं परमसंविग्नो ध्यानम् आस्थाय सादरम् ।
बुद्धवान् देवदेवेशम् उमोत्सङ्गे समास्थितम् ॥ ३७ ॥
ज्ञात्वाहं परमेशानं शीघ्रम् उत्थाय सादरम् ।
ववन्दे चरणं शम्भोः स्तुतवांस् तम् अहं द्विजाः ॥ ३८ ॥
पुराणैः सामसङ्गीतैः पुण्याख्यैर् गुह्यनामभिः ।
अजस् त्वम् अजरो देवः स्रष्टा विभुः परापरम् ॥ ३९ ॥
प्रधानं पुरुषो यस् त्वं ब्रह्म ध्येयं तद् अक्षरम् ।
अमृतं परमात्मा च ईश्वरः कारणं महत् ॥ ४० ॥
ब्रह्मसृक् प्रकृतेः स्रष्टा सर्वकृत् प्रकृतेः परः ।
इयं च प्रकृतिर् देवी सदा ते सृष्टिकारणम् ॥ ४१ ॥
पत्नीरूपं समास्थाय जगत्कारणम् आगता ।
नमस् तुभ्यं महादेव देव्या वै सहिताय च ॥ ४२ ॥
प्रसादात् तव देवेश नियोगाच् च मया प्रजाः ।
देवाद्यास् तु इमाः सृष्टा मूढास् त्वद्योगमायया ॥ ४३ ॥
कुरु प्रसादम् एतेषां यथापूर्वं भवन्त्व् इमे ।
तत एवम् अहं विप्रा विज्ञाप्य परमेश्वरम् ॥ ४४ ॥
स्तम्भितान् सर्वदेवांस् तान् इदं चाहं तदोक्तवान् ।
मूढाश् च देवताः सर्वा नैनं बुध्यत शङ्करम् ॥ ४५ ॥
गच्छध्वं शरणं शीघ्रम् एनम् एव महेश्वरम् ।
सार्धं मयैव देवेशं परमात्मानम् अव्ययम् ॥ ४६ ॥
ततस् ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः ।
प्रणेमुर् मनसा शर्वं भावशुद्धेन चेतसा ॥ ४७ ॥
अथ तेषां प्रसन्नो ऽभूद् देवदेवो महेश्वरः ।
यथापूर्वं चकाराशु देवतानां तनूस् तदा ॥ ४८ ॥
तत एवं प्रवृत्ते तु सर्वदेवनिवारणे ।
वपुश् चकार देवेशस् त्र्यक्षं परमम् अद्भुतम् ॥ ४९ ॥
तेजसा तस्य ते ध्वस्ताश् चक्षुः सर्वे न्यमीलयन् ।
तेभ्यः स परमं चक्षुः स्ववपुर्दृष्टिशक्तिमत् ॥ ५० ॥
प्रादात् परमदेवेशम् अपश्यंस् ते तदा विभुम् ।
ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् ॥ ५१ ॥
शक्राद्या मेनिरे देवाः सर्व एव सुरेश्वराः ।
तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ॥ ५२ ॥
पादयोः स्थापयाम् आस स्रङ्मालाम् अमितद्युतिः ।
साधु साध्व् इति ते होचुः सर्वे देवाः पुनर् विभुम् ॥ ५३ ॥
सह देव्या नमश् चक्रुः शिरोभिर् भूतलाश्रितैः ।
अथास्मिन्न् अन्तरे विप्रास् तम् अहं दैवतैः सह ॥ ५४ ॥
हिमवन्तं महाशैलम् उक्तवांश् च महाद्युतिम् ।
श्लाघ्यः पूज्यश् च वन्द्यश् च सर्वेषां त्वं महान् असि ॥ ५५ ॥
शर्वेण सह सम्बन्धो यस्य ते ऽभ्युदयो महान् ।
क्रियतां चारुर् उद्वाहः किमर्थं स्थीयते परम् ।
ततः प्रणम्य हिमवांस् तदा मां प्रत्यभाषत ॥ ५६ ॥
हिमवान् उवाच-
त्वम् एव कारणं देव यस्य सर्वोदये मम ।
प्रसादः सहसोत्पन्नो हेतुश् चापि त्वम् एव हि ।
उद्वाहस् तु यदा यादृक् तद् विधत्स्व पितामह ॥ ५७ ॥
ब्रह्मोवाच-
तत एवं वचः श्रुत्वा गिरिराजस्य भो द्विजाः ।
उद्वाहः क्रियतां देव इत्य् अहं चोक्तवान् विभुम् ॥ ५८ ॥
माम् आह शङ्करो देवो यथेष्टम् इति लोकपः ।
तत्क्षणाच् च ततो विप्रा अस्माभिर् निर्मितं पुरम् ॥ ५९ ॥
उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् ।
रत्नानि मणयश् चित्रा हेममौक्तिकम् एव च ॥ ६० ॥
मूर्तिमन्त उपागम्य अलञ्चक्रुः पुरोत्तमम् ।
चित्रा मारकती भूमिः सुवर्णस्तम्भशोभिता ॥ ६१ ॥
भास्वत्स्फटिकभित्तिश् च मुक्ताहारप्रलम्बिता ।
तस्मिन् द्वारि पुरे रम्य उद्वाहार्थं विनिर्मिता ॥ ६२ ॥
शुशुभे देवदेवस्य महेशस्य महात्मनः ।
सोमादित्यौ समं तत्र तापयन्तौ महामणी ॥ ६३ ॥
सौरभेयं मनोरम्यं गन्धम् आदाय मारुतः ।
प्रववौ सुखसंस्पर्शो भवभक्तिं प्रदर्शयन् ॥ ६४ ॥
समुद्रास् तत्र चत्वारः शक्राद्याश् च सुरोत्तमाः ।
देवनद्यो महानद्यः सिद्धा मुनय एव च ॥ ६५ ॥
गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः ।
औदकाः खेचराश् चान्ये किन्नरा देवचारणाः ॥ ६६ ॥
तुम्बुरुर् नारदो हाहा हूहूश् चैव तु सामगाः ।
रम्याण्य् आदाय वाद्यानि तत्राजग्मुस् तदा पुरम् ॥ ६७ ॥
ऋषयस् तु कथास् तत्र वेदगीतास् तपोधनाः ।
पुण्यान् वैवाहिकान् मन्त्राञ् जेपुः संहृष्टमानसाः ॥ ६८ ॥
जगतो मातरः सर्वा देवकन्याश् च कृत्स्नशः ।
गायन्ति हर्षिताः सर्वा उद्वाहे परमेष्ठिनः ॥ ६९ ॥
ऋतवः षट् समं तत्र नानागन्धसुखावहाः ।
उद्वाहः शङ्करस्येति मूर्तिमन्त उपस्थिताः ॥ ७० ॥
नीलजीमूतसङ्काशैर् मन्त्रध्वनिप्रहर्षिभिः ।
केकायमानैः शिखिभिर् नृत्यमानैश् च सर्वशः ॥ ७१ ॥
विलोलपिङ्गलस्पष्टविद्युल्लेखाविहासिता ।
कुमुदापीडशुक्लाभिर् बलाकाभिश् च शोभिता ॥ ७२ ॥
लताद्रुमाद्युद्गतपल्लवा शुभा ।
शुभाम्बुधाराप्रणयप्रबोधितैर् ।
महालसैर् भेकगणैश् च नादिता ॥ ७३ ॥
प्रियेषु मानोद्धतमानसानां ।
मनस्विनीनाम् अपि कामिनीनाम् ।
मयूरकेकाभिरुतैः क्षणेन ।
मनोहरैर् मानविभङ्गहेतुभिः ॥ ७४ ॥
तथा विवर्णोज्ज्वलचारुमूर्तिना ।
शशाङ्कलेखाकुटिलेन सर्वतः ।
पयोदसङ्घातसमीपवर्तिना ।
महेन्द्रचापेन भृशं विराजिता ॥ ७५ ॥
विचित्रपुष्पाम्बुभवैः सुगन्धिभिर् ।
घनाम्बुसम्पर्कतया सुशीतलैः ।
विकम्पयन्ती पवनैर् मनोहरैः ।
सुराङ्गनानाम् अलकावलीः शुभाः ॥ ७६ ॥
गर्जत्पयोदस्थगितेन्दुबिम्बा ।
नवाम्बुसिक्तोदकचारुदूर्वा ।
निरीक्षिता सादरम् उत्सुकाभिर् ।
निश्वासधूम्रं पथिकाङ्गनाभिः ॥ ७७ ॥
हंसनूपुरशब्दाढ्या समुन्नतपयोधरा ।
चलद्विद्युल्लताहारा स्पष्टपद्मविलोचना ॥ ७८ ॥
असितजलदधीरध्वानवित्रस्तहंसा ।
विमलसलिलधारोत्पातनम्रोत्पलाग्रा ।
सुरभिकुसुमरेणुकॢप्तसर्वाङ्गशोभा ।
गिरिदुहितृविवाहे प्रावृड् आविर्बभूव ॥ ७९ ॥
मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्भवस्तनी ।
हंसनूपुरनिह्रादा सर्वसस्यदिगन्तरा ॥ ८० ॥
विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला ।
प्रफुल्लेन्दीवरश्यामविलोचनमनोहरा ॥ ८१ ॥
पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी ।
नवश्यामलताश्यामरोमराजिपुरस्कृता ॥ ८२ ॥
चन्द्रांशुहारवर्गेण कण्ठोरस्थलगामिना ।
प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ॥ ८३ ॥
समदालिकुलोद्गीतमधुरस्वरभाषिणी ।
चलत्कुमुदसङ्घातचारुकुण्डलशोभिनी ॥ ८४ ॥
रक्ताशोकप्रशाखोत्थपल्लवाङ्गुलिधारिणी ।
तत्पुष्पसञ्चयमयैर् वासोभिः समलङ्कृता ॥ ८५ ॥
रक्तोत्पलाग्रचरणा जातीपुष्पनखावली ।
कदलीस्तम्भवामोरूः शशाङ्कवदना तथा ॥ ८६ ॥
सर्वलक्षणसम्पन्ना सर्वालङ्कारभूषिता ।
प्रेम्णा स्पृशति कान्तेव सानुरागा मनोरमा ॥ ८७ ॥
निर्मुक्तासितमेघकञ्चुकपटा पूर्णेन्दुबिम्बानना ।
नीलाम्भोजविलोचना रविकरप्रोद्भिन्नपद्मस्तनी ।
नानापुष्परजःसुगन्धिपवनप्रह्रादनी चेतसां ।
तत्रासीत् कलहंसनूपुररवा देव्या विवाहे शरत् ॥ ८८ ॥
अत्यर्थशीतलाम्भोभिः प्लावयन्तौ दिशः सदा ।
ऋतू हेमन्तशिशिरौ आजग्मतुर् अतिद्युती ॥ ८९ ॥
ताभ्याम् ऋतुभ्यां सम्प्राप्तो हिमवान् स नगोत्तमः ।
प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्यहरो बभौ ॥ ९० ॥
तेन प्रालेयवर्षेण घनेनैव हिमालयः ।
अगाधेन तदा रेजे क्षीरोद इव सागरः ॥ ९१ ॥
ऋतुपार्ययसम्प्राप्तो बभूव स महागिरिः ।
साधूपचारात् सहसा कृतार्थ इव दुर्जनः ॥ ९२ ॥
प्रालेयपटलच्छन्नैः शृङ्गैस् तु शुशुभे नगः ।
छत्त्रैर् इव महाभागैः पाण्डरैः पृथिवीपतिः ॥ ९३ ॥
मनोभवोद्रेककराः सुराणां ।
सुराङ्गनानां च मुहुः समीराः ।
स्वच्छाम्बुपूर्णाश् च तथा नलिन्यः ।
पद्मोत्पलानां कुसुमैर् उपेताः ॥ ९४ ॥
विवाहे गुरुकन्याया वसन्तः समगाद् ऋतुः ॥ ९५ ॥
ईषत्समुद्भिन्नपयोधराग्रा ।
नार्यो यथा रम्यतरा बभूवुः ।
नात्युष्णशीतानि पयःसरांसि ।
किञ्जल्कचूर्णैः कपिलीकृतानि ।
चक्राह्वयुग्मैर् उपनादितानि ।
ययुः प्रहृष्टाः सुरदन्तिमुख्याः ॥ ९६ ॥
प्रियङ्गूश् चूततरवश् चूतांश् चापि प्रियङ्गवः ।
तर्जयन्त इवान्योन्यं मञ्जरीभिश् चकाशिरे ॥ ९७ ॥
हिमशृङ्गेषु शुक्लेषु तिलकाः कुसुमोत्कराः ।
शुशुभुः कार्यम् उद्दिश्य वृद्धा इव समागताः ॥ ९८ ॥
फुल्लाशोकलतास् तत्र रेजिरे शालसंश्रिताः ।
कामिन्य इव कान्तानां कण्ठालम्बितबाहवः ॥ ९९ ॥
तस्मिन्न् ऋतौ शुभ्रकदम्बनीपास् ।
तालाः स्तमालाः सरलाः कपित्थाः ॥ १०० ॥
अशोकसर्जार्जुनकोविदाराः ।
पुन्नागनागेश्वरकर्णिकाराः ।
लवङ्गतालागुरुसप्तपर्णा ।
न्यग्रोधशोभाञ्जननारिकेलाः ॥ १०१ ॥
वृक्षास् तथान्ये फलपुष्पवन्तो ।
दृश्या बभूवुः सुमनोहराङ्गाः ।
जलाशयाश् चैव सुवर्णतोयाश् ।
चक्राङ्गकारण्डवहंसजुष्टाः ॥ १०२ ॥
कोयष्टिदात्यूहबलाकयुक्ता ।
दृश्यास् तु पद्मोत्पलमीनपूर्णाः ।
खगाश् च नानाविधभूषिताङ्गा ।
दृश्यास् तु वृक्षेषु सुचित्रपक्षाः ॥ १०३ ॥
क्रीडासु युक्तान् अथ तर्जयन्तः ।
कुर्वन्ति शब्दं मदनेरिताङ्गाः ।
तस्मिन् गिराव् अद्रिसुताविवाहे ।
ववुश् च वाताः सुखशीतलाङ्गाः ॥ १०४ ॥
पुष्पाणि शुभ्राण्य् अपि पातयन्तः ।
शनैर् नगेभ्यो मलयाद्रिजाताः ।
तथैव सर्वे ऋतवश् च पुण्याश् ।
चकाशिरे ऽन्योन्यविमिश्रिताङ्गाः ॥ १०५ ॥
येषां सुलिङ्गानि च कीर्तितानि ।
ते तत्र आसन् सुमनोज्ञरूपाः ॥ १०६ ॥
समदालिकुलोद्गीतशिलाकुसुमसञ्चयैः ।
परस्परं हि मालत्यो भावयन्त्यो विरेजिरे ॥ १०७ ॥
नीलानि नीलाम्बुरुहैः पयांसि ।
गौराणि गौरैश् च मृणालदण्डैः ।
रक्तैश् च रक्तानि भृशं कृतानि ।
मत्तद्विरेफावलिजुष्टपत्त्रैः ॥ १०८ ॥
हैमानि विस्तीर्णजलेषु केषुचिन् ।
निरन्तरं चारुतराणि केषुचित् ।
वैदूर्यनालानि सरःसु केषुचित् ।
प्रजज्ञिरे पद्मवनानि सर्वतः ॥ १०९ ॥
वाप्यस् तत्राभवन् रम्याः कमलोत्पलपुष्पिताः ।
नानाविहङ्गसञ्जुष्टा हैमसोपानपङ्क्तयः ॥ ११० ॥
शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः ।
समुच्छ्रितान्य् अविरलैर् हेमानीव बभुर् द्विजाः ॥ १११ ॥
ईषद्विभिन्नकुसुमैः पाटलैश् चापि पाटलाः ।
सम्बभूवुर् दिशः सर्वाः पवनाकम्पिमूर्तिभिः ॥ ११२ ॥
कृष्णार्जुना दशगुणा नीलाशोकमहीरुहाः ।
गिरौ ववृधिरे फुल्लाः स्पर्धयन्तः परस्परम् ॥ ११३ ॥
चारुरावविजुष्टानि किंशुकानां वनानि च ।
पर्वतस्य नितम्बेषु सर्वेषु च विरेजिरे ॥ ११४ ॥
तमालगुल्मैस् तस्यासीच् छोभा हिमवतस् तदा ।
नीलजीमूतसङ्घातैर् निलीनैर् इव सन्धिषु ॥ ११५ ॥
निकामपुष्पैः सुविशालशाखैः ।
समुच्छ्रितैश् चन्दनचम्पकैश् च ।
प्रमत्तपुंस्कोकिलसम्प्रलापैर् ।
हिमाचलो ऽतीव तदा रराज ॥ ११६ ॥
श्रुत्वा शब्दं मृदुमदकलं सर्वतः कोकिलानां ।
चञ्चत्पक्षाः समधुरतरं नीलकण्ठा विनेदुः ।
तेषां शब्दैर् उपचितबलः पुष्पचापेषुहस्तः ।
सज्जीभूतस् त्रिदशवनिता वेद्धुम् अङ्गेष्व् अनङ्गः ॥ ११७ ॥
पटुः सूर्यातपश् चापि प्रायशो ऽल्पजलाशयः ।
देवीविवाहसमये ग्रीष्म आगाद् धिमाचलम् ॥ ११८ ॥
स चापि तरुभिस् तत्र बहुभिः कुसुमोत्करैः ।
शोभयाम् आस शृङ्गाणि प्रालेयाद्रेः समन्ततः ॥ ११९ ॥
तथापि च गिरौ तत्र वायवः सुमनोहराः ।
ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः ॥ १२० ॥
वाप्यः प्रफुल्लपद्मौघकेसरारुणमूर्तयः ।
अभवंस् तटसङ्घुष्टफलहंसकदम्बकाः ॥ १२१ ॥
तथा कुरबकाश् चापि कुसुमापाण्डुमूर्तयः ।
सर्वेषु नगशृङ्गेषु भ्रमरावलिसेविताः ॥ १२२ ॥
बकुलाश् च नितम्बेषु विशालेषु महीभृतः ।
उत्ससर्ज मनोज्ञानि कुसुमानि समन्ततः ॥ १२३ ॥
इति कुसुमविचित्रसर्ववृक्षा ।
विविधविहङ्गमनादरम्यदेशाः ।
हिमगिरितनयाविवाहभूत्यै ।
षड् उपययुर् ऋतवो मुनिप्रवीराः ॥ १२४ ॥
तत एवं प्रवृत्ते तु सर्वभूतसमागमे ।
नानावाद्यसमाकीर्णे अहं तत्र द्विजातयः ॥ १२५ ॥
शैलपुत्रीम् अलङ्कृत्य योग्याभरणसम्पदा ।
पुरं प्रवेशितवांस् तां स्वयम् आदाय भो द्विजाः ॥ १२६ ॥
ततस् तु पुनर् एवेशम् अहं चैवोक्तवान् विभुम् ।
हविर् जुहोमि वह्नौ ते उपाध्यायपदे स्थितः ॥ १२७ ॥
ददासि मह्यं यद्य् आज्ञां कर्तव्यो ऽयं क्रियाविधिः ।
माम् आह शङ्करश् चैवं देवदेवो जगत्पतिः ॥ १२८ ॥
शिव उवाच-
यद् उद्दिष्टं सुरेशान तत् कुरुष्व यथेप्सितम् ।
कर्तास्मि वचनं सर्वं ब्रह्मंस् तव जगद्विभो ॥ १२९ ॥
ब्रह्मोवाच-
ततश् चाहं प्रहृष्टात्मा कुशान् आदाय सत्वरम् ।
हस्तं देवस्य देव्याश् च योगबन्धेन युक्तवान् ॥ १३० ॥
ज्वलनश् च स्वयं तत्र कृताञ्जलिपुटः स्थितः ।
श्रुतिगीतैर् महामन्त्रैर् मूर्तिमद्भिर् उपस्थितैः ॥ १३१ ॥
यथोक्तविधिना हुत्वा सर्पिस् तद् अमृतं हविः ।
ततस् तं ज्वलनं सर्वं कारयित्वा प्रदक्षिणम् ॥ १३२ ॥
मुक्त्वा हस्तसमायोगं सहितः सर्वदैवतैः ।
पुत्रैश् च मानसैः सिद्धैः प्रहृष्टेनान्तरात्मना ॥ १३३ ॥
वृत्त उद्वाहकाले तु प्रणम्य च वृषध्वजम् ।
योगेनैव तयोर् विप्रास् तद् उमापरमेशयोः ॥ १३४ ॥
उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् ।
इति वः सर्वम् आख्यातं स्वयंवरम् इदं शुभम् ।
उद्वाहश् चैव देवस्य शृणुध्वं परमाद्भुतम् ॥ १३५ ॥