Summary (SA)
Chapter 35- Umā and Rudra- her devotion to Rudra; Śiva as a child and the crocodile
{{Ref- SS 84-85}}
ब्रह्मोवाच-
ततस् ताम् अब्रुवन् देवास् तदा गत्वा तु सुन्दरीम् ।
देवि शीघ्रेण कालेन धूर्जटिर् नीललोहितः ॥ १ ॥
स भर्ता तव देवेशो भविता मा तपः कृथाः ।
ततः प्रदक्षिणीकृत्य देवा विप्रा गिरेः सुताम् ॥ २ ॥
जग्मुश् चादर्शनं तस्याः सा चापि विरराम ह ।
सा देवी सूक्तम् इत्य् एवम् उक्त्वा स्वस्याश्रमे शुभे ॥ ३ ॥
द्वारि जातम् अशोकं च समुपाश्रित्य चास्थिता ।
अथागाच् चन्द्रतिलकस् त्रिदशार्तिहरो हरः ॥ ४ ॥
विकृतं रूपम् आस्थाय ह्रस्वो बाहुक एव च ।
विभग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ॥ ५ ॥
उवाच विकृतास्यश् च देवि त्वां वरयाम्य् अहम् ।
अथोमा योगसंसिद्धा ज्ञात्वा शङ्करम् आगतम् ॥ ६ ॥
अन्तर्भावविशुद्धात्मा कृपानुष्ठानलिप्सया ।
तम् उवाचार्घपाद्याभ्यां मधुपर्केण चैव ह ॥ ७ ॥
सम्पूज्य सुमनोभिस् तं ब्राह्मणं ब्राह्मणप्रिया ॥ ८ ॥
देव्य् उवाच-
भगवन् न स्वतन्त्राहं पिता मे त्व् अग्रणीर् गृहे ।
स प्रभुर् मम दाने वै कन्याहं द्विजपुङ्गव ॥ ९ ॥
गत्वा याचस्व पितरं मम शैलेन्द्रम् अव्ययम् ।
स चेद् ददाति मां विप्र तुभ्यं तद् उचितं मम ॥ १० ॥
ब्रह्मोवाच-
ततः स भगवान् देवस् तथैव विकृतः प्रभुः ।
उवाच शैलराजानं सुतां मे यच्छ शैलराट् ॥ ११ ॥
स तं विकृतरूपेण ज्ञात्वा रुद्रम् अथाव्ययम् ।
भीतः शापाच् च विमना इदं वचनम् अब्रवीत् ॥ १२ ॥
शैलेन्द्र उवाच-
भगवन् नावमन्ये ऽहं ब्राह्मणान् भुवि देवताः ।
मनीषितं तु यत् पूर्वं तच् छृणुष्व महामते ॥ १३ ॥
स्वयंवरो मे दुहितुर् भविता विप्रपूजितः ।
वरयेद् यं स्वयं तत्र स भर्तास्या भविष्यति ॥ १४ ॥
तच् छ्रुत्वा शैलवचनं भगवान् वृषभध्वजः ।
देव्याः समीपम् आगत्य इदम् आह महामनाः ॥ १५ ॥
शिव उवाच-
देवि पित्रा त्व् अनुज्ञातः स्वयंवर इति श्रुतिः ।
तत्र त्वं वरयित्री यं स ते भर्ता भवेद् इति ॥ १६ ॥
तद् आपृच्छ्य गमिष्यामि दुर्लभां त्वां वरानने ।
रूपवन्तं समुत्सृज्य वृणोष्य् असदृशं कथम् ॥ १७ ॥
ब्रह्मोवाच-
तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् ।
भावं च रुद्रनिहितं प्रसादं मनसस् तथा ॥ १८ ॥
सम्प्राप्योवाच देवेशं मा ते ऽभूद् बुद्धिर् अन्यथा ।
अहं त्वां वरयिष्यामि नाद्भुतं तु कथञ्चन ॥ १९ ॥
अथवा ते ऽस्ति सन्देहो मयि विप्र कथञ्चन ।
इहैव त्वां महाभाग वरयामि मनोगतम् ॥ २० ॥
ब्रह्मोवाच-
गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थिता ।
स्कन्धे शम्भोः समाधाय देवी प्राह वृतो ऽसि मे ॥ २१ ॥
ततः स भगवान् देवस् तया देव्या वृतस् तदा ।
उवाच तम् अशोकं वै वाचा सञ्जीवयन्न् इव ॥ २२ ॥
शिव उवाच-
यस्मात् तव सुपुण्येन स्तबकेन वृतो ऽस्म्य् अहम् ।
तस्मात् त्वं जरया त्यक्तस् त्व् अमरः सम्भविष्यसि ॥ २३ ॥
कामरूपी कामपुष्पः कामदो दयितो मम ।
सर्वाभरणपुष्पाढ्यः सर्वपुष्पफलोपगः ॥ २४ ॥
सर्वान्नभक्षकश् चैव अमृतस्वाद एव च ।
सर्वगन्धश् च देवानां भविष्यसि दृढप्रियः ॥ २५ ॥
निर्भयः सर्वलोकेषु भविष्यसि सुनिर्वृतः ।
आश्रमं वेदम् अत्यर्थं चित्रकूटेति विश्रुतम् ॥ २६ ॥
यो हि यास्यति पुण्यार्थी सो ऽश्वमेधम् अवाप्स्यति ।
यस् तु तत्र मृतश् चापि ब्रह्मलोकं स गच्छति ॥ २७ ॥
यश् चात्र नियमैर् युक्तः प्राणान् सम्यक् परित्यजेत् ।
स देव्यास् तपसा युक्तो महागणपतिर् भवेत् ॥ २८ ॥
ब्रह्मोवाच-
एवम् उक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् ।
अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ॥ २९ ॥
सापि देवी गते तस्मिन् भगवत्य् अमितात्मनि ।
तत एवोन्मुखी भूत्वा शिलायां सम्बभूव ह ॥ ३० ॥
उन्मुखी सा भवे तस्मिन् महेशे जगतां प्रभौ ।
निशेव चन्द्ररहिता न बभौ विमनास् तदा ॥ ३१ ॥
अथ शुश्राव शब्दं च बालस्यार्तस्य शैलजा ।
सरस्य् उदकसम्पूर्णे समीपे चाश्रमस्य च ॥ ३२ ॥
स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः ।
क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तो ऽभवत् तदा ॥ ३३ ॥
योगमायां समास्थाय प्रपञ्चोद्भवकारणम् ।
तद् रूपं सरसो मध्ये कृत्वैवं समभाषत ॥ ३४ ॥
बाल उवाच-
त्रातु मां कश्चिद् इत्य् आह ग्राहेण हृतचेतसम् ।
धिक् कष्टं बाल एवाहम् अप्राप्तार्थमनोरथः ॥ ३५ ॥
प्रयामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः ।
शोचामि न स्वकं देहं ग्राहग्रस्तः सुदुःखितः ॥ ३६ ॥
यथा शोचामि पितरं मातरं च तपस्विनीम् ।
ग्राहगृहीतं मां श्रुत्वा प्राप्तं निधनम् उत्सुकौ ॥ ३७ ॥
प्रियपुत्राव् एकपुत्रौ प्राणान् नूनं त्यजिष्यतः ।
अहो बत सुकष्टं वै यो ऽहं बालो ऽकृताश्रमः ।
अन्तर्ग्राहेण ग्रस्तस् तु यास्यामि निधनं किल ॥ ३८ ॥
ब्रह्मोवाच-
श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना ।
उत्थाय प्रस्थिता तत्र यत्र तिष्ठत्य् असौ द्विजः ॥ ३९ ॥
सापश्यद् इन्दुवदना बालकं चारुरूपिणम् ।
ग्राहस्य मुखम् आपन्नं वेपमानम् अवस्थितम् ॥ ४० ॥
सो ऽपि ग्राहवरः श्रीमान् दृष्ट्वा देवीम् उपागताम् ।
तं गृहीत्वा द्रुतं यातो मध्यं सरस एव हि ॥ ४१ ॥
स कृष्यमाणस् तेजस्वी नादम् आर्तं तदाकरोत् ।
अथाह देवी दुःखार्ता बालं दृष्ट्वा ग्रहावृतम् ॥ ४२ ॥
पार्वत्य् उवाच-
ग्राहराज महासत्त्व बालकं ह्य् एकपुत्रकम् ।
विमुञ्चेमं महादंष्ट्र क्षिप्रं भीमपराक्रम ॥ ४३ ॥
ग्राह उवाच-
यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् ।
स आहारो मम पुरा विहितो लोककर्तृभिः ॥ ४४ ॥
सो ऽयं मम महाभागे षष्ठे ऽहनि गिरीन्द्रजे ।
ब्रह्मणा प्रेरितो नूनं नैनं मोक्ष्ये कथञ्चन ॥ ४५ ॥
देव्य् उवाच-
यन् मया हिमवच्छृङ्गे चरितं तप उत्तमम् ।
तेन बालम् इमं मुञ्च ग्राहराज नमो ऽस्तु ते ॥ ४६ ॥
ग्राह उवाच-
मा व्ययस् तपसो देवि भृशं बाले शुभानने ।
यद् ब्रवीमि कुरु श्रेष्ठे तथा मोक्षम् अवाप्स्यति ॥ ४७ ॥
देव्य् उवाच-
ग्राहाधिप वदस्वाशु यत् सताम् अविगर्हितम् ।
तत् कृतं नात्र सन्देहो यतो मे ब्राह्मणाः प्रियाः ॥ ४८ ॥
ग्राह उवाच-
यत् कृतं वै तपः किञ्चिद् भवत्या स्वल्पम् उत्तमम् ।
तत् सर्वं मे प्रयच्छाशु ततो मोक्षम् अवाप्स्यति ॥ ४९ ॥
देव्य् उवाच-
जन्मप्रभृति यत् पुण्यं महाग्राह कृतं मया ।
तत् ते सर्वं मया दत्तं बालं मुञ्च महाग्रह ॥ ५० ॥
ब्रह्मोवाच-
प्रजज्वाल ततो ग्राहस् तपसा तेन भूषितः ।
आदित्य इव मध्याह्ने दुर्निरीक्षस् तदाभवत् ।
उवाच चैवं तुष्टात्मा देवीं लोकस्य धारिणीम् ॥ ५१ ॥
ग्राह उवाच-
देवि किं कृत्यम् एतत् ते सुनिश्चित्य महाव्रते ।
तपसो ऽप्य् अर्जनं दुःखं तस्य त्यागो न शस्यते ॥ ५२ ॥
गृहाण तप एव त्वं बालं चेमं सुमध्यमे ।
तुष्टो ऽस्मि ते विप्रभक्त्या वरं तस्माद् ददामि ते ।
सा त्व् एवम् उक्ता ग्राहेण उवाचेदं महाव्रता ॥ ५३ ॥
देव्य् उवाच-
देहेनापि मया ग्राह रक्ष्यो विप्रः प्रयत्नतः ।
तपः पुनर् मया प्राप्यं न प्राप्यो ब्राह्मणः पुनः ॥ ५४ ॥
सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् ।
न विप्रेभ्यस् तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ॥ ५५ ॥
दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विहितं हि ते ।
नहि कश्चिन् नरो ग्राह प्रदत्तं पुनर् आहरेत् ॥ ५६ ॥
दत्तम् एतन् मया तुभ्यं नाददानि हि तत् पुनः ।
त्वय्य् एव रमताम् एतद् बालश् चायं विमुच्यताम् ॥ ५७ ॥
ब्रह्मोवाच-
तथोक्तस् तां प्रशस्याथ मुक्त्वा बालं नमस्य च ।
देवीम् आदित्यावभासस् तत्रैवान्तरधीयत ॥ ५८ ॥
बालो ऽपि सरसस् तीरे मुक्तो ग्राहेण वै तदा ।
स्वप्नलब्ध इवार्थौघस् तत्रैवान्तरधीयत ॥ ५९ ॥
तपसो ऽपचयं मत्वा देवी हिमगिरीन्द्रजा ।
भूय एव तपः कर्तुम् आरेभे नियमस्थिता ॥ ६० ॥
कर्तुकामां तपो भूयो ज्ञात्वा तां शङ्करः स्वयम् ।
प्रोवाच वचनं विप्रा मा कृथास् तप इत्य् उत ॥ ६१ ॥
मह्यम् एतत् तपो देवि त्वया दत्तं महाव्रते ।
तत् तेनैवाक्षयं तुभ्यं भविष्यति सहस्रधा ॥ ६२ ॥
इति लब्ध्वा वरं देवी तपसो ऽक्षयम् उत्तमम् ।
स्वयंवरम् उदीक्षन्ती तस्थौ प्रीता मुदा युता ॥ ६३ ॥
इदं पठेद् यो हि नरः सदैव ।
बालानुभावाचरणं हि शम्भोः ।
स देहभेदं समवाप्य पूतो ।
भवेद् गणेशस् तु कुमारतुल्यः ॥ ६४ ॥