034

Summary (SA)

Chapter 34- Story of Satī; the birth of Umā

{{Ref- SS 81-83}}

ब्रह्मोवाच-

यो ऽसौ सर्वगतो देवस् त्रिपुरारिस् त्रिलोचनः ।
उमाप्रियकरो रुद्रश् चन्द्रार्धकृतशेखरः ॥ १ ॥

विद्राव्य विबुधान् सर्वान् सिद्धविद्याधरान् ऋषीन् ।
गन्धर्वयक्षनागांश् च तथान्यांश् च समागतान् ॥ २ ॥

जघान पूर्वं दक्षस्य यजतो धरणीतले ।
यज्ञं समृद्धं रत्नाढ्यं सर्वसम्भारसम्भृतम् ॥ ३ ॥

यस्य प्रतापसन्त्रस्ताः शक्राद्यास् त्रिदिवौकसः ।
शान्तिं न लेभिरे विप्राः कैलासं शरणं गताः ॥ ४ ॥

स आस्ते तत्र वरदः शूलपाणिर् वृषध्वजः ।
पिनाकपाणिर् भगवान् दक्षयज्ञविनाशनः ॥ ५ ॥

महादेवो ऽकले देशे कृत्तिवासा वृषध्वजः ।
एकाम्रके मुनिश्रेष्ठाः सर्वकामप्रदो हरः ॥ ६ ॥

मुनय ऊचुः-

किमर्थं स भवो देवः सर्वभूतहिते रतः ।
जघान यज्ञं दक्षस्य देवैः सर्वैर् अलङ्कृतम् ॥ ७ ॥

न ह्य् अल्पं कारणं तत्र प्रभो मन्यामहे वयम् ।
श्रोतुम् इच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ ८ ॥

ब्रह्मोवाच-

दक्षस्यासन्न् अष्ट कन्या याश् चैवं पतिसङ्गताः ।
स्वेभ्यो गृहेभ्यश् चानीय ताः पिताभ्यर्चयद् गृहे ॥ ९ ॥

ततस् त्व् अभ्यर्चिता विप्रा न्यवसंस् ताः पितुर् गृहे ।
तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै ॥ १० ॥

नाजुहावात्मजां तां वै दक्षो रुद्रम् अभिद्विषन् ।
अकरोत् सन्नतिं दक्षे न च काञ्चिन् महेश्वरः ॥ ११ ॥

जामाता श्वशुरे तस्मिन् स्वभावात् तेजसि स्थितः ।
ततो ज्ञात्वा सती सर्वास् तास् तु प्राप्ताः पितुर् गृहम् ॥ १२ ॥

जगाम साप्य् अनाहूता सती तु स्वपितुर् गृहम् ।
ताभ्यो हीनां पिता चक्रे सत्याः पूजाम् असम्मताम् ।
ततो ऽब्रवीत् सा पितरं देवी क्रोधसमाकुला ॥ १३ ॥

सत्य् उवाच-

यवीयसीभ्यः श्रेष्ठाहं किं न पूजसि मां प्रभो ।
असत्कृताम् अवस्थां यः कृतवान् असि गर्हिताम् ।
अहं ज्येष्ठा वरिष्ठा च मां त्वं सत्कर्तुम् अर्हसि ॥ १४ ॥

ब्रह्मोवाच-

एवम् उक्तो ऽब्रवीद् एनां दक्षः संरक्तलोचनः ॥ १५ ॥

दक्ष उवाच-

त्वत्तः श्रेष्ठा वरिष्ठाश् च पूज्या बालाः सुता मम ।
तासां ये चैव भर्तारस् ते मे बहुमताः सति ॥ १६ ॥

ब्रह्मिष्ठाश् च व्रतस्थाश् च महायोगाः सुधार्मिकाः ।
गुणैश् चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात् सति ॥ १७ ॥

वसिष्ठो ऽत्रिः पुलस्त्यश् च अङ्गिराः पुलहः क्रतुः ।
भृगुर् मरीचिश् च तथा श्रेष्ठा जामातरो मम ॥ १८ ॥

तैश् चापि स्पर्धते शर्वः सर्वे ते चैव तं प्रति ।
तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ॥ १९ ॥

इत्य् उक्तवांस् तदा दक्षः सम्प्रमूढेन चेतसा ।
शापार्थम् आत्मनश् चैव येनोक्ता वै महर्षयः ।
तथोक्ता पितरं सा वै क्रुद्धा देवी तम् अब्रवीत् ॥ २० ॥

सत्य् उवाच-

वाङ्मनःकर्मभिर् यस्माद् अदुष्टां मां विगर्हसि ।
तस्मात् त्यजाम्य् अहं देहम् इमं तात तवात्मजम् ॥ २१ ॥

ब्रह्मोवाच-

ततस् तेनापमानेन सती दुःखाद् अमर्षिता ।
अब्रवीद् वचनं देवी नमस्कृत्य स्वयम्भुवे ॥ २२ ॥

सत्य् उवाच-

येनाहम् अपदेहा वै पुनर् देहेन भास्वता ।
तत्राप्य् अहम् असम्मूढा सम्भूता धार्मिकी पुनः ।
गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥ २३ ॥

ब्रह्मोवाच-

तत्रैवाथ समासीना रुष्टात्मानं समादधे ।
धारयाम् आस चाग्नेयीं धारणाम् आत्मनात्मनि ॥ २४ ॥

ततः स्वात्मानम् उत्थाप्य वायुना समुदीरितः ।
सर्वाङ्गेभ्यो विनिःसृत्य वह्निर् भस्म चकार ताम् ॥ २५ ॥

तद् उपश्रुत्य निधनं सत्या देव्याः स शूलधृक् ।
संवादं च तयोर् बुद्ध्वा याथातथ्येन शङ्करः ।
दक्षस्य च विनाशाय चुकोप भगवान् प्रभुः ॥ २६ ॥

श्रीशङ्कर उवाच-

यस्माद् अवमता दक्ष सहसैवागता सती ।
प्रशस्ताश् चेतराः सर्वास् त्वत्सुता भर्तृभिः सह ॥ २७ ॥

तस्माद् वैवस्वते प्राप्ते पुनर् एते महर्षयः ।
उत्पत्स्यन्ति द्वितीये वै तव यज्ञे ह्य् अयोनिजाः ॥ २८ ॥

हुते वै ब्रह्मणः सत्त्रे चाक्षुषस्यान्तरे मनोः ।
अभिव्याहृत्य सप्तर्षीन् दक्षं सो ऽभ्यशपत् पुनः ॥ २९ ॥

भविता मानुषो राजा चाक्षुषस्यान्तरे मनोः ।
प्राचीनबर्हिषः पौत्रः पुत्रश् चापि प्रचेतसः ॥ ३० ॥

दक्ष इत्य् एव नाम्ना त्वं मारिषायां जनिष्यसि ।
कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषान्तरे ॥ ३१ ॥

अहं तत्रापि ते विघ्नम् आचरिष्यामि दुर्मते ।
धर्मकामार्थयुक्तेषु कर्मस्व् इह पुनः पुनः ॥ ३२ ॥

ततो वै व्याहृतो दक्षो रुद्रं सो ऽभ्यशपत् पुनः ॥ ३३ ॥

दक्ष उवाच-

यस्मात् त्वं मत्कृते क्रूर ऋषीन् व्याहृतवान् असि ।
तस्मात् सार्धं सुरैर् यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥ ३४ ॥

कृत्वाहुतिं तव क्रूर अपः स्पृशन्ति कर्मसु ।
इहैव वत्स्यसे लोके दिवं हित्वायुगक्षयात् ।
ततो देवैस् तु ते सार्धं न तु पूजा भविष्यति ॥ ३५ ॥

रुद्र उवाच-

चातुर्वर्ण्यं तु देवानां ते चाप्य् एकत्र भुञ्जते ।
न भोक्ष्ये सहितस् तैस् तु ततो भोक्ष्याम्य् अहं पृथक् ॥ ३६ ॥

सर्वेषां चैव लोकानाम् आदिर् भूर्लोक उच्यते ।
तम् अहं धारयाम्य् एकः स्वेच्छया न तवाज्ञया ॥ ३७ ॥

तस्मिन् धृते सर्वलोकाः सर्वे तिष्ठन्ति शाश्वताः ।
तस्माद् अहं वसामीह सततं न तवाज्ञया ॥ ३८ ॥

ब्रह्मोवाच-

ततो ऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा ।
स्वायम्भुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्व् इह ॥ ३९ ॥

यदा गृहपतिर् दक्षो यज्ञानाम् ईश्वरः प्रभुः ।
समस्तेनेह यज्ञेन सो ऽयजद् दैवतैः सह ॥ ४० ॥

अथ देवी सती यत् ते प्राप्ते वैवस्वते ऽन्तरे ।
मेनायां ताम् उमां देवीं जनयाम् आस शैलराट् ॥ ४१ ॥

सा तु देवी सती पूर्वम् आसीत् पश्चाद् उमाभवत् ।
सहव्रता भवस्यैषा नैतया मुच्यते भवः ॥ ४२ ॥

यावद् इच्छति संस्थानं प्रभुर् मन्वन्तरेष्व् इह ।
मारीचं कश्यपं देवी यथादितिर् अनुव्रता ॥ ४३ ॥

सार्धं नारायणं श्रीस् तु मघवन्तं शची यथा ।
विष्णुं कीर्तिर् उषा सूर्यं वसिष्ठं चाप्य् अरुन्धती ॥ ४४ ॥

नैतांस् तु विजहत्य् एता भर्तॄन् देव्यः कथञ्चन ।
एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे ॥ ४५ ॥

प्राचीनबर्हिषः पौत्रः पुत्रश् चापि प्रचेतसाम् ।
दशभ्यस् तु प्रचेतोभ्यो मारिषायां पुनर् नृप ॥ ४६ ॥

जज्ञे रुद्राभिशापेन द्वितीयम् इति नः श्रुतम् ।
भृग्वादयस् तु ते सर्वे जज्ञिरे वै महर्षयः ॥ ४७ ॥

आद्ये त्रेतायुगे पूर्वं मनोर् वैवस्वतस्य ह ।
देवस्य महतो यज्ञे वारुणीं बिभ्रतस् तनुम् ॥ ४८ ॥

इत्य् एषो ऽनुशयो ह्य् आसीत् तयोर् जात्यन्तरे गतः ।
प्रजापतेश् च दक्षस्य त्र्यम्बकस्य च धीमतः ॥ ४९ ॥

तस्मान् नानुशयः कार्यो वरेष्व् इह कदाचन ।
जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः ।
जन्तोर् न भूतये ख्यातिस् तन् न कार्यं विजानता ॥ ५० ॥

मुनय ऊचुः-

कथं रोषेण सा पूर्वं दक्षस्य दुहिता सती ।
त्यक्त्वा देहं पुनर् जाता गिरिराजगृहे प्रभो ॥ ५१ ॥

देहान्तरे कथं तस्याः पूर्वदेहो बभूव ह ।
भवेन सह संयोगः संवादश् च तयोः कथम् ॥ ५२ ॥

स्वयंवरः कथं वृत्तस् तस्मिन् महति जन्मनि ।
विवाहश् च जगन्नाथ सर्वाश्चर्यसमन्वितः ॥ ५३ ॥

तत् सर्वं विस्तराद् ब्रह्मन् वक्तुम् अर्हसि साम्प्रतम् ।
श्रोतुम् इच्छामहे पुण्यां कथां चातिमनोहराम् ॥ ५४ ॥

ब्रह्मोवाच-

शृणुध्वं मुनिशार्दूलाः कथां पापप्रणाशिनीम् ।
उमाशङ्करयोः पुण्यां सर्वकामफलप्रदाम् ॥ ५५ ॥

कदाचित् स्वगृहात् प्राप्तं कश्यपं द्विपदां वरम् ।
अपृच्छद् धिमवान् वृत्तं लोके ख्यातिकरं हितम् ॥ ५६ ॥

केनाक्षयाश् च लोकाः स्युः ख्यातिश् च परमा मुने ।
तथैव चार्चनीयत्वं सत्सु तत् कथयस्व मे ॥ ५७ ॥

कश्यप उवाच-

अपत्येन महाबाहो सर्वम् एतद् अवाप्यते ।
ममाख्यातिर् अपत्येन ब्रह्मणा ऋषिभिः सह ॥ ५८ ॥

किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि ।
वर्तयिष्यामि यच् चापि यथादृष्टं पुराचल ॥ ५९ ॥

वाराणसीम् अहं गच्छन्न् अपश्यं संस्थितं दिवि ।
विमानं सुनवं दिव्यम् अनौपम्यं महर्धिमत् ॥ ६० ॥

तस्याधस्ताद् आर्तनादं गर्तस्थाने शृणोम्य् अहम् ।
तम् अहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥ ६१ ॥

अथागात् तत्र शैलेन्द्र विप्रो नियमवाञ् शुचिः ।
तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥ ६२ ॥

अथ स व्रजमानस् तु व्याघ्रेणाभीषितो द्विजः ।
विवेश तं तदा देशं स गर्तो यत्र भूधर ॥ ६३ ॥

गर्तायां वीरणस्तम्बे लम्बमानांस् तदा मुनीन् ।
अपश्यद् आर्तो दुःखार्तांस् तान् अपृच्छच् च स द्विजः ॥ ६४ ॥

द्विज उवाच-

के यूयं वीरणस्तम्बे लम्बमाना ह्य् अधोमुखाः ।
दुःखिताः केन मोक्षश् च युष्माकं भवितानघाः ॥ ६५ ॥

पितर ऊचुः-

वयं ते कृतपुण्यस्य पितरः सपितामहाः ।
प्रपितामहाश् च क्लिश्यामस् तव दुष्टेन कर्मणा ॥ ६६ ॥

नरको ऽयं महाभाग गर्तरूपेण संस्थितः ।
त्वं चापि वीरणस्तम्बस् त्वयि लम्बामहे वयम् ॥ ६७ ॥

यावत् त्वं जीवसे विप्र तावद् एव वयं स्थिताः ।
मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥ ६८ ॥

यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् ।
उत्पादयसि तेनास्मान् मुच्येम वयम् एनसः ॥ ६९ ॥

नान्येन तपसा पुत्र तीर्थानां च फलेन च ।
एतत् कुरु महाबुद्धे तारयस्व पितॄन् भयात् ॥ ७० ॥

कश्यप उवाच-

स तथेति प्रतिज्ञाय आराध्य वृषभध्वजम् ।
पितॄन् गर्तात् समुद्धृत्य गणपान् प्रचकार ह ॥ ७१ ॥

स्वयं रुद्रस्य दयितः सुवेशो नाम नामतः ।
सम्मतो बलवांश् चैव रुद्रस्य गणपो ऽभवत् ॥ ७२ ॥

तस्मात् कृत्वा तपो घोरम् अपत्यं गुणवद् भृशम् ।
उत्पादयस्व शैलेन्द्र सुतां त्वं वरवर्णिनीम् ॥ ७३ ॥

ब्रह्मोवाच-

स एवम् उक्त्वा ऋषिणा शैलेन्द्रो नियमस्थितः ।
तपश् चकाराप्य् अतुलं येन तुष्टिर् अभून् मम ॥ ७४ ॥

तदा तम् उत्पपाताहं वरदो ऽस्मीति चाब्रवम् ।
ब्रूहि तुष्टो ऽस्मि शैलेन्द्र तपसानेन सुव्रत ॥ ७५ ॥

हिमवान् उवाच-

भगवन् पुत्रम् इच्छामि गुणैः सर्वैर् अलङ्कृतम् ।
एवं वरं प्रयच्छस्व यदि तुष्टो ऽसि मे प्रभो ॥ ७६ ॥

ब्रह्मोवाच-

तस्य तद् वचनं श्रुत्वा गिरिराजस्य भो द्विजाः ।
तदा तस्मै वरं चाहं दत्तवान् मनसेप्सितम् ॥ ७७ ॥

कन्या भवित्री शैलेन्द्र तपसानेन सुव्रत ।
यस्याः प्रभावात् सर्वत्र कीर्तिम् आप्स्यसि शोभनाम् ॥ ७८ ॥

अर्चितः सर्वदेवानां तीर्थकोटिसमावृतः ।
पावनश् चैव पुण्येन देवानाम् अपि सर्वतः ॥ ७९ ॥

ज्येष्ठा च सा भवित्री ते अन्ये चात्र ततः शुभे ॥ ८० ॥

सो ऽपि कालेन शैलेन्द्रो मेनायाम् उदपादयत् ।
अपर्णाम् एकपर्णां च तथा चैवैकपाटलाम् ॥ ८१ ॥

न्यग्रोधम् एकपर्णं तु पाटलं चैकपाटलाम् ।
अशित्वा त्व् एकपर्णां तु अनिकेतस् तपो ऽचरत् ॥ ८२ ॥

शतं वर्षसहस्राणां दुश्चरं देवदानवैः ।
आहारम् एकपर्णं तु एकपर्णा समाचरत् ॥ ८३ ॥

पाटलेन तथैकेन विदधे चैकपाटला ।
पूर्णे वर्षसहस्रे तु आहारं ताः प्रचक्रतुः ॥ ८४ ॥

अपर्णा तु निराहारा तां माता प्रत्यभाषत ।
निषेधयन्ती चो मेति मातृस्नेहेन दुःखिता ॥ ८५ ॥

सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी ।
तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥ ८६ ॥

एतत् तु त्रिकुमारीकं जगत् स्थावरजङ्गमम् ।
एतासां तपसां वृत्तं यावद् भूमिर् धरिष्यति ॥ ८७ ॥

तपःशरीरास् ताः सर्वास् तिस्रो योगं समाश्रिताः ।
सर्वाश् चैव महाभागास् तथा च स्थिरयौवनाः ॥ ८८ ॥

ता लोकमातरश् चैव ब्रह्मचारिण्य एव च ।
अनुगृह्णन्ति लोकांश् च तपसा स्वेन सर्वदा ॥ ८९ ॥

उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी ।
महायोगबलोपेता महादेवम् उपस्थिता ॥ ९० ॥

दत्तकश् चोशना तस्य पुत्रः स भृगुनन्दनः ।
आसीत् तस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥ ९१ ॥

या तु तासां कुमारीणां तृतीया ह्य् एकपाटला ।
पुत्रं सा तम् अलर्कस्य जैगीषव्यम् उपस्थिता ॥ ९२ ॥

तस्याश् च शङ्खलिखितौ स्मृतौ पुत्राव् अयोनिजौ ।
उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी ॥ ९३ ॥

अथ तस्यास् तपोयोगात् त्रैलोक्यम् अखिलं तदा ।
प्रधूपितम् इहालक्ष्य वचस् ताम् अहम् अब्रवम् ॥ ९४ ॥

देवि किं तपसा लोकांस् तापयिष्यसि शोभने ।
त्वया सृष्टम् इदं सर्वं मा कृत्वा तद् विनाशय ॥ ९५ ॥

त्वं हि धारयसे लोकान् इमान् सर्वान् स्वतेजसा ।
ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रतीह नः ॥ ९६ ॥

देव्य् उवाच-

यदर्थं तपसो ह्य् अस्य चरणं मे पितामह ।
त्वम् एव तद् विजानीषे ततः पृच्छसि किं पुनः ॥ ९७ ॥

ब्रह्मोवाच-

ततस् ताम् अब्रवं चाहं यदर्थं तप्यसे शुभे ।
स त्वां स्वयम् उपागम्य इहैव वरयिष्यति ॥ ९८ ॥

शर्व एव पतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः ।
वयं सदैव यस्येमे वश्या वै किङ्कराः शुभे ॥ ९९ ॥

स देवदेवः परमेश्वरः स्वयं ।
स्वयम्भुर् आयास्यति देवि ते ऽन्तिकम् ।
उदाररूपो विकृतादिरूपः ।
समानरूपो ऽपि न यस्य कस्यचित् ॥ १०० ॥

महेश्वरः पर्वतलोकवासी ।
चराचरेशः प्रथमो ऽप्रमेयः ।
विनेन्दुना हीन्द्रसमानवर्चसा ।
विभीषणं रूपम् इवास्थितो यः ॥ १०१ ॥