Summary (SA)
Chapter 33- On the origin of the sun; the 108 names of the sun
{{Ref- SS 80-81}}
मुनय ऊचुः-
भूयो ऽपि कथयास्माकं कथां सूर्यसमाश्रिताम् ।
न तृप्तिम् अधिगच्छामः शृण्वन्तस् तां कथां शुभाम् ॥ १ ॥
यो ऽयं दीप्तो महातेजा वह्निराशिसमप्रभः ।
एतद् वेदितुम् इच्छामः प्रभावो ऽस्य कुतः प्रभो ॥ २ ॥
ब्रह्मोवाच-
तमोभूतेषु लोकेषु नष्टे स्थावरजङ्गमे ।
प्रकृतेर् गुणहेतुस् तु पूर्वं बुद्धिर् अजायत ॥ ३ ॥
अहङ्कारस् ततो जातो महाभूतप्रवर्तकः ।
वाय्वग्निर् आपः खं भूमिस् ततस् त्व् अण्डम् अजायत ॥ ४ ॥
तस्मिन्न् अण्डे त्व् इमे लोकाः सप्त चैव प्रतिष्ठिताः ।
पृथिवी सप्तभिर् द्वीपैः समुद्रैश् चैव सप्तभिः ॥ ५ ॥
तत्रैवावस्थितो ह्य् आसीद् अहं विष्णुर् महेश्वरः ।
विमूढास् तामसाः सर्वे प्रध्यायन्ति तम् ईश्वरम् ॥ ६ ॥
ततो वै सुमहातेजाः प्रादुर्भूतस् तमोनुदः ।
ध्यानयोगेन चास्माभिर् विज्ञातः सविता तदा ॥ ७ ॥
ज्ञात्वा च परमात्मानं सर्व एव पृथक् पृथक् ।
दिव्याभिः स्तुतिभिर् देवः स्तुतो ऽस्माभिस् तदेश्वरः ॥ ८ ॥
आदिदेवो ऽसि देवानाम् ऐश्वर्याच् च त्वम् ईश्वरः ।
आदिकर्तासि भूतानां देवदेवो दिवाकरः ॥ ९ ॥
जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् ।
मुनिकिन्नरसिद्धानां तथैवोरगपक्षिणाम् ॥ १० ॥
त्वं ब्रह्मा त्वं महादेवस् त्वं विष्णुस् त्वं प्रजापतिः ।
वायुर् इन्द्रश् च सोमश् च विवस्वान् वरुणस् तथा ॥ ११ ॥
त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः ।
सरितः सागराः शैला विद्युदिन्द्रधनूंषि च ॥ १२ ॥
प्रलयः प्रभवश् चैव व्यक्ताव्यक्तः सनातनः ।
ईश्वरात् परतो विद्या विद्यायाः परतः शिवः ॥ १३ ॥
शिवात् परतरो देवस् त्वम् एव परमेश्वरः ।
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ॥ १४ ॥
सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः ।
भूतादिर् भूर् भुवः स्वश् च महः सत्यं तपो जनः ॥ १५ ॥
प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् ।
दुर्निरीक्षं सुरेन्द्राणां यद् रूपं तस्य ते नमः ॥ १६ ॥
सुरसिद्धगणैर् जुष्टं भृग्वत्रिपुलहादिभिः ।
स्तुतं परमम् अव्यक्तं यद् रूपं तस्य ते नमः ॥ १७ ॥
वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् ।
सर्वदेवातिदेवस्य यद् रूपं तस्य ते नमः ॥ १८ ॥
विश्वकृद् विश्वभूतं च वैश्वानरसुरार्चितम् ।
विश्वस्थितम् अचिन्त्यं च यद् रूपं तस्य ते नमः ॥ १९ ॥
परं यज्ञात् परं वेदात् परं लोकात् परं दिवः ।
परमात्मेत्य् अभिख्यातं यद् रूपं तस्य ते नमः ॥ २० ॥
अविज्ञेयम् अनालक्ष्यम् अध्यानगतम् अव्ययम् ।
अनादिनिधनं चैव यद् रूपं तस्य ते नमः ॥ २१ ॥
नमो नमः कारणकारणाय ।
नमो नमः पापविमोचनाय ।
नमो नमस् ते दितिजार्दनाय ।
नमो नमो रोगविमोचनाय ॥ २२ ॥
नमो नमः सर्ववरप्रदाय ।
नमो नमः सर्वसुखप्रदाय ।
नमो नमः सर्वधनप्रदाय ।
नमो नमः सर्वमतिप्रदाय ॥ २३ ॥
स्तुतः स भगवान् एवं तैजसं रूपम् आस्थितः ।
उवाच वाचा कल्याण्या को वरो वः प्रदीयताम् ॥ २४ ॥
देवा ऊचुः-
तवातितैजसं रूपं न कश्चित् सोढुम् उत्सहेत् ।
सहनीयं तद् भवतु हिताय जगतः प्रभो ॥ २५ ॥
एवम् अस्त्व् इति सो ऽप्य् उक्त्वा भगवान् आदिकृत् प्रभुः ।
लोकानां कार्यसिद्ध्यर्थं घर्मवर्षहिमप्रदः ॥ २६ ॥
ततः साङ्ख्याश् च योगाश् च ये चान्ये मोक्षकाङ्क्षिणः ।
ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम् ॥ २७ ॥
सर्वलक्षणहीनो ऽपि युक्तो वा सर्वपातकैः ।
सर्वं च तरते पापं देवम् अर्कं समाश्रितः ॥ २८ ॥
अग्निहोत्रं च वेदाश् च यज्ञाश् च बहुदक्षिणाः ।
भानोर् भक्तिनमस्कारकलां नार्हन्ति षोडशीम् ॥ २९ ॥
तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् ।
पवित्रं च पवित्राणां प्रपद्यन्ते दिवाकरम् ॥ ३० ॥
शक्राद्यैः संस्तुतं देवं ये नमस्यन्ति भास्करम् ।
सर्वकिल्बिषनिर्मुक्ताः सूर्यलोकं व्रजन्ति ते ॥ ३१ ॥
मुनय ऊचुः-
चिरात् प्रभृति नो ब्रह्मञ् श्रोतुम् इच्छा प्रवर्तते ।
नाम्नाम् अष्टशतं ब्रूहि यत् त्वयोक्तं पुरा रवेः ॥ ३२ ॥
ब्रह्मोवाच-
अष्टोत्तरशतं नाम्नां शृणुध्वं गदतो मम ।
भास्करस्य परं गुह्यं स्वर्गमोक्षप्रदं द्विजाः ॥ ३३ ॥
ॐ सूर्यो ऽर्यमा भगस् त्वष्टा पूषार्कः सविता रविः ।
गभस्तिमान् अजः कालो मृत्युर् धाता प्रभाकरः ॥ ३४ ॥
पृथिव्य् आपश् च तेजश् च खं वायुश् च परायणम् ।
सोमो बृहस्पतिः शुक्रो बुधो ऽङ्गारक एव च ॥ ३५ ॥
इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः ।
ब्रह्मा विष्णुश् च रुद्रश् च स्कन्दो वैश्रवणो यमः ॥ ३६ ॥
वैद्युतो जाठरश् चाग्निर् ऐन्धनस् तेजसां पतिः ।
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ३७ ॥
कृतं त्रेता द्वापरश् च कलिः सर्वामराश्रयः ।
कलाकाष्ठामुहूर्ताश् च क्षपा यामास् तथा क्षणाः ॥ ३८ ॥
संवत्सरकरो ऽश्वत्थः कालचक्रो विभावसुः ।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ३९ ॥
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ।
वरुणः सागरो ऽंशश् च जीमूतो जिवनो ऽरिहा ॥ ४० ॥
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः ।
स्रष्टा संवर्तको वह्निः सर्वस्यादिर् अलोलुपः ॥ ४१ ॥
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ।
जयो विशालो वरदः सर्वभूतनिषेवितः ॥ ४२ ॥
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः ।
धन्वन्तरिर् धूमकेतुर् आदिदेवो ऽदितेः सुतः ॥ ४३ ॥
द्वादशात्मा रविर् दक्षः पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ४४ ॥
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।
चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ॥ ४५ ॥
एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः ।
नाम्नाम् अष्टशतं रम्यं मया प्रोक्तं द्विजोत्तमाः ॥ ४६ ॥
सुरगणपितृयक्षसेवितं ह्य् ।
असुरनिशाकरसिद्धवन्दितम् ।
वरकनकहुताशनप्रभं ।
प्रणिपतितो ऽस्मि हिताय भास्करम् ॥ ४७ ॥
सूर्योदये यः सुसमाहितः पठेत् ।
स पुत्रदारान् धनरत्नसञ्चयान् ।
लभेत जातिस्मरतां नरः स तु ।
स्मृतिं च मेधां च स विन्दते पराम् ॥ ४८ ॥
इमं स्तवं देववरस्य यो नरः ।
प्रकीर्तयेच् छुद्धमनाः समाहितः ।
विमुच्यते शोकदवाग्निसागराल् ।
लभेत कामान् मनसा यथेप्सितान् ॥ ४९ ॥