Summary (SA)
Chapter 32- The birth of Vivasvat; story of Sañjñā and Mārtaṇḍa
{{Ref- SS 77-80}}
मुनय ऊचुः-
निर्गुणः शाश्वतो देवस् त्वया प्रोक्तो दिवाकरः ।
पुनर् द्वादशधा जातः श्रुतो ऽस्माभिस् त्वयोदितः ॥ १ ॥
स कथं तेजसो रश्मिः स्त्रिया गर्भे महाद्युतिः ।
सम्भूतो भास्करो जातस् तत्र नः संशयो महान् ॥ २ ॥
ब्रह्मोवाच-
दक्षस्य हि सुताः श्रेष्ठा बभूवुः षष्टिः शोभनाः ।
अदितिर् दितिर् दनुश् चैव विनताद्यास् तथैव च ॥ ३ ॥
दक्षस् ताः प्रददौ कन्याः कश्यपाय त्रयोदश ।
अदितिर् जनयाम् आस देवांस् त्रिभुवनेश्वरान् ॥ ४ ॥
दैत्यान् दितिर् दनुश् चोग्रान् दानवान् बलदर्पितान् ।
विनताद्यास् तथा चान्याः सुषुवुः स्थानुजङ्गमान् ॥ ५ ॥
तस्याथ पुत्रदौहित्रैः पौत्रदौहित्रकादिभिः ।
व्याप्तम् एतज् जगत् सर्वं तेषां तासां च वै मुने ॥ ६ ॥
तेषां कश्यपपुत्राणां प्रधाना देवतागणाः ।
सात्त्विका राजसाश् चान्ये तामसाश् च गणाः स्मृताः ॥ ७ ॥
देवान् यज्ञभुजश् चक्रे तथा त्रिभुवनेश्वरान् ।
स्रष्टा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः ॥ ८ ॥
तान् अबाधन्त सहिताः सापत्न्याद् दैत्यदानवाः ।
ततो निराकृतान् पुत्रान् दैतेयैर् दानवैस् तथा ॥ ९ ॥
हतं त्रिभुवनं दृष्ट्वा अदितिर् मुनिसत्तमाः ।
आच्छिनद् यज्ञभागांश् च क्षुधा सम्पीडितान् भृशम् ॥ १० ॥
आराधनाय सवितुः परं यत्नं प्रचक्रमे ।
एकाग्रा नियताहारा परं नियमम् आस्थिता ।
तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम् ॥ ११ ॥
अदितिर् उवाच-
नमस् तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रते ऽतुलम् ।
धाम धामवताम् ईशं धामाधारं च शाश्वतम् ॥ १२ ॥
जगताम् उपकाराय त्वाम् अहं स्तौमि गोपते ।
आददानस्य यद् रूपं तीव्रं तस्मै नमाम्य् अहम् ॥ १३ ॥
ग्रहीतुम् अष्टमासेन कालेनाम्बुमयं रसम् ।
बिभ्रतस् तव यद् रूपम् अतितीव्रं नतास्मि तत् ॥ १४ ॥
समेतम् अग्निसोमाभ्यां नमस् तस्मै गुणात्मने ।
यद् रूपम् ऋग्यजुःसाम्नाम् ऐक्येन तपते तव ॥ १५ ॥
विश्वम् एतत् त्रयीसञ्ज्ञं नमस् तस्मै विभावसो ।
यत् तु तस्मात् परं रूपम् ॐ इत्य् उक्त्वाभिसंहितम् ।
अस्थूलं स्थूलम् अमलं नमस् तस्मै सनातन ॥ १६ ॥
ब्रह्मोवाच-
एवं सा नियता देवी चक्रे स्तोत्रम् अहर्निशम् ।
निराहारा विवस्वन्तम् आरिराधयिषुर् द्विजाः ॥ १७ ॥
ततः कालेन महता भगवांस् तपनो द्विजाः ।
प्रत्यक्षताम् अगात् तस्या दाक्षायण्या द्विजोत्तमाः ॥ १८ ॥
सा ददर्श महाकूटं तेजसो ऽम्बरसंवृतम् ।
भूमौ च संस्थितं भास्वज्ज्वालाभिर् अतिदुर्दृशम् ।
तं दृष्ट्वा च ततो देवी साध्वसं परमं गता ॥ १९ ॥
अदितिर् उवाच-
जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते ।
प्रसादं कुरु पश्येयं यद् रूपं ते दिवाकर ।
भक्तानुकम्पक विभो त्वद्भक्तान् पाहि मे सुतान् ॥ २१ ॥
ब्रह्मोवाच-
ततः स तेजसस् तस्माद् आविर्भूतो विभावसुः ।
अदृश्यत तदादित्यस् तप्तताम्रोपमः प्रभुः ॥ २२ ॥
ततस् तां प्रणतां देवीं तस्यासन्दर्शने द्विजाः ।
प्राह भास्वान् वृणुष्वैकं वरं मत्तो यम् इच्छसि ॥ २३ ॥
प्रणता शिरसा सा तु जानुपीडितमेदिनी ।
प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥ २४ ॥
अदितिर् उवाच-
देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम ।
यज्ञभागाश् च दैतेयैर् दानवैश् च बलाधिकैः ॥ २५ ॥
तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते ।
अंशेन तेषां भ्रातृत्वं गत्वा तान् नाशये रिपून् ॥ २६ ॥
यथा मे तनया भूयो यज्ञभागभुजः प्रभो ।
भवेयुर् अधिपाश् चैव त्रैलोक्यस्य दिवाकर ॥ २७ ॥
तथानुकल्पं पुत्राणां सुप्रसन्नो रवे मम ।
कुरु प्रसन्नार्तिहर कार्यं कर्ता उच्यते ॥ २८ ॥
ब्रह्मोवाच-
ततस् ताम् आह भगवान् भास्करो वारितस्करः ।
प्रणताम् अदितिं विप्राः प्रसादसुमुखो विभुः ॥ २९ ॥
सूर्य उवाच-
सहस्रांशेन ते गर्भः सम्भूयाहम् अशेषतः ।
त्वत्पुत्रशत्रून् दक्षो ऽहं नाशयाम्य् आशु निर्वृतः ॥ ३० ॥
ब्रह्मोवाच-
इत्य् उक्त्वा भगवान् भास्वान् अन्तर्धानम् उपागतः ।
निवृत्ता सापि तपसः सम्प्राप्ताखिलवाञ्छिता ॥ ३१ ॥
ततो रश्मिसहस्रात् तु सुषुम्नाख्यो रवेः करः ।
ततः संवत्सरस्यान्ते तत्कामपूरणाय सः ॥ ३२ ॥
निवासं सविता चक्रे देवमातुस् तदोदरे ।
कृच्छ्रचान्द्रायणादींश् च सा चक्रे सुसमाहिता ॥ ३३ ॥
शुचिना धारयाम्य् एनं दिव्यं गर्भम् इति द्विजाः ।
ततस् तां कश्यपः प्राह किञ्चित्कोपप्लुताक्षरम् ॥ ३४ ॥
कश्यप उवाच-
किं मारयसि गर्भाण्डम् इति नित्योपवासिनी ।
ब्रह्मोवाच-
सा च तं प्राह गर्भाण्डम् एतत् पश्येति कोपना ।
न मारितं विपक्षाणां मृत्युर् एव भविष्यति ॥ ३५ ॥
इत्य् उक्त्वा तं तदा गर्भम् उत्ससर्ज सुरारणिः ।
जाज्वल्यमानं तेजोभिः पत्युर् वचनकोपिता ॥ ३६ ॥
तं दृष्ट्वा कश्यपो गर्भम् उद्यद्भास्करवर्चसम् ।
तुष्टाव प्रणतो भूत्वा वाग्भिर् आद्याभिर् आदरात् ॥ ३७ ॥
संस्तूयमानः स तदा गर्भाण्डात् प्रकटो ऽभवत् ।
पद्मपत्त्रसवर्णाभस् तेजसा व्याप्तदिङ्मुखः ॥ ३८ ॥
अथान्तरिक्षाद् आभाष्य कश्यपं मुनिसत्तमम् ।
सतोयमेघगम्भीरा वाग् उवाचाशरीरिणी ॥ ३९ ॥
वाग् उवाच-
मारितन्तेपतः प्रोक्तम् एतद् अण्डं त्वयादितेः ।
तस्मान् मुने सुतस् ते ऽयं मार्तण्डाख्यो भविष्यति ॥ ४० ॥
हनिष्यत्य् असुरांश् चायं यज्ञभागहरान् अरीन् ।
देवा निशम्येति वचो गगनात् समुपागतम् ॥ ४१ ॥
प्रहर्षम् अतुलं याता दानवाश् च हतौजसः ।
ततो युद्धाय दैतेयान् आजुहाव शतक्रतुः ॥ ४२ ॥
सह देवैर् मुदा युक्तो दानवाश् च तम् अभ्ययुः ।
तेषां युद्धम् अभूद् घोरं देवानाम् असुरैः सह ॥ ४३ ॥
शस्त्रास्त्रवृष्टिसन्दीप्तसमस्तभुवनान्तरम् ।
तस्मिन् युद्धे भगवता मार्तण्डेन निरीक्षिताः ॥ ४४ ॥
तेजसा दह्यमानास् ते भस्मीभूता महासुराः ।
ततः प्रहर्षम् अतुलं प्राप्ताः सर्वे दिवौकसः ॥ ४५ ॥
तुष्टुवुस् तेजसां योनिं मार्तण्डम् अदितिं तथा ।
स्वाधिकारांस् ततः प्राप्ता यज्ञभागांश् च पूर्ववत् ॥ ४६ ॥
भगवान् अपि मार्तण्डः स्वाधिकारम् अथाकरोत् ।
कदम्बपुष्पवद् भास्वान् अधश् चोर्ध्वं च रश्मिभिः ।
वृतो ऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः ॥ ४७ ॥
मुनय ऊचुः-
कथं कान्ततरं पश्चाद् रूपं संलब्धवान् रविः ।
कदम्बगोलकाकारं तन् मे ब्रूहि जगत्पते ॥ ४८ ॥
ब्रह्मोवाच-
त्वष्टा तस्मै ददौ कन्यां सञ्ज्ञां नाम विवस्वते ।
प्रसाद्य प्रणतो भूत्वा विश्वकर्मा प्रजापतिः ॥ ४९ ॥
त्रीण्य् अपत्यान्य् असौ तस्यां जनयाम् आस गोपतिः ।
द्वौ पुत्रौ सुमहाभागौ कन्यां च यमुनां तथा ॥ ५० ॥
यत् तेजो ऽभ्यधिकं तस्य मार्तण्डस्य विवस्वतः ।
तेनातितापयाम् आस त्रींल् लोकान् सचराचरान् ॥ ५१ ॥
तद् रूपं गोलकाकारं दृष्ट्वा सञ्ज्ञा विवस्वतः ।
असहन्ती महत् तेजः स्वां छायां वाक्यम् अब्रवीत् ॥ ५२ ॥
सञ्ज्ञोवाच-
अहं यास्यामि भद्रं ते स्वम् एव भवनं पितुः ।
निर्विकारं त्वयात्रैव स्थेयं मच्छासनाच् छुभे ॥ ५३ ॥
इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ।
सम्भाव्या नैव चाख्येयम् इदं भगवते त्वया ॥ ५४ ॥
छायोवाच-
आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् ।
आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम् ॥ ५५ ॥
इत्य् उक्ता व्रीडिता सञ्ज्ञा जगाम पितृमन्दिरम् ।
वत्सराणां सहस्रं तु वसमाना पितुर् गृहे ॥ ५६ ॥
भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः ।
आगच्छद् वडवा भूत्वा कुरून् अथोत्तरांस् ततः ॥ ५७ ॥
तत्र तेपे तपः साध्वी निराहारा द्विजोत्तमाः ।
पितुः समीपं यातायां सञ्ज्ञायां वाक्यतत्परा ॥ ५८ ॥
तद्रूपधारिणी छाया भास्करं समुपस्थिता ।
तस्यां च भगवान् सूर्यः सञ्ज्ञेयम् इति चिन्तयन् ॥ ५९ ॥
तथैव जनयाम् आस द्वौ पुत्रौ कन्यकां तथा ।
सञ्ज्ञा तु पार्थिवी तेषाम् आत्मजानां तथाकरोत् ॥ ६० ॥
स्नेहं न पूर्वजातानां तथा कृतवती तु सा ।
मनुस् तत् क्षान्तवांस् तस्या यमस् तस्या न चक्षमे ॥ ६१ ॥
बहुधा पीड्यमानस् तु पितुः पत्या सुदुःखितः ।
स वै कोपाच् च बाल्याच् च भाविनो ऽर्थस्य वै बलात् ।
पदा सन्तर्जयाम् आस न तु देहे न्यपातयत् ॥ ६२ ॥
छायोवाच-
पदा तर्जयसे यस्मात् पितुर् भार्यां गरीयसीम् ।
तस्मात् तवैष चरणः पतिष्यति न संशयः ॥ ६३ ॥
ब्रह्मोवाच-
यमस् तु तेन शापेन भृशं पीडितमानसः ।
मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत् ॥ ६४ ॥
यम उवाच-
स्नेहेन तुल्यम् अस्मासु माता देव न वर्तते ।
विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति ॥ ६५ ॥
तस्यां मयोद्यतः पादो न तु देहे निपातितः ।
बाल्याद् वा यदि वा मोहात् तद् भवान् क्षन्तुम् अर्हसि ॥ ६६ ॥
शप्तो ऽहं तात कोपेन जनन्या तनयो यतः ।
ततो मन्ये न जननीम् इमां वै तपतां वर ॥ ६७ ॥
तव प्रसादाच् चरणो भगवन् न पतेद् यथा ।
मातृशापाद् अयं मे ऽद्य तथा चिन्तय गोपते ॥ ६८ ॥
रविर् उवाच-
असंशयं महत् पुत्र भविष्यत्य् अत्र कारणम् ।
येन त्वाम् आविशत् क्रोधो धर्मज्ञं धर्मशीलिनम् ॥ ६९ ॥
सर्वेषाम् एव शापानां प्रतिघातो हि विद्यते ।
न तु मात्राभिशप्तानां क्वचिच् छापनिवर्तनम् ॥ ७० ॥
न शक्यम् एतन् मिथ्या तु कर्तुं मातुर् वचस् तव ।
किञ्चित् ते ऽहं विधास्यामि पुत्रस्नेहाद् अनुग्रहम् ॥ ७१ ॥
कृमयो मांसम् आदाय प्रयास्यन्ति महीतलम् ।
कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि ॥ ७२ ॥
ब्रह्मोवाच-
आदित्यस् त्व् अब्रवीच् छायां किमर्थं तनयेषु वै ।
तुल्येष्व् अप्य् अधिकः स्नेह एकं प्रति कृतस् त्वया ॥ ७३ ॥
नूनं नैषां त्वं जननी सञ्ज्ञा कापि त्वम् आगता ।
निर्गुणेष्व् अप्य् अपत्येषु माता शापं न दास्यति ॥ ७४ ॥
सा तत्परिहरन्ती च शापाद् भीता तदा रवेः ।
कथयाम् आस वृत्तान्तं स श्रुत्वा श्वशुरं ययौ ॥ ७५ ॥
स चापि तं यथान्यायम् अर्चयित्वा तदा रविम् ।
निर्दग्धुकामं रोषेण सान्त्वयानस् तम् अब्रवीत् ॥ ७६ ॥
विश्वकर्मोवाच-
तवातितेजसा व्याप्तम् इदं रूपं सुदुःसहम् ।
असहन्ती तु तत् सञ्ज्ञा वने चरति वै तपः ॥ ७७ ॥
द्रक्ष्यते तां भवान् अद्य स्वां भार्यां शुभचारिणीम् ।
रूपार्थं भवतो ऽरण्ये चरन्तीं सुमहत् तपः ॥ ७८ ॥
श्रुतं मे ब्रह्मणो वाक्यं तव तेजोवरोधने ।
रूपं निर्वर्तयाम्य् अद्य तव कान्तं दिवस्पते ॥ ७९ ॥
ब्रह्मोवाच-
ततस् तथेति तं प्राह त्वष्टारं भगवान् रविः ।
ततो विवस्वतो रूपं प्राग् आसीत् परिमण्डलम् ॥ ८० ॥
विश्वकर्मा त्व् अनुज्ञातः शाकद्वीपे विवस्वता ।
भ्रमिम् आरोप्य तत्तेजःशातनायोपचक्रमे ॥ ८१ ॥
भ्रमताशेषजगतां नाभिभूतेन भास्वता ।
समुद्राद्रिवनोपेता त्व् आरुरोह मही नभः ॥ ८२ ॥
गगनं चाखिलं विप्राः सचन्द्रग्रहतारकम् ।
अधोगतं महाभागा बभूवाक्षिप्तम् आकुलम् ॥ ८३ ॥
विक्षिप्तसलिलाः सर्वे बभूवुश् च तथार्णवाः ।
व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः ॥ ८४ ॥
ध्रुवाधाराण्य् अशेषाणि धिष्ण्यानि मुनिसत्तमाः ।
त्रुट्यद्रश्मिनिबन्धीनि बन्धनानि अधो ययुः ॥ ८५ ॥
वेगभ्रमणसम्पातवायुक्षिप्ताः सहस्रशः ।
व्यशीर्यन्त महामेघा घोरारावविराविणः ॥ ८६ ॥
भास्वद्भ्रमणविभ्रान्तभूम्याकाशरसातलम् ।
जगद् आकुलम् अत्यर्थं तदासीन् मुनिसत्तमाः ॥ ८७ ॥
त्रैलोक्यम् आकुलं वीक्ष्य भ्रममाणं सुरर्षयः ।
देवाश् च ब्रह्मणा सार्धं भास्वन्तम् अभितुष्टुवुः ॥ ८८ ॥
आदिदेवो ऽसि देवानां जातस् त्वं भूतये भुवः ।
सर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि ॥ ८९ ॥
स्वस्ति ते ऽस्तु जगन्नाथ घर्मवर्षदिवाकर ।
इन्द्रादयस् तदा देवा लिख्यमानम् अथास्तुवन् ॥ ९० ॥
जय देव जगत्स्वामिञ् जयाशेषजगत्पते ।
ऋषयश् च ततः सप्त वसिष्ठात्रिपुरोगमाः ॥ ९१ ॥
तुष्टुवुर् विविधैः स्तोत्रैः स्वस्ति स्वस्तीतिवादिनः ।
वेदोक्तिभिर् अथाग्र्याभिर् वालखिल्याश् च तुष्टुवुः ॥ ९२ ॥
अग्निर् आद्याश् च भास्वन्तं लिख्यमानं मुदा युताः ।
त्वं नाथ मोक्षिणां मोक्षो ध्येयस् त्वं ध्यानिनां परः ॥ ९३ ॥
त्वं गतिः सर्वभूतानां कर्मकाण्डविवर्तिनाम् ।
सम्पूज्यस् त्वं तु देवेश शं नो ऽस्तु जगतां पते ॥ ९४ ॥
शं नो ऽस्तु द्विपदे नित्यं शं नश् चास्तु चतुष्पदे ।
ततो विद्याधरगणा यक्षराक्षसपन्नगाः ॥ ९५ ॥
कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् ।
ऊचुस् ते विविधा वाचो मनःश्रोत्रसुखावहाः ॥ ९६ ॥
सह्यं भवतु तेजस् ते भूतानां भूतभावन ।
ततो हाहाहूहूश् चैव नारदस् तुम्बुरुस् तथा ॥ ९७ ॥
उपगायितुम् आरब्धा गान्धर्वकुशला रविम् ।
षड्जमध्यमगान्धारगानत्रयविशारदाः ॥ ९८ ॥
मूर्छनाभिश् च तालैश् च सम्प्रयोगैः सुखप्रदम् ।
विश्वाची च घृताची च उर्वश्य् अथ तिलोत्तमाः ॥ ९९ ॥
मेनका सहजन्या च रम्भा चाप्सरसां वरा ।
ननृतुर् जगताम् ईशे लिख्यमाने विभावसौ ॥ १०० ॥
भावहावविलासाद्यान् कुर्वत्यो ऽभिनयान् बहून् ।
प्रावाद्यन्त ततस् तत्र वीणा वेण्वादिझर्झराः ॥ १०१ ॥
पणवाः पुष्कराश् चैव मृदङ्गाः पटहानकाः ।
देवदुन्दुभयः शङ्खाः शतशो ऽथ सहस्रशः ॥ १०२ ॥
गायद्भिश् चैव नृत्यद्भिर् गन्धर्वैर् अप्सरोगणैः ।
तूर्यवादित्रघोषैश् च सर्वं कोलाहलीकृतम् ॥ १०३ ॥
ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्तयः ।
लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः ॥ १०४ ॥
ततः कोलाहले तस्मिन् सर्वदेवसमागमे ।
तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः ॥ १०५ ॥
आजानुलिखितश् चासौ निपुणं विश्वकर्मणा ।
नाभ्यनन्दत् तु लिखनं ततस् तेनावतारितः ॥ १०६ ॥
न तु निर्भर्त्सितं रूपं तेजसो हननेन तु ।
कान्तात् कान्ततरं रूपम् अधिकं शुशुभे ततः ॥ १०७ ॥
इति हिमजलघर्मकालहेतोर् ।
हरकमलासनविष्णुसंस्तुतस्य ।
तदुपरि लिखनं निशम्य भानोर् ।
व्रजति दिवाकरलोकम् आयुषो ऽन्ते ॥ १०८ ॥
एवं जन्म रवेः पूर्वं बभूव मुनिसत्तमाः ।
रूपं च परमं तस्य मया सम्परिकीर्तितम् ॥ १०९ ॥