Summary (SA)
Chapter 31- Various aspects of the sun; the 12 Ādityas; the 21 names of the sun
{{Ref- SS 76-77}}
ब्रह्मोवाच-
आदित्यमूलम् अखिलं त्रैलोक्यं मुनिसत्तमाः ।
भवत्य् अस्माज् जगत् सर्वं सदेवासुरमानुषम् ॥ १ ॥
रुद्रोपेन्द्रमहेन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् ।
महाद्युतिमतां चैव तेजो ऽयं सार्वलौकिकम् ॥ २ ॥
सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः ।
सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ ३ ॥
अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ ४ ॥
सूर्यात् प्रसूयते सर्वं तत्र चैव प्रलीयते ।
भावाभावौ हि लोकानाम् आदित्यान् निःसृतौ पुरा ॥ ५ ॥
एतत् तु ध्यानिनां ध्यानं मोक्षश् चाप्य् एष मोक्षिणाम् ।
तत्र गच्छन्ति निर्वाणं जायन्ते ऽस्मात् पुनः पुनः ॥ ६ ॥
क्षणा मुहूर्ता दिवसा निशा पक्षाश् च नित्यशः ।
मासाः संवत्सराश् चैव ऋतवश् च युगानि च ॥ ७ ॥
अथादित्याद् ऋते ह्य् एषां कालसङ्ख्या न विद्यते ।
कालाद् ऋते न नियमो नाग्नौ विहरणक्रिया ॥ ८ ॥
ऋतूनाम् अविभागश् ततः पुष्पफलं कुतः ।
कुतो वै सस्यनिष्पत्तिस् तृणौषधिगणः कुतः ॥ ९ ॥
अभावो व्यवहाराणां जन्तूनां दिवि चेह च ।
जगत्प्रभावाद् विशते भास्कराद् वारितस्करात् ॥ १० ॥
नावृष्ट्या तपते सूर्यो नावृष्ट्या परिशुष्यति ।
नावृष्ट्या परिधिं धत्ते वारिणा दीप्यते रविः ॥ ११ ॥
वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसन्निभः ।
श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः ॥ १२ ॥
हेमन्ते ताम्रवर्णाभः शिशिरे लोहितो रविः ।
इति वर्णाः समाख्याताः सूर्यस्य ऋतुसम्भवाः ॥ १३ ॥
ऋतुस्वभाववर्णैश् च सूर्यः क्षेमसुभिक्षकृत् ।
अथादित्यस्य नामानि सामान्यानि द्विजोत्तमाः ॥ १४ ॥
द्वादशैव पृथक्त्वेन तानि वक्ष्याम्य् अशेषतः ।
आदित्यः सविता सूर्यो मिहिरो ऽर्कः प्रभाकरः ॥ १५ ॥
मार्तण्डो भास्करो भानुश् चित्रभानुर् दिवाकरः ।
रविर् द्वादशभिस् तेषां ज्ञेयः सामान्यनामभिः ॥ १६ ॥
विष्णुर् धाता भगः पूषा मित्रेन्द्रौ वरुणो ऽर्यमा ।
विवस्वान् अंशुमांस् त्वष्टा पर्जन्यो द्वादशः स्मृतः ॥ १७ ॥
इत्य् एते द्वादशादित्याः पृथक्त्वेन व्यवस्थिताः ।
उत्तिष्ठन्ति सदा ह्य् एते मासैर् द्वादशभिः क्रमात् ॥ १८ ॥
विष्णुस् तपति चैत्रे तु वैशाखे चार्यमा तथा ।
विवस्वाञ् ज्येष्ठमासे तु आषाढे चांशुमान् स्मृतः ॥ १९ ॥
पर्जन्यः श्रावणे मासि वरुणः प्रौष्ठसञ्ज्ञके ।
इन्द्र आश्वयुजे मासि धाता तपति कार्त्तिके ॥ २० ॥
मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः ।
माघे भगस् तु विज्ञेयस् त्वष्टा तपति फाल्गुने ॥ २१ ॥
शतैर् द्वादशभिर् विष्णू रश्मिभिर् दीप्यते सदा ।
दीप्यते गोसहस्रेण शतैश् च त्रिभिर् अर्यमा ॥ २२ ॥
द्विःसप्तकैर् विवस्वांस् तु अंशुमान् पञ्चभिस् त्रिभिः ।
विवस्वान् इव पर्जन्यो वरुणश् चार्यमा तथा ॥ २३ ॥
मित्रवद् भगवांस् त्वष्टा सहस्रेण शतेन च ।
इन्द्रस् तु द्विगुणैः षड्भिर् धातैकादशभिः शतैः ॥ २४ ॥
सहस्रेण तु मित्रो वै पूषा तु नवभिः शतैः ।
उत्तरोपक्रमे ऽर्कस्य वर्धन्ते रश्मयस् तथा ॥ २५ ॥
दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः ।
एवं रश्मिसहस्रं तु सूर्यलोकाद् अनुग्रहम् ॥ २६ ॥
एवं नाम्नां चतुर्विंशद् एक एषां प्रकीर्तितः ।
विस्तरेण सहस्रं तु पुनर् अन्यत् प्रकीर्तितम् ॥ २७ ॥
मुनय ऊचुः-
ये तन्नामसहस्रेण स्तुवन्त्य् अर्कं प्रजापते ।
तेषां भवति किं पुण्यं गतिश् च परमेश्वर ॥ २८ ॥
ब्रह्मोवाच-
शृणुध्वं मुनिशार्दूलाः सारभूतं सनातनम् ।
अलं नामसहस्रेण पठन्न् एवं स्तवं शुभम् ॥ २९ ॥
यानि नामानि गुह्यानि पवित्राणि शुभानि च ।
तानि वः कीर्तयिष्यामि शृणुध्वं भास्करस्य वै ॥ ३० ॥
विकर्तनो विवस्वांश् च मार्तण्डो भास्करो रविः ।
लोकप्रकाशकः श्रीमांल् लोकचक्षुर् महेश्वरः ॥ ३१ ॥
लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा ।
तपनस् तापनश् चैव शुचिः सप्ताश्ववाहनः ॥ ३२ ॥
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ।
एकविंशति इत्य् एष स्तव इष्टः सदा रवेः ॥ ३३ ॥
शरीरारोग्यदश् चैव धनवृद्धियशस्करः ।
स्तवराज इति ख्यातस् त्रिषु लोकेषु विश्रुतः ॥ ३४ ॥
य एतेन द्विजश्रेष्ठा द्विसन्ध्ये ऽस्तमनोदये ।
स्तौति सूर्यं शुचिर् भूत्वा सर्वपापैः प्रमुच्यते ॥ ३५ ॥
मानसं वाचिकं वापि देहजं कर्मजं तथा ।
एकजप्येन तत् सर्वं नश्यत्य् अर्कस्य सन्निधौ ॥ ३६ ॥
एकजप्यश् च होमश् च सन्ध्योपासनम् एव च ।
धूपमन्त्रार्घ्यमन्त्रश् च बलिमन्त्रस् तथैव च ॥ ३७ ॥
अन्नप्रदाने दाने च प्रणिपाते प्रदक्षिणे ।
पूजितो ऽयं महामन्त्रः सर्वपापहरः शुभः ॥ ३८ ॥
तस्माद् यूयं प्रयत्नेन स्तवेनानेन वै द्विजाः ।
स्तुवीध्वं वरदं देवं सर्वकामफलप्रदम् ॥ ३९ ॥