Summary (SA)
Chapter 30- The sun as highest deity; his twelve-fold shape; Mitra’s instruction to Nārada
{{Ref- SS 73-76}}
मुनय ऊचुः-
अहो देवस्य माहात्म्यं श्रुतम् एवं जगत्पते ।
भास्करस्य सुरश्रेष्ठ वदतस् तेषु दुर्लभम् ॥ १ ॥
भूयः प्रब्रूहि देवेश यत् पृच्छामो जगत्पते ।
श्रोतुम् इच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ २ ॥
गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भिक्षुकः ।
य इच्छेन् मोक्षम् आस्थातुं देवतां कां यजेत सः ॥ ३ ॥
कुतो ह्य् अस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम् ।
स्वर्गतश् चैव किं कुर्याद् येन न च्यवते पुनः ॥ ४ ॥
देवानां चात्र को देवः पितॄणां चैव कः पिता ।
यस्मात् परतरं नास्ति तन् मे ब्रूहि सुरेश्वर ॥ ५ ॥
कुतः सृष्टम् इदं विश्वं सर्वं स्थावरजङ्गमम् ।
प्रलये च कम् अभ्येति तद् भवान् वक्तुम् अर्हति ॥ ६ ॥
ब्रह्मोवाच-
उद्यन्न् एवैष कुरुते जगद् वितिमिरं करैः ।
नातः परतरो देवः कश्चिद् अन्यो द्विजोत्तमाः ॥ ७ ॥
अनादिनिधनो ह्य् एष पुरुषः शाश्वतो ऽव्ययः ।
तापयत्य् एष त्रींल् लोकान् भवन् रश्मिभिर् उल्बणः ॥ ८ ॥
सर्वदेवमयो ह्य् एष तपतां तपनो वरः ।
सर्वस्य जगतो नाथः सर्वसाक्षी जगत्पतिः ॥ ९ ॥
सङ्क्षिपत्य् एष भूतानि तथा विसृजते पुनः ।
एष भाति तपत्य् एष वर्षत्य् एष गभस्तिभिः ॥ १० ॥
एष धाता विधाता च भूतादिर् भूतभावनः ।
न ह्य् एष क्षयम् आयाति नित्यम् अक्षयमण्डलः ॥ ११ ॥
पितॄणां च पिता ह्य् एष देवतानां हि देवता ।
ध्रुवं स्थानं स्मृतं ह्य् एतद् यस्मान् न च्यवते पुनः ॥ १२ ॥
सर्गकाले जगत् कृत्स्नम् आदित्यात् सम्प्रसूयते ।
प्रलये च तम् अभ्येति भास्करं दीप्ततेजसम् ॥ १३ ॥
योगिनश् चाप्य् असङ्ख्यातास् त्यक्त्वा गृहकलेवरम् ।
वायुर् भूत्वा विशन्त्य् अस्मिंस् तेजोराशौ दिवाकरे ॥ १४ ॥
अस्य रश्मिसहस्राणि शाखा इव विहङ्गमाः ।
वसन्त्य् आश्रित्य मुनयः संसिद्धा दैवतैः सह ॥ १५ ॥
गृहस्था जनकाद्याश् च राजानो योगधर्मिणः ।
वालखिल्यादयश् चैव ऋषयो ब्रह्मवादिनः ॥ १६ ॥
वानप्रस्थाश् च ये चान्ये व्यासाद्या भिक्षवस् तथा ।
योगम् आस्थाय सर्वे ते प्रविष्टाः सूर्यमण्डलम् ॥ १७ ॥
शुको व्याससुतः श्रीमान् योगधर्मम् अवाप्य सः ।
आदित्यकिरणान् गत्वा ह्य् अपुनर्भावम् आस्थितः ॥ १८ ॥
शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः ।
प्रत्यक्षो ऽयं परो देवः सूर्यस् तिमिरनाशनः ॥ १९ ॥
तस्माद् अन्यत्र भक्तिर् हि न कार्या शुभम् इच्छता ।
यस्माद् दृष्टेर् अगम्यास् ते देवा विष्णुपुरोगमाः ॥ २० ॥
अतो भवद्भिः सततम् अभ्यर्च्यो भगवान् रविः ।
स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥ २१ ॥
अनाद्यो लोकनाथो ऽसौ रश्मिमाली जगत्पतिः ।
मित्रत्वे च स्थितो यस्मात् तपस् तेपे द्विजोत्तमाः ॥ २२ ॥
अनादिनिधनो ब्रह्मा नित्यश् चाक्षय एव च ।
सृष्ट्वा ससागरान् द्वीपान् भुवनानि चतुर्दश ॥ २३ ॥
लोकानां स हितार्थाय स्थितश् चन्द्रसरित्तटे ।
सृष्ट्वा प्रजापतीन् सर्वान् सृष्ट्वा च विविधाः प्रजाः ॥ २४ ॥
ततः शतसहस्रांशुर् अव्यक्तश् च पुनः स्वयम् ।
कृत्वा द्वादशधात्मानम् आदित्यम् उपपद्यते ॥ २५ ॥
इन्द्रो धाताथ पर्जन्यस् त्वष्टा पूषार्यमा भगः ।
विवस्वान् विष्णुर् अंशश् च वरुणो मित्र एव च ॥ २६ ॥
आभिर् द्वादशभिस् तेन सूर्येण परमात्मना ।
कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश् च द्विजोत्तमाः ॥ २७ ॥
तस्य या प्रथमा मूर्तिर् आदित्यस्येन्द्रसञ्ज्ञिता ।
स्थिता सा देवराजत्वे देवानां रिपुनाशिनी ॥ २८ ॥
द्वितीया तस्य या मूर्तिर् नाम्ना धातेति कीर्तिता ।
स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः ॥ २९ ॥
तृतीयार्कस्य या मूर्तिः पर्जन्य इति विश्रुता ।
मेघेष्व् एव स्थिता सा तु वर्षते च गभस्तिभिः ॥ ३० ॥
चतुर्थी तस्य या मूर्तिर् नाम्ना त्वष्टेति विश्रुता ।
स्थिता वनस्पतौ सा तु ओषधीषु च सर्वतः ॥ ३१ ॥
पञ्चमी तस्य या मूर्तिर् नाम्ना पूषेति विश्रुता ।
अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ ३२ ॥
मूर्तिः षष्ठी रवेर् या तु अर्यमा इति विश्रुता ।
वायोः संसरणा सा तु देवेष्व् एव समाश्रिता ॥ ३३ ॥
भानोर् या सप्तमी मूर्तिर् नाम्ना भगेति विश्रुता ।
भूयिष्व् अवस्थिता सा तु शरीरेषु च देहिनाम् ॥ ३४ ॥
मूर्तिर् या त्व् अष्टमी तस्य विवस्वान् इति विश्रुता ।
अग्नौ प्रतिष्ठिता सा तु पचत्य् अन्नं शरीरिणाम् ॥ ३५ ॥
नवमी चित्रभानोर् या मूर्तिर् विष्णुश् च नामतः ।
प्रादुर्भवति सा नित्यं देवानाम् अरिसूदनी ॥ ३६ ॥
दशमी तस्य या मूर्तिर् अंशुमान् इति विश्रुता ।
वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः ॥ ३७ ॥
मूर्तिस् त्व् एकादशी भानोर् नाम्ना वरुणसञ्ज्ञिता ।
जलेष्व् अवस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ ३८ ॥
मूर्तिर् या द्वादशी भानोर् नाम्ना मित्रेति सञ्ज्ञिता ।
लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे ॥ ३९ ॥
वायुभक्षस् तपस् तेपे स्थित्वा मैत्रेण चक्षुषा ।
अनुगृह्णन् सदा भक्तान् वरैर् नानाविधैस् तु सः ॥ ४० ॥
एवं सा जगतां मूर्तिर् हिता विहिता पुरा ।
तत्र मित्रः स्थितो यस्मात् तस्मान् मित्रं परं स्मृतम् ॥ ४१ ॥
आभिर् द्वादशभिस् तेन सवित्रा परमात्मना ।
कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश् च द्विजोत्तमाः ॥ ४२ ॥
तस्माद् ध्येयो नमस्यश् च द्वादशस्थासु मूर्तिषु ।
भक्तिमद्भिर् नरैर् नित्यं तद्गतेनान्तरात्मना ॥ ४३ ॥
इत्य् एवं द्वादशादित्यान् नमस्कृत्वा तु मानवः ।
नित्यं श्रुत्वा पठित्वा च सूर्यलोके महीयते ॥ ४४ ॥
मुनय ऊचुः-
यदि तावद् अयं सूर्यश् चादिदेवः सनातनः ।
ततः कस्मात् तपस् तेपे वरेप्सुः प्राकृतो यथा ॥ ४५ ॥
ब्रह्मोवाच-
एतद् वः सम्प्रवक्ष्यामि परं गुह्यं विभावसोः ।
पृष्टं मित्रेण यत् पूर्वं नारदाय महात्मने ॥ ४६ ॥
प्राङ् मयोक्तास् तु युष्मभ्यं रवेर् द्वादश मूर्तयः ।
मित्रश् च वरुणश् चोभौ तासां तपसि संस्थितौ ॥ ४७ ॥
अब्भक्षो वरुणस् तासां तस्थौ पश्चिमसागरे ।
मित्रो मित्रवने चास्मिन् वायुभक्षो ऽभवत् तदा ॥ ४८ ॥
अथ मेरुगिरेः शृङ्गात् प्रच्युतो गन्धमादनात् ।
नारदस् तु महायोगी सर्वांल् लोकांश् चरन् वशी ॥ ४९ ॥
आजगामाथ तत्रैव यत्र मित्रो ऽचरत् तपः ।
तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्य् अभूत् ॥ ५० ॥
यो ऽक्षयश् चाव्ययश् चैव व्यक्ताव्यक्तः सनातनः ।
धृतम् एकात्मकं येन त्रैलोक्यं सुमहात्मना ॥ ५१ ॥
यः पिता सर्वदेवानां पराणाम् अपि यः परः ।
अयजद् देवताः कास् तु पितॄन् वा कान् असौ यजेत् ।
इति सञ्चिन्त्य मनसा तं देवं नारदो ऽब्रवीत् ॥ ५२ ॥
नारद उवाच-
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे ।
त्वम् अजः शाश्वतो धाता त्वं निधानम् अनुत्तमम् ॥ ५३ ॥
भूतं भव्यं भवच् चैव त्वयि सर्वं प्रतिष्ठितम् ।
चत्वारश् चाश्रमा देव गृहस्थाद्यास् तथैव हि ॥ ५४ ॥
यजन्ति त्वाम् अहरहस् त्वां मूर्तित्वं समाश्रितम् ।
पिता माता च सर्वस्य दैवतं त्वं हि शाश्वतम् ॥ ५५ ॥
यजसे पितरं कं त्वं देवं वापि न विद्महे ॥ ५६ ॥
मित्र उवाच-
अवाच्यम् एतद् वक्तव्यं परं गुह्यं सनातनम् ।
त्वयि भक्तिमति ब्रह्मन् प्रवक्ष्यामि यथातथम् ॥ ५७ ॥
यत् तत् सूक्ष्मम् अविज्ञेयम् अव्यक्तम् अचलं ध्रुवम् ।
इन्द्रियैर् इन्द्रियार्थैश् च सर्वभूतैर् विवर्जितम् ॥ ५८ ॥
स ह्य् अन्तरात्मा भूतानां क्षेत्रज्ञश् चैव कथ्यते ।
त्रिगुणाद् व्यतिरिक्तो ऽसौ पुरुषश् चैव कल्पितः ॥ ५९ ॥
हिरण्यगर्भो भगवान् सैव बुद्धिर् इति स्मृतः ।
महान् इति च योगेषु प्रधानम् इति कथ्यते ॥ ६० ॥
साङ्ख्ये च कथ्यते योगे नामभिर् बहुधात्मकः ।
स च त्रिरूपो विश्वात्मा शर्वो ऽक्षर इति स्मृतः ॥ ६१ ॥
धृतम् एकात्मकं तेन त्रैलोक्यम् इदम् आत्मना ।
अशरीरः शरीरेषु सर्वेषु निवसत्य् असौ ॥ ६२ ॥
वसन्न् अपि शरीरेषु न स लिप्येत कर्मभिः ।
ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः ॥ ६३ ॥
सर्वेषां साक्षिभूतो ऽसौ न ग्राह्यः केनचित् क्वचित् ।
सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्य् असौ स्मृतः ॥ ६४ ॥
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ।
सर्वतःश्रुतिमांल् लोके सर्वम् आवृत्य तिष्ठति ॥ ६५ ॥
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः ।
एकश् चरति वै क्षेत्रे स्वैरचारी यथासुखम् ॥ ६६ ॥
क्षेत्राणीह शरीराणि तेषां चैव यथासुखम् ।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ ६७ ॥
अव्यक्ते च पुरे शेते पुरुषस् तेन चोच्यते ।
विश्वं बहुविधं ज्ञेयं स च सर्वत्र उच्यते ॥ ६८ ॥
तस्मात् स बहुरूपत्वाद् विश्वरूप इति स्मृतः ।
तस्यैकस्य महत्त्वं हि स चैकः पुरुषः स्मृतः ॥ ६९ ॥
महापुरुषशब्दं हि बिभर्त्य् एकः सनातनः ।
स तु विधिक्रियायत्तः सृजत्य् आत्मानम् आत्मना ॥ ७० ॥
शतधा सहस्रधा चैव तथा शतसहस्रधा ।
कोटिशश् च करोत्य् एष प्रत्यगात्मानम् आत्मना ॥ ७१ ॥
आकाशात् पतितं तोयं याति स्वाद्वन्तरं यथा ।
भूमे रसविशेषेण तथा गुणरसात् तु सः ॥ ७२ ॥
एक एव यथा वायुर् देहेष्व् एव हि पञ्चधा ।
एकत्वं च पृथक्त्वं च तथा तस्य न संशयः ॥ ७३ ॥
स्थानान्तरविशेषाच् च यथाग्निर् लभते पराम् ।
सञ्ज्ञां तथा मुने सो ऽयं ब्रह्मादिषु तथाप्नुयात् ॥ ७४ ॥
यथा दीपसहस्राणि दीप एकः प्रसूयते ।
तथा रूपसहस्राणि स एकः सम्प्रसूयते ॥ ७५ ॥
यदा स बुध्यत्य् आत्मानं तदा भवति केवलः ।
एकत्वप्रलये चास्य बहुत्वं च प्रवर्तते ॥ ७६ ॥
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
अक्षयश् चाप्रमेयश् च सर्वगश् च स उच्यते ॥ ७७ ॥
तस्माद् अव्यक्तम् उत्पन्नं त्रिगुणं द्विजसत्तमाः ।
अव्यक्ताव्यक्तभावस्था या सा प्रकृतिर् उच्यते ॥ ७८ ॥
तां योनिं ब्रह्मणो विद्धि यो ऽसौ सदसदात्मकः ।
लोके च पूज्यते यो ऽसौ दैवे पित्र्ये च कर्मणि ॥ ७९ ॥
नास्ति तस्मात् परो ह्य् अन्यः पिता देवो ऽपि वा द्विजाः ।
आत्मना स तु विज्ञेयस् ततस् तं पूजयाम्य् अहम् ॥ ८० ॥
स्वर्गेष्व् अपि हि ये केचित् तं नमस्यन्ति देहिनः ।
तेन गच्छन्ति देवर्षे तेनोद्दिष्टफलां गतिम् ॥ ८१ ॥
तं देवाः स्वाश्रमस्थाश् च नानामूर्तिसमाश्रिताः ।
भक्त्या सम्पूजयन्त्य् आद्यं गतिश् चैषां ददाति सः ॥ ८२ ॥
स हि सर्वगतश् चैव निर्गुणश् चैव कथ्यते ।
एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम् ॥ ८३ ॥
ये च तद्भाविता लोक एकतत्त्वं समाश्रिताः ।
एतद् अप्य् अधिकं तेषां यद् एकं प्रविशन्त्य् उत ॥ ८४ ॥
इति गुह्यसमुद्देशस् तव नारद कीर्तितः ।
अस्मद्भक्त्यापि देवर्षे त्वयापि परमं स्मृतम् ॥ ८५ ॥
सुरैर् वा मुनिभिर् वापि पुराणैर् वरदं स्मृतम् ।
सर्वे च परमात्मानं पूजयन्ति दिवाकरम् ॥ ८६ ॥
ब्रह्मोवाच-
एवम् एतत् पुराख्यातं नारदाय तु भानुना ।
मयापि च समाख्याता कथा भानोर् द्विजोत्तमाः ॥ ८७ ॥
इदम् आख्यानम् आख्येयं मयाख्यातं द्विजोत्तमाः ।
न ह्य् अनादित्यभक्ताय इदं देयं कदाचन ॥ ८८ ॥
यश् चैतच् छ्रावयेन् नित्यं यश् चैव शृणुयान् नरः ।
स सहस्रार्चिषं देवं प्रविशेन् नात्र संशयः ॥ ८९ ॥
मुच्येतार्तस् तथा रोगाच् छ्रुत्वेमाम् आदितः कथाम् ।
जिज्ञासुर् लभते ज्ञानं गतिम् इष्टां तथैव च ॥ ९० ॥
क्षणेन लभते ऽध्वानम् इदं यः पठते मुने ।
यो यं कामयते कामं स तं प्राप्नोत्य् असंशयम् ॥ ९१ ॥
तस्माद् भवद्भिः सततं स्मर्तव्यो भगवान् रविः ।
स च धाता विधाता च सर्वस्य जगतः प्रभुः ॥ ९२ ॥