Summary (SA)
Chapter 29- On worship of the sun
{{Ref- SS 71-73}}
मुनय ऊचुः-
श्रुतो ऽस्माभिः सुरश्रेष्ठ भवता यद् उदाहृतम् ।
भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम् ॥ १ ॥
न तृप्तिम् अधिगच्छामः शृण्वन्तः सुखदां कथाम् ।
तव वक्त्रोद्भवां पुण्याम् आदित्यस्याघनाशिनीम् ॥ २ ॥
अतः परं सुरश्रेष्ठ ब्रूहि नो वदतां वर ।
देवपूजाफलं यच् च यच् च दानफलं प्रभो ॥ ३ ॥
प्रणिपाते नमस्कारे तथा चैव प्रदक्षिणे ।
दीपधूपप्रदाने च सम्मार्जनविधौ च यत् ॥ ४ ॥
उपवासे च यत् पुण्यं यत् पुण्यं नक्तभोजने ।
अर्घश् च कीदृशः प्रोक्तः कुत्र वा सम्प्रदीयते ॥ ५ ॥
कथं च क्रियते भक्तिः कथं देवः प्रसीदति ।
एतत् सर्वं सुरश्रेष्ठ श्रोतुम् इच्छामहे वयम् ॥ ६ ॥
ब्रह्मोवाच-
अर्घ्यं पूजादिकं सर्वं भास्करस्य द्विजोत्तमाः ।
भक्तिं श्रद्धां समाधिं च कथ्यमानं निबोधत ॥ ७ ॥
मनसा भावना भक्तिर् इष्टा श्रद्धा च कीर्त्यते ।
ध्यानं समाधिर् इत्य् उक्तं शृणुध्वं सुसमाहिताः ॥ ८ ॥
तत्कथां श्रावयेद् यस् तु तद्भक्तान् पूजयीत वा ।
अग्निशुश्रूषकश् चैव स वै भक्तः सनातनः ॥ ९ ॥
तच्चित्तस् तन्मनाश् चैव देवपूजारतः सदा ।
तत्कर्मकृद् भवेद् यस् तु स वै भक्तः सनातनः ॥ १० ॥
देवार्थे क्रियमाणानि यः कर्माण्य् अनुमन्यते ।
कीर्तनाद् वा परो विप्राः स वै भक्ततरो नरः ॥ ११ ॥
नाभ्यसूयेत तद्भक्तान् न निन्द्याच् चान्यदेवताम् ।
आदित्यव्रतचारी च स वै भक्ततरो नरः ॥ १२ ॥
गच्छंस् तिष्ठन् स्वपञ् जिघ्रन्न् उन्मिषन् निमिषन्न् अपि ।
यः स्मरेद् भास्करं नित्यं स वै भक्ततरो नरः ॥ १३ ॥
एवंविधा त्व् इयं भक्तिः सदा कार्या विजानता ।
भक्त्या समाधिना चैव स्तवेन मनसा तथा ॥ १४ ॥
क्रियते नियमो यस् तु दानं विप्राय दीयते ।
प्रतिगृह्णन्ति तं देवा मनुष्याः पितरस् तथा ॥ १५ ॥
पत्त्रं पुष्पं फलं तोयं यद् भक्त्या समुपाहृतम् ।
प्रतिगृह्णन्ति तद् देवा नास्तिकान् वर्जयन्ति च ॥ १६ ॥
भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता ।
भावशुद्ध्या क्रियते यत् तत् सर्वं सफलं भवेत् ॥ १७ ॥
स्तुतिजप्योपहारेण पूजयापि विवस्वतः ।
उपवासेन भक्त्या वै सर्वपापैः प्रमुच्यते ॥ १८ ॥
प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः ।
तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १९ ॥
भक्तियुक्तो नरो यो ऽसौ रवेः कुर्यात् प्रदक्षिणाम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ २० ॥
सूर्यं मनसि यः कृत्वा कुर्याद् व्योमप्रदक्षिणाम् ।
प्रदक्षिणीकृतास् तेन सर्वे देवा भवन्ति हि ॥ २१ ॥
एकाहारो नरो भूत्वा षष्ठ्यां यो ऽर्चयते रविम् ।
नियमव्रतचारी च भवेद् भक्तिसमन्वितः ॥ २२ ॥
सप्तम्यां वा महाभागाः सो ऽश्वमेधफलं लभेत् ।
अहोरात्रोपवासेन पूजयेद् यस् तु भास्करम् ॥ २३ ॥
सप्तम्याम् अथवा षष्ठ्यां स याति परमां गतिम् ।
कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः ॥ २४ ॥
सर्वरत्नोपहारेण पूजयेद् यस् तु भास्करम् ।
पद्मप्रभेण यानेन सूर्यलोकं स गच्छति ॥ २५ ॥
शुक्लपक्षस्य सप्तम्याम् उपवासपरो नरः ।
सर्वशुक्लोपहारेण पूजयेद् यस् तु भास्करम् ॥ २६ ॥
सर्वपापविनिर्मुक्तः सूर्यलोकं स गच्छति ।
अर्कसम्पुटसंयुक्तम् उदकं प्रसृतं पिबेत् ॥ २७ ॥
क्रमवृद्ध्या चतुर्विंशम् एकैकं क्षपयेत् पुनः ।
द्वाभ्यां संवत्सराभ्यां तु समाप्तनियमो भवेत् ॥ २८ ॥
सर्वकामप्रदा ह्य् एषा प्रशस्ता ह्य् अर्कसप्तमी ।
शुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत् ॥ २९ ॥
सप्तमी विजया नाम तत्र दत्तं महत् फलम् ।
स्नानं दानं तपो होम उपवासस् तथैव च ॥ ३० ॥
सर्वं विजयसप्तम्यां महापातकनाशनम् ।
ये चादित्यदिने प्राप्ते श्राद्धं कुर्वन्ति मानवाः ॥ ३१ ॥
यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम् ।
येषां धर्म्याः क्रियाः सर्वाः सदैवोद्दिश्य भास्करम् ॥ ३२ ॥
न कुले जायते तेषां दरिद्रो व्याधितो ऽपि वा ।
श्वेतया रक्तया वापि पीतमृत्तिकयापि वा ॥ ३३ ॥
उपलेपनकर्ता तु चिन्तितं लभते फलम् ।
चित्रभानुं विचित्रैस् तु कुसुमैश् च सुगन्धिभिः ॥ ३४ ॥
पूजयेत् सोपवासो यः स कामान् ईप्सितांल् लभेत् ।
घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः ॥ ३५ ॥
आदित्यं पूजयेद् यस् तु चक्षुषा न स हीयते ।
दीपदाता नरो नित्यं ज्ञानदीपेन दीप्यते ॥ ३६ ॥
तिलाः पवित्रं तैलं वा तिलगोदानम् उत्तमम् ।
अग्निकार्ये च दीपे च महापातकनाशनम् ॥ ३७ ॥
दीपं ददाति यो नित्यं देवतायतनेषु च ।
चतुष्पथेषु रथ्यासु रूपवान् सुभगो भवेत् ॥ ३८ ॥
हविर्भिः प्रथमः कल्पो द्वितीयश् चौषधीरसैः ।
वसामेदोस्थिनिर्यासैर् न तु देयः कथञ्चन ॥ ३९ ॥
भवेद् ऊर्ध्वगतिर् दीपो न कदाचिद् अधोगतिः ।
दाता दीप्यति चाप्य् एवं न तिर्यग्गतिम् आप्नुयात् ॥ ४० ॥
ज्वलमानं सदा दीपं न हरेन् नापि नाशयेत् ।
दीपहर्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत् ॥ ४१ ॥
दीपदाता स्वर्गलोके दीपमालेव राजते ।
यः समालभते नित्यं कुङ्कुमागुरुचन्दनैः ॥ ४२ ॥
सम्पद्यते नरः प्रेत्य धनेन यशसा श्रिया ।
रक्तचन्दनसम्मिश्रै रक्तपुष्पैः शुचिर् नरः ॥ ४३ ॥
उदये ऽर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल् लभेत् ।
उदयात् परिवर्तेत यावद् अस्तमने स्थितः ॥ ४४ ॥
जपन्न् अभिमुखः किञ्चिन् मन्त्रं स्तोत्रम् अथापि वा ।
आदित्यव्रतम् एतत् तु महापातकनाशनम् ॥ ४५ ॥
अर्घ्येण सहितं चैव सर्वे साङ्गं प्रदापयेत् ।
उदये श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ॥ ४६ ॥
सुवर्णधेनुअनड्वाहवसुधावस्त्रसंयुतम् ।
अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम् ॥ ४७ ॥
अग्नौ तोये ऽन्तरिक्षे च शुचौ भूम्यां तथैव च ।
प्रतिमायां तथा पिण्ड्यां देयम् अर्घ्यं प्रयत्नतः ॥ ४८ ॥
नापसव्यं न सव्यं च दद्याद् अभिमुखः सदा ।
सघृतं गुग्गुलं वापि रवेर् भक्तिसमन्वितः ॥ ४९ ॥
तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः ।
श्रीवासं चतुरस्रं च देवदारुं तथैव च ॥ ५० ॥
कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः ।
अयने तूत्तरे सूर्यम् अथवा दक्षिणायने ॥ ५१ ॥
पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते ।
विषुवेषूपरागेषु षडशीतिमुखेषु च ॥ ५२ ॥
पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते ।
एवं वेलासु सर्वासु सर्वकालं च मानवः ॥ ५३ ॥
भक्त्या पूजयते यो ऽर्कं सो ऽर्कलोके महीयते ।
कृसरैः पायसैः पूपैः फलमूलघृतौदनैः ॥ ५४ ॥
बलिं कृत्वा तु सूर्याय सर्वान् कामान् अवाप्नुयात् ।
घृतेन तर्पणं कृत्वा सर्वसिद्धो भवेन् नरः ॥ ५५ ॥
क्षीरेण तर्पणं कृत्वा मनस् तापैर् न युज्यते ।
दध्ना तु तर्पणं कृत्वा कार्यसिद्धिं लभेन् नरः ॥ ५६ ॥
स्नानार्थम् आहरेद् यस् तु जलं भानोः समाहितः ।
तीर्थेषु शुचितापन्नः स याति परमां गतिम् ॥ ५७ ॥
छत्त्रं ध्वजं वितानं वा पताकां चामराणि च ।
श्रद्धया भानवे दत्त्वा गतिम् इष्टाम् अवाप्नुयात् ॥ ५८ ॥
यद् यद् द्रव्यं नरो भक्त्या आदित्याय प्रयच्छति ।
तत् तस्य शतसाहस्रम् उत्पादयति भास्करः ॥ ५९ ॥
मानसं वाचिकं वापि कायजं यच् च दुष्कृतम् ।
सर्वं सूर्यप्रसादेन तद् अशेषं व्यपोहति ॥ ६० ॥
एकाहेनापि यद् भानोः पूजायाः प्राप्यते फलम् ।
यथोक्तदक्षिणैर् विप्रैर् न तत् क्रतुशतैर् अपि ॥ ६१ ॥