Summary (SA)
Chapter 28- Description of Oṇḍradeśa; on worship of the sun and of Rāmeśvara
{{Ref- SS 69-71}}
ब्रह्मोवाच-
तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः ।
ओण्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः ॥ १ ॥
समुद्राद् उत्तरं तावद् यावद् विरजमण्डलम् ।
देशो ऽसौ पुण्यशीलानां गुणैः सर्वैर् अलङ्कृतः ॥ २ ॥
तत्र देशप्रसूता ये ब्राह्मणाः संयतेन्द्रियाः ।
तपःस्वाध्यायनिरता वन्द्याः पूज्याश् च ते सदा ॥ ३ ॥
श्राद्धे दाने विवाहे च यज्ञे वाचार्यकर्मणि ।
प्रशस्ताः सर्वकार्येषु तत्रदेशोद्भवा द्विजाः ॥ ४ ॥
षट्कर्मनिरतास् तत्र ब्राह्मणा वेदपारगाः ।
इतिहासविदश् चैव पुराणार्थविशारदाः ॥ ५ ॥
सर्वशास्त्रार्थकुशला यज्वानो वीतमत्सराः ।
अग्निहोत्ररताः केचित् केचित् स्मार्ताग्नितत्पराः ॥ ६ ॥
पुत्रदारधनैर् युक्ता दातारः सत्यवादिनः ।
निवसन्त्य् उत्कले पुण्ये यज्ञोत्सवविभूषिते ॥ ७ ॥
इतरे ऽपि त्रयो वर्णाः क्षत्रियाद्याः सुसंयताः ।
स्वकर्मनिरताः शान्तास् तत्र तिष्ठन्ति धार्मिकाः ॥ ८ ॥
कोणादित्य इति ख्यातस् तस्मिन् देशे व्यवस्थितः ।
यं दृष्ट्वा भास्करं मर्त्यः सर्वपापैः प्रमुच्यते ॥ ९ ॥
मुनय ऊचुः-
श्रोतुम् इच्छाम तद् ब्रूहि क्षेत्रं सूर्यस्य साम्प्रतम् ।
तस्मिन् देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः ॥ १० ॥
ब्रह्मोवाच-
लवणस्योदधेस् तीरे पवित्रे सुमनोहरे ।
सर्वत्र वालुकाकीर्णे देशे सर्वगुणान्विते ॥ ११ ॥
चम्पकाशोकबकुलैः करवीरैः सपाटलैः ।
पुन्नागैः कर्णिकारैश् च बकुलैर् नागकेसरैः ॥ १२ ॥
तगरैर् धवबाणैश् च अतिमुक्तैः सकुब्जकैः ।
मालतीकुन्दपुष्पैश् च तथान्यैर् मल्लिकादिभिः ॥ १३ ॥
केतकीवनखण्डैश् च सर्वर्तुकुसुमोज्ज्वलैः ।
कदम्बैर् लकुचैः शालैः पनसैर् देवदारुभिः ॥ १४ ॥
सरलैर् मुचुकुन्दैश् च चन्दनैश् च सितेतरैः ।
अश्वत्थैः सप्तपर्णैश् च आम्रैर् आम्रातकैस् तथा ॥ १५ ॥
तालैः पूगफलैश् चैव नारिकेरैः कपित्थकैः ।
अन्यैश् च विविधैर् वृक्षैः सर्वतः समलङ्कृतम् ॥ १६ ॥
क्षेत्रं तत्र रवेः पुण्यम् आस्ते जगति विश्रुतम् ।
समन्ताद् योजनं साग्रं भुक्तिमुक्तिफलप्रदम् ॥ १७ ॥
आस्ते तत्र स्वयं देवः सहस्रांशुर् दिवाकरः ।
कोणादित्य इति ख्यातो भुक्तिमुक्तिफलप्रदः ॥ १८ ॥
माघे मासि सिते पक्षे सप्तम्यां संयतेन्द्रियः ।
कृतोपवासो यत्रेत्य स्नात्वा तु मकरालये ॥ १९ ॥
कृतशौचो विशुद्धात्मा स्मरन् देवं दिवाकरम् ।
सागरे विधिवत् स्नात्वा शर्वर्यन्ते समाहितः ॥ २० ॥
देवान् ऋषीन् मनुष्यांश् च पितॄन् सन्तर्प्य च द्विजाः ।
उत्तीर्य वाससी धौते परिधाय सुनिर्मले ॥ २१ ॥
आचम्य प्रयतो भूत्वा तीरे तस्य महोदधेः ।
उपविश्योदये काले प्राङ्मुखः सवितुस् तदा ॥ २२ ॥
विलिख्य पद्मं मेधावी रक्तचन्दनवारिणा ।
अष्टपत्त्रं केसराढ्यं वर्तुलं चोर्ध्वकर्णिकम् ॥ २३ ॥
तिलतण्डुलतोयं च रक्तचन्दनसंयुतम् ।
रक्तपुष्पं सदर्भं च प्रक्षिपेत् ताम्रभाजने ॥ २४ ॥
ताम्राभावे ऽर्कपत्त्रस्य पुटे कृत्वा तिलादिकम् ।
पिधाय तन् मुनिश्रेष्ठाः पात्रं पात्रेण विन्यसेत् ॥ २५ ॥
करन्यासाङ्गविन्यासं कृत्वाङ्गैर् हृदयादिभिः ।
आत्मानं भास्करं ध्यात्वा सम्यक् श्रद्धासमन्वितः ॥ २६ ॥
मध्ये चाग्निदले धीमान् नैरृते श्वसने दले ।
कामारिगोचरे चैव पुनर् मध्ये च पूजयेत् ॥ २७ ॥
प्रभूतं विमलं सारम् आराध्यं परमं सुखम् ।
सम्पूज्य पद्मम् आवाह्य गगनात् तत्र भास्करम् ॥ २८ ॥
कर्णिकोपरि संस्थाप्य ततो मुद्रां प्रदर्शयेत् ।
कृत्वा स्नानादिकं सर्वं ध्यात्वा तं सुसमाहितः ॥ २९ ॥
सितपद्मोपरि रविं तेजोबिम्बे व्यवस्थितम् ।
पिङ्गाक्षं द्विभुजं रक्तं पद्मपत्त्रारुणाम्बरम् ॥ ३० ॥
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ।
सुरूपं वरदं शान्तं प्रभामण्डलमण्डितम् ॥ ३१ ॥
उद्यन्तं भास्करं दृष्ट्वा सान्द्रसिन्दूरसन्निभम् ।
ततस् तत् पात्रम् आदाय जानुभ्यां धरणीं गतः ॥ ३२ ॥
कृत्वा शिरसि तत् पात्रम् एकचित्तस् तु वाग्यतः ।
त्र्यक्षरेण तु मन्त्रेण सूर्यायार्घ्यं निवेदयेत् ॥ ३३ ॥
अदीक्षितस् तु तस्यैव नाम्नैवार्घं प्रयच्छति ।
श्रद्धया भावयुक्तेन भक्तिग्राह्यो रविर् यतः ॥ ३४ ॥
अग्निनिरृतिवाय्वीशमध्यपूर्वादिदिक्षु च ।
हृच् छिरश् च शिखावर्मनेत्राण्य् अस्त्रं च पूजयेत् ॥ ३५ ॥
दत्त्वार्घ्यं गन्धधूपं च दीपं नैवेद्यम् एव च ।
जप्त्वा स्तुत्वा नमस् कृत्वा मुद्रां बद्ध्वा विसर्जयेत् ॥ ३६ ॥
ये वार्घ्यं सम्प्रयच्छन्ति सूर्याय नियतेन्द्रियाः ।
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश् च संयताः ॥ ३७ ॥
भक्तिभावेन सततं विशुद्धेनान्तरात्मना ।
ते भुक्त्वाभिमतान् कामान् प्राप्नुवन्ति परां गतिम् ॥ ३८ ॥
त्रैलोक्यदीपकं देवं भास्करं गगनेचरम् ।
ये संश्रयन्ति मनुजास् ते स्युः सुखस्य भाजनम् ॥ ३९ ॥
यावन् न दीयते चार्घ्यं भास्कराय यथोदितम् ।
तावन् न पूजयेद् विष्णुं शङ्करं वा सुरेश्वरम् ॥ ४० ॥
तस्मात् प्रयत्नम् आस्थाय दद्याद् अर्घ्यं दिने दिने ।
आदित्याय शुचिर् भूत्वा पुष्पैर् गन्धैर् मनोरमैः ॥ ४१ ॥
एवं ददाति यश् चार्घ्यं सप्तम्यां सुसमाहितः ।
आदित्याय शुचिः स्नातः स लभेद् ईप्सितं फलम् ॥ ४२ ॥
रोगाद् विमुच्यते रोगी वित्तार्थी लभते धनम् ।
विद्यां प्राप्नोति विद्यार्थी सुतार्थी पुत्रवान् भवेत् ॥ ४३ ॥
यं यं कामम् अभिध्यायन् सूर्यायार्घ्यं प्रयच्छति ।
तस्य तस्य फलं सम्यक् प्राप्नोति पुरुषः सुधीः ॥ ४४ ॥
स्नात्वा वै सागरे दत्त्वा सूर्यायार्घ्यं प्रणम्य च ।
नरो वा यदि वा नारी सर्वकामफलं लभेत् ॥ ४५ ॥
ततः सूर्यालयं गच्छेत् पुष्पम् आदाय वाग्यतः ।
प्रविश्य पूजयेद् भानुं कृत्वा तु त्रिः प्रदक्षिणम् ॥ ४६ ॥
पूजयेत् परया भक्त्या कोणार्कं मुनिसत्तमाः ।
गन्धैः पुष्पैस् तथा दीपैर् धूपैर् नैवेद्यकैर् अपि ॥ ४७ ॥
दण्डवत् प्रणिपातैश् च जयशब्दैस् तथा स्तवैः ।
एवं सम्पूज्य तं देवं सहस्रांशुं जगत्पतिम् ॥ ४८ ॥
दशानाम् अश्वमेधानां फलं प्राप्नोति मानवः ।
सर्वपापविनिर्मुक्तो युवा दिव्यवपुर् नरः ॥ ४९ ॥
सप्तावरान् सप्त परान् वंशान् उद्धृत्य भो द्विजाः ।
विमानेनार्कवर्णेन कामगेन सुवर्चसा ॥ ५० ॥
उपगीयमानो गन्धर्वैः सूर्यलोकं स गच्छति ।
भुक्त्वा तत्र वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ ५१ ॥
पुण्यक्षयाद् इहायातः प्रवरे योगिनां कुले ।
चतुर्वेदो भवेद् विप्रः स्वधर्मनिरतः शुचिः ॥ ५२ ॥
योगं विवस्वतः प्राप्य ततो मोक्षम् अवाप्नुयात् ।
चैत्रे मासि सिते पक्षे यात्रां दमनभञ्जिकाम् ॥ ५३ ॥
यः करोति नरस् तत्र पूर्वोक्तं स फलं लभेत् ।
शयनोत्थापने भानोः सङ्क्रान्त्यां विषुवायने ॥ ५४ ॥
वारे रवेस् तिथौ चैव पर्वकाले ऽथवा द्विजाः ।
ये तत्र यात्रां कुर्वन्ति श्रद्धया संयतेन्द्रियाः ॥ ५५ ॥
विमानेनार्कवर्णेन सूर्यलोकं व्रजन्ति ते ।
आस्ते तत्र महादेवस् तीरे नदनदीपतेः ॥ ५६ ॥
रामेश्वर इति ख्यातः सर्वकामफलप्रदः ।
ये तं पश्यन्ति कामारिं स्नात्वा सम्यङ् महोदधौ ॥ ५७ ॥
गन्धैः पुष्पैस् तथा धूपैर् दीपैर् नैवेद्यकैर् वरैः ।
प्रणिपातैस् तथा स्तोत्रैर् गीतैर् वाद्यैर् मनोहरैः ॥ ५८ ॥
राजसूयफलं सम्यग् वाजिमेधफलं तथा ।
प्राप्नुवन्ति महात्मानः संसिद्धिं परमां तथा ॥ ५९ ॥
कामगेन विमानेन किङ्किणीजालमालिना ।
उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते ॥ ६० ॥
आहूतसम्प्लवं यावद् भुक्त्वा भोगान् मनोरमान् ।
पुण्यक्षयाद् इहागत्य चातुर्वेदा भवन्ति ते ॥ ६१ ॥
शाङ्करं योगम् आस्थाय ततो मोक्षं व्रजन्ति ते ।
यस् तत्र सवितुः क्षेत्रे प्राणांस् त्यजति मानवः ॥ ६२ ॥
स सूर्यलोकम् आस्थाय देववन् मोदते दिवि ।
पुनर् मानुषतां प्राप्य राजा भवति धार्मिकः ॥ ६३ ॥
योगं रवेः समासाद्य ततो मोक्षम् अवाप्नुयात् ।
एवं मया मुनिश्रेष्ठाः प्रोक्तं क्षेत्रं सुदुर्लभम् ॥ ६४ ॥
कोणार्कस्योदधेस् तीरे भुक्तिमुक्तिफलप्रदः ॥ ६५ ॥