Summary (SA)
Chapter 27- Description of Bhāratavarṣa
{{Ref- SS 66-69}}
ब्रह्मोवाच-
शृणुध्वं मुनयः सर्वे यद् वो वक्ष्यामि साम्प्रतम् ।
पुराणं वेदसम्बद्धं भुक्तिमुक्तिप्रदं शुभम् ॥ १ ॥
पृथिव्यां भारतं वर्षं कर्मभूमिर् उदाहृता ।
कर्मणः फलभूमिश् च स्वर्गं च नरकं तथा ॥ २ ॥
तस्मिन् वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः ।
अवश्यं फलम् आप्नोति अशुभस्य शुभस्य च ॥ ३ ॥
ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक् सुसंयताः ।
प्राप्नुवन्ति परां सिद्धिं तस्मिन् वर्षे न संशयः ॥ ४ ॥
धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः ।
प्राप्नोति पुरुषः सर्वं तस्मिन् वर्षे सुसंयतः ॥ ५ ॥
इन्द्राद्याश् च सुराः सर्वे तस्मिन् वर्षे द्विजोत्तमाः ।
कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे ॥ ६ ॥
अन्ये ऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः ।
तस्मिन् वर्षे बुधाः शान्ता वीतरागा विमत्सराः ॥ ७ ॥
ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः ।
ते ऽपि कृत्वा शुभं कर्म तस्मिन् वर्षे दिवं गताः ॥ ८ ॥
निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः ।
स्वर्गापवर्गफलदे तत् पश्यामः कदा वयम् ॥ ९ ॥
मुनय ऊचुः-
यद् एतद् भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् ।
पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम् ॥ १० ॥
ततः स्वर्गश् च मोक्षश् च मध्यमं तच् च गम्यते ।
न खल्व् अन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ ११ ॥
तस्माद् विस्तरतो ब्रह्मन्न् अस्माकं भारतं वद ।
यदि ते ऽस्ति दयास्मासु यथावस्थितिर् एव च ॥ १२ ॥
तस्माद् वर्षम् इदं नाथ ये वास्मिन् वर्षपर्वताः ।
भेदाश् च तस्य वर्षस्य ब्रूहि सर्वान् अशेषतः ॥ १३ ॥
ब्रह्मोवाच-
शृणुध्वं भारतं वर्षं नवभेदेन भो द्विजाः ।
समुद्रान्तरिता ज्ञेयास् ते समाश् च परस्परम् ॥ १४ ॥
इन्द्रद्वीपः कशेरुश् च ताम्रवर्णो गभस्तिमान् ।
नागद्वीपस् तथा सौम्यो गान्धर्वो वारुणस् तथा ॥ १५ ॥
अयं तु नवमस् तेषां द्वीपः सागरसंवृतः ।
योजनानां सहस्रं वै द्वीपो ऽयं दक्षिणोत्तरः ॥ १६ ॥
पूर्वे किराता यस्यासन् पश्चिमे यवनास् तथा ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चान्ते स्थिता द्विजाः ॥ १७ ॥
इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः ।
तेषां संव्यवहारश् च एभिः कर्मभिर् इष्यते ॥ १८ ॥
स्वर्गापवर्गहेतुश् च पुण्यं पापं च वै तथा ।
महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ॥ १९ ॥
विन्ध्यश् च पारियात्रश् च सप्तैवात्र कुलाचलाः ।
तेषां सहस्रशश् चान्ये भूधरा ये समीपगाः ॥ २० ॥
विस्तारोच्छ्रयिणो रम्या विपुलाश् चित्रसानवः ।
कोलाहलः स वैभ्राजो मन्दरो दर्दलाचलः ॥ २१ ॥
वातन्धयो वैद्युतश् च मैनाकः सुरसस् तथा ।
तुङ्गप्रस्थो नागगिरिर् गोधनः पाण्डराचलः ॥ २२ ॥
पुष्पगिरिर् वैजयन्तो रैवतो ऽर्बुद एव च ।
ऋष्यमूकः स गोमन्थः कृतशैलः कृताचलः ॥ २३ ॥
श्रीपार्वतश् चकोरश् च शतशो ऽन्ये च पर्वताः ।
तैर् विमिश्रा जनपदा म्लेच्छाद्याश् चैव भागशः ॥ २४ ॥
तैः पीयन्ते सरिच्छ्रेष्ठास् ता बुध्यध्वं द्विजोत्तमाः ।
गङ्गा सरस्वती सिन्धुश् चन्द्रभागा तथापरा ॥ २५ ॥
यमुना शतद्रुर् विपाशा वितस्तैरावती कुहूः ।
गोमती धूतपापा च बाहुदा च दृषद्वती ॥ २६ ॥
विपाशा देविका चक्षुर् निष्ठीवा गण्डकी तथा ।
कौशिकी चापगा चैव हिमवत्पादनिःसृताः ॥ २७ ॥
देवस्मृतिर् देववती वातघ्नी सिन्धुर् एव च ।
वेण्या तु चन्दना चैव सदानीरा मही तथा ॥ २८ ॥
चर्मण्वती वृषी चैव विदिशा वेदवत्य् अपि ।
सिप्रा ह्य् अवन्ती च तथा पारियात्रानुगाः स्मृताः ॥ २९ ॥
शोणा महानदी चैव नर्मदा सुरथा क्रिया ।
मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥ ३० ॥
चित्रोत्पला वेत्रवती करमोदा पिशाचिका ।
तथान्यातिलघुश्रोणी विपाप्मा शैवला नदी ॥ ३१ ॥
सधेरुजा शक्तिमती शकुनी त्रिदिवा क्रमुः ।
ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी ॥ ३२ ॥
सिप्रा पयोष्णी निर्विन्ध्या तापी चैव सरिद्वरा ।
वेणा वैतरणी चैव सिनीवाली कुमुद्वती ॥ ३३ ॥
तोया चैव महागौरी दुर्गा चान्तःशिला तथा ।
विन्ध्यपादप्रसूतास् ता नद्यः पुण्यजलाः शुभाः ॥ ३४ ॥
गोदावरी भीमरथी कृष्णवेणा तथापगा ।
तुङ्गभद्रा सुप्रयोगा तथान्या पापनाशिनी ॥ ३५ ॥
सह्यपादविनिष्क्रान्ता इत्य् एताः सरितां वराः ।
कृतमाला ताम्रपर्णी पुष्यजा प्रत्यलावती ॥ ३६ ॥
मलयाद्रिसमुद्भूताः पुण्याः शीतजलास् त्व् इमाः ।
पितृसोमर्षिकुल्या च वञ्जुला त्रिदिवा च या ॥ ३७ ॥
लाङ्गुलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः ।
सुविकाला कुमारी च मनूगा मन्दगामिनी ॥ ३८ ॥
क्षयापलासिनी चैव शुक्तिमत्प्रभवाः स्मृताः ।
सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ॥ ३९ ॥
विश्वस्य मातरः सर्वाः सर्वाः पापहराः स्मृताः ।
अन्याः सहस्रशः प्रोक्ताः क्षुद्रनद्यो द्विजोत्तमाः ॥ ४० ॥
प्रावृट्कालवहाः सन्ति सदाकालवहाश् च याः ।
मत्स्या मुकुटकुल्याश् च कुन्तलाः काशिकोशलाः ॥ ४१ ॥
अन्ध्रकाश् च कलिङ्गाश् च शमकाश् च वृकैः सह ।
मध्यदेशा जनपदाः प्रायशो ऽमी प्रकीर्तिताः ॥ ४२ ॥
सह्यस्य चोत्तरे यस् तु यत्र गोदावरी नदी ।
पृथिव्याम् अपि कृत्स्नायां स प्रदेशो मनोरमः ॥ ४३ ॥
गोवर्धनपुरं रम्यं भार्गवस्य महात्मनः ।
वाहीकराटधानाश् च सुतीराः कालतोयदाः ॥ ४४ ॥
अपरान्ताश् च शूद्राश् च वाह्लिकाश् च सकेरलाः ।
गान्धारा यवनाश् चैव सिन्धुसौवीरमद्रकाः ॥ ४५ ॥
शतद्रुहाः कलिङ्गाश् च पारदा हारभूषिकाः ।
माठराश् चैव कनकाः कैकेया दम्भमालिकाः ॥ ४६ ॥
क्षत्रियोपमदेशाश् च वैश्यशूद्रकुलानि च ।
काम्बोजाश् चैव विप्रेन्द्रा बर्बराश् च सलौकिकाः ॥ ४७ ॥
वीराश् चैव तुषाराश् च पह्लवाधायता नराः ।
आत्रेयाश् च भरद्वाजाः पुष्कलाश् च दशेरकाः ॥ ४८ ॥
लम्पकाः शुनशोकाश् च कुलिका जाङ्गलैः सह ।
औषध्यश् चलचन्द्रा च किरातानां च जातयः ॥ ४९ ॥
तोमरा हंसमार्गाश् च काश्मीराः करुणास् तथा ।
शूलिकाः कुहकाश् चैव मागधाश् च तथैव च ॥ ५० ॥
एते देशा उदीच्यास् तु प्राच्यान् देशान् निबोधत ।
अन्धा वामङ्कुराकाश् च वल्लकाश् च मखान्तकाः ॥ ५१ ॥
तथापरे ऽङ्गा वङ्गाश् च मलदा मालवर्तिकाः ।
भद्रतुङ्गाः प्रतिजया भार्याङ्गाश् चापमर्दकाः ॥ ५२ ॥
प्राग्ज्योतिषाश् च मद्राश् च विदेहास् ताम्रलिप्तकाः ।
मल्ला मगधका नन्दाः प्राच्या जनपदास् तथा ॥ ५३ ॥
अथापरे जनपदा दक्षिणापथवासिनः ।
पूर्णाश् च केवलाश् चैव गोलाङ्गूलास् तथैव च ॥ ५४ ॥
ऋषिका मुषिकाश् चैव कुमारा रामठाः शकाः ।
महाराष्ट्रा माहिषकाः कलिङ्गाश् चैव सर्वशः ॥ ५५ ॥
आभीराः सह वैशिक्या अटव्याः सरवाश् च ये ।
पुलिन्दाश् चैव मौलेया वैदर्भा दण्डकैः सह ॥ ५६ ॥
पौलिका मौलिकाश् चैव अश्मका भोजवर्धनाः ।
कौलिकाः कुन्तलाश् चैव दम्भका नीलकालकाः ॥ ५७ ॥
दाक्षिणात्यास् त्व् अमी देशा अपरान्तान् निबोधत ।
शूर्पारकाः कालिधना लोलास् तालकटैः सह ॥ ५८ ॥
इत्य् एते ह्य् अपरान्ताश् च शृणुध्वं विन्ध्यवासिनः ।
मलजाः कर्कशाश् चैव मेलकाश् चोलकैः सह ॥ ५९ ॥
उत्तमार्णा दशार्णाश् च भोजाः किष्किन्धकैः सह ।
तोषलाः कोशलाश् चैव त्रैपुरा वैदिशास् तथा ॥ ६० ॥
तुम्बुरास् तु चराश् चैव यवनाः पवनैः सह ।
अभया रुण्डिकेराश् च चर्चरा होत्रधर्तयः ॥ ६१ ॥
एते जनपदाः सर्वे तत्र विन्ध्यनिवासिनः ।
अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश् च ये ॥ ६२ ॥
नीहारास् तुषमार्गाश् च कुरवस् तुङ्गणाः खसाः ।
कर्णप्रावरणाश् चैव ऊर्णा दर्घाः सकुन्तकाः ॥ ६३ ॥
चित्रमार्गा मालवाश् च किरातास् तोमरैः सह ।
कृतत्रेतादिकश् चात्र चतुर्युगकृतो विधिः ॥ ६४ ॥
एवं तु भारतं वर्षं नवसंस्थानसंस्थितम् ।
दक्षिणे परतो यस्य पूर्वे चैव महोदधिः ॥ ६५ ॥
हिमवान् उत्तरेणास्य कार्मुकस्य यथा गुणः ।
तद् एतद् भारतं वर्षं सर्वबीजं द्विजोत्तमाः ॥ ६६ ॥
ब्रह्मत्वम् अमरेशत्वं देवत्वं मरुतां तथा ।
मृगयक्षाप्सरोयोनिं तद्वत् सर्पसरीसृपाः ॥ ६७ ॥
स्थावराणां च सर्वेषां मितो विप्राः शुभाशुभैः ।
प्रयान्ति कर्मभूर् विप्रा नान्या लोकेषु विद्यते ॥ ६८ ॥
देवानाम् अपि भो विप्राः सदैवैष मनोरथः ।
अपि मानुष्यम् आप्स्यामो देवत्वात् प्रच्युताः क्षितौ ॥ ६९ ॥
मनुष्यः कुरुते यत् तु तन् न शक्यं सुरासुरैः ।
तत्कर्मनिगडग्रस्तैस् तत्कर्मक्षपणोन्मुखैः ॥ ७० ॥
न भारतसमं वर्षं पृथिव्याम् अस्ति भो द्विजाः ।
यत्र विप्रादयो वर्णाः प्राप्नुवन्त्य् अभिवाञ्छितम् ॥ ७१ ॥
धन्यास् ते भारते वर्षे जायन्ते ये नरोत्तमाः ।
धर्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम् ॥ ७२ ॥
प्राप्यते यत्र तपसः फलं परमदुर्लभम् ।
सर्वदानफलं चैव सर्वयज्ञफलं तथा ॥ ७३ ॥
तीर्थयात्राफलं चैव गुरुसेवाफलं तथा ।
देवताराधनफलं स्वाध्यायस्य फलं द्विजाः ॥ ७४ ॥
यत्र देवाः सदा हृष्टा जन्म वाञ्छन्ति शोभनम् ।
नानाव्रतफलं चैव नानाशास्त्रफलं तथा ॥ ७५ ॥
अहिंसादिफलं सम्यक् फलं सर्वाभिवाञ्छितम् ।
ब्रह्मचर्यफलं चैव गार्हस्थ्येन च यत् फलम् ॥ ७६ ॥
यत् फलं वनवासेन सन्न्यासेन च यत् फलम् ।
इष्टापूर्तफलं चैव तथान्यच् छुभकर्मणाम् ॥ ७७ ॥
प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः ।
कः शक्नोति गुणान् वक्तुं भारतस्याखिलान् द्विजाः ॥ ७८ ॥
एवं सम्यङ् मया प्रोक्तं भारतं वर्षम् उत्तमम् ।
सर्वपापहरं पुण्यं धन्यं बुद्धिविवर्धनम् ॥ ७९ ॥
य इदं शृणुयान् नित्यं पठेद् वा नियतेन्द्रियः ।
सर्वपापैर् विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ८० ॥