Summary (SA)
Chapter 26- The dialogical setting for Brahman’s narration
{{Ref- SS 66}}
मुनय ऊचुः-
पृथिव्याम् उत्तमां भूमिं धर्मकामार्थमोक्षदाम् ।
तीर्थानाम् उत्तमं तीर्थं ब्रूहि नो वदतां वर ॥ १ ॥
लोमहर्षण उवाच-
इमं प्रश्नं मम गुरुं पप्रच्छुर् मुनयः पुरा ।
तम् अहं सम्प्रवक्ष्यामि यत् पृच्छध्वं द्विजोत्तमाः ॥ २ ॥
स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते ।
नानाद्रुमलताकीर्णे नानामृगगणैर् युते ॥ ३ ॥
पुन्नागैः कर्णिकारैश् च सरलैर् देवदारुभिः ।
शालैस् तालैस् तमालैश् च पनसैर् धवखादिरैः ॥ ४ ॥
पाटलाशोकबकुलैः करवीरैः सचम्पकैः ।
अन्यैश् च विविधैर् वृक्षैर् नानापुष्पोपशोभितैः ॥ ५ ॥
कुरुक्षेत्रे समासीनं व्यासं मतिमतां वरम् ।
महाभारतकर्तारं सर्वशास्त्रविशारदम् ॥ ६ ॥
अध्यात्मनिष्ठं सर्वज्ञं सर्वभूतहिते रतम् ।
पुराणागमवक्तारं वेदवेदाङ्गपारगम् ॥ ७ ॥
पराशरसुतं शान्तं पद्मपत्त्रायतेक्षणम् ।
द्रष्टुम् अभ्याययुः प्रीत्या मुनयः संशितव्रताः ॥ ८ ॥
कश्यपो जमदग्निश् च भरद्वाजो ऽथ गौतमः ।
वसिष्ठो जैमिनिर् धौम्यो मार्कण्डेयो ऽथ वाल्मिकिः ॥ ९ ॥
विश्वामित्रः शतानन्दो वात्स्यो गार्ग्यो ऽथ आसुरिः ।
सुमन्तुर् भार्गवो नाम कण्वो मेधातिथिर् गुरुः ॥ १० ॥
माण्डव्यश् च्यवनो धूम्रो ह्य् असितो देवलस् तथा ।
मौद्गल्यस् तृणयज्ञश् च पिप्पलादो ऽकृतव्रणः ॥ ११ ॥
संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस् तथा ।
शाण्डिल्यश् च विभाण्डश् च दुर्वासा लोमशस् तथा ॥ १२ ॥
नारदः पर्वतश् चैव वैशम्पायनगालवौ ।
भास्करिः पूरणः सूतः पुलस्त्यः कपिलस् तथा ॥ १३ ॥
उलूकः पुलहो वायुर् देवस्थानश् चतुर्भुजः ।
सनत्कुमारः पैलश् च कृष्णः कृष्णानुभौतिकः ॥ १४ ॥
एतैर् मुनिवरैश् चान्यैर् वृतः सत्यवतीसुतः ।
रराज स मुनिः श्रीमान् नक्षत्रैर् इव चन्द्रमाः ॥ १५ ॥
तान् आगतान् मुनीन् सर्वान् पूजयाम् आस वेदवित् ।
ते ऽपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम् ॥ १६ ॥
कथान्ते ते मुनिश्रेष्ठाः कृष्णं सत्यवतीसुतम् ।
पप्रच्छुः संशयं सर्वे तपोवननिवासिनः ॥ १७ ॥
मुनय ऊचुः-
मुने वेदांश् च शास्त्राणि पुराणागमभारतम् ।
भूतं भव्यं भविष्यं च सर्वं जानासि वाङ्मयम् ॥ १८ ॥
कष्टे ऽस्मिन् दुःखबहुले निःसारे भवसागरे ।
रागग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ १९ ॥
इन्द्रियावर्तकलिले दृष्टोर्मिशतसङ्कुले ।
मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे ॥ २० ॥
निमज्जज् जगद् आलोक्य निरालम्बम् अचेतनम् ।
पृच्छामस् त्वां महाभागं ब्रूहि नो मुनिसत्तम ॥ २१ ॥
श्रेयः किम् अत्र संसारे भैरवे लोमहर्षणे ।
उपदेशप्रदानेन लोकान् उद्धर्तुम् अर्हसि ॥ २२ ॥
दुर्लभं परमं क्षेत्रं वक्तुम् अर्हसि मोक्षदम् ।
पृथिव्यां कर्मभूमिं च श्रोतुम् इच्छामहे वयम् ॥ २३ ॥
कृत्वा किल नरः सम्यक् कर्म भूमौ यथोदितम् ।
प्राप्नोति परमां सिद्धिं नरकं च विकर्मतः ॥ २४ ॥
मोक्षक्षेत्रे तथा मोक्षं प्राप्नोति पुरुषः सुधीः ।
तस्माद् ब्रूहि महाप्राज्ञ यत् पृष्टो ऽसि द्विजोत्तम ॥ २५ ॥
श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम् ।
व्यासः प्रोवाच भगवान् भूतभव्यभविष्यवित् ॥ २६ ॥
व्यास उवाच-
शृणुध्वं मुनयः सर्वे वक्ष्यामि यदि पृच्छथ ।
यः संवादो ऽभवत् पूर्वम् ऋषीणां ब्रह्मणा सह ॥ २७ ॥
मेरुपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते ।
नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ॥ २८ ॥
नानापक्षिरुते रम्ये नानाप्रसवनाकुले ।
नानासत्त्वसमाकीर्णे नानाश्चर्यसमन्विते ॥ २९ ॥
नानावर्णशिलाकीर्णे नानाधातुविभूषिते ।
नानामुनिजनाकीर्णे नानाश्रमसमन्विते ॥ ३० ॥
तत्रासीनं जगन्नाथं जगद्योनिं चतुर्मुखम् ।
जगत्पतिं जगद्वन्द्यं जगदाधारम् ईश्वरम् ॥ ३१ ॥
देवदानवगन्धर्वैर् यक्षविद्याधरोरगैः ।
मुनिसिद्धाप्सरोभिश् च वृतम् अन्यैर् दिवालयैः ॥ ३२ ॥
केचित् स्तुवन्ति तं देवं केचिद् गायन्ति चाग्रतः ।
केचिद् वाद्यानि वाद्यन्ते केचिन् नृत्यन्ति चापरे ॥ ३३ ॥
एवं प्रमुदिते काले सर्वभूतसमागमे ।
नानाकुसुमगन्धाढ्ये दक्षिणानिलसेविते ॥ ३४ ॥
भृग्वाद्यास् तं तदा देवं प्रणिपत्य पितामहम् ।
इमम् अर्थम् ऋषिवराः पप्रच्छुः पितरं द्विजाः ॥ ३५ ॥
ऋषय ऊचुः-
भगवञ् श्रोतुम् इच्छामः कर्मभूमिं महीतले ।
वक्तुम् अर्हसि देवेश मोक्षक्षेत्रं च दुर्लभम् ॥ ३६ ॥
व्यास उवाच-
तेषां वचनम् आकर्ण्य प्राह ब्रह्मा सुरेश्वरः ।
पप्रच्छुस् ते यथा प्रश्नं तत् सर्वं मुनिसत्तमाः ॥ ३७ ॥