Summary (SA)
Chapter 25- Places of pilgrimage
{{Ref- SS 62-65}}
मुनय ऊचुः-
पृथिव्यां यानि तीर्थानि पुण्यान्य् आयतनानि च ।
वक्तुम् अर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः ॥ १ ॥
लोमहर्षण उवाच-
यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् ।
विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते ॥ २ ॥
मनो विशुद्धं पुरुषस्य तीर्थं ।
वाचां तथा चेन्द्रियनिग्रहश् च ।
एतानि तीर्थानि शरीरजानि ।
स्वर्गस्य मार्गं प्रतिबोधयन्ति ॥ ३ ॥
चित्तम् अन्तर्गतं दुष्टं तीर्थस्नानैर् न शुध्यति ।
शतशो ऽपि जलैर् धौतं सुराभाण्डम् इवाशुचि ॥ ४ ॥
न तीर्थानि न दानानि न व्रतानि न चाश्रमाः ।
दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम् ॥ ५ ॥
इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन् नरः ।
तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा ॥ ६ ॥
तस्माच् छृणुध्वं वक्ष्यामि तीर्थान्य् आयतनानि च ।
सङ्क्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै ॥ ७ ॥
विस्तरेण न शक्यन्ते वक्तुं वर्षशतैर् अपि ।
प्रथमं पुष्करं तीर्थं नैमिषारण्यम् एव च ॥ ८ ॥
प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः ।
धेनुकं चम्पकारण्यं सैन्धवारण्यम् एव च ॥ ९ ॥
पुण्यं च मगधारण्यं दण्डकारण्यम् एव च ।
गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा ॥ १० ॥
भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् ।
लोहाकुलं सकेदारं मन्दरारण्यम् एव च ॥ ११ ॥
महाबलं कोटितीर्थं सर्वपापहरं तथा ।
रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम् ॥ १२ ॥
योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा ।
तीर्थं कोकामुखं पुण्यं बदरीशैलम् एव च ॥ १३ ॥
सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा ।
कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा ॥ १४ ॥
धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम् ।
गङ्गाद्वारं पञ्चकूटं मध्यकेसरम् एव च ॥ १५ ॥
चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम् ।
दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकम् एव च ॥ १६ ॥
तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा ।
ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा ॥ १७ ॥
चतुःस्रोतश् चतुःशृङ्गं शैलं द्वादशधारकम् ।
मानसं स्थूलशृङ्गं च स्थूलदण्डं तथोर्वशी ॥ १८ ॥
लोकपालं मनुवरं सोमाह्वशैलम् एव च ।
सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम् ॥ १९ ॥
महास्रोतं कोटरकं पञ्चधारं त्रिधारकम् ।
सप्तधारैकधारं च तीर्थं चामरकण्टकम् ॥ २० ॥
शालग्रामं चक्रतीर्थं कोटिद्रुमम् अनुत्तमम् ।
बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा ॥ २१ ॥
शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा ।
अग्निप्रभं च पुन्नागं देवप्रभम् अनुत्तमम् ॥ २२ ॥
विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम् ।
सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा ॥ २३ ॥
तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा ।
मलव्यं गोप्रभावं च गोवरं वटमूलकम् ॥ २४ ॥
स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा ।
कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम् ॥ २५ ॥
गभस्तितीर्थं च तथा ययातिपतनं शुचि ।
कोटितीर्थं भद्रवटं महाकालवनं तथा ॥ २६ ॥
नर्मदातीर्थम् अपरं तीर्थवज्रं तथार्बुदम् ।
पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसङ्गमम् ॥ २७ ॥
तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम् ।
ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम् ॥ २८ ॥
शक्रतीर्थं पञ्चनदं रेणुकातीर्थम् एव च ।
पैतामहं च विमलं रुद्रपादं तथोत्तमम् ॥ २९ ॥
मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम् ।
यजनं याजनं चैव तथैव ब्रह्मवालुकम् ॥ ३० ॥
पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम् ।
दीर्घसत्त्रं हयपदं तीर्थं चानशनं तथा ॥ ३१ ॥
गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदम् एव च ।
वस्त्रापदं दारुवलं छायारोहणम् एव च ॥ ३२ ॥
सिद्धेश्वरं मित्रवलं कालिकाश्रमम् एव च ।
वटावटं भद्रवटं कौशाम्बी च दिवाकरम् ॥ ३३ ॥
द्वीपं सारस्वतं चैव विजयं कामदं तथा ।
रुद्रकोटिं सुमनसं तीर्थं सद्रावनामितम् ॥ ३४ ॥
स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम् ।
सततं पृथिवीसर्वं पारिप्लवपृथूदकौ ॥ ३५ ॥
दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम् ।
कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम् ॥ ३६ ॥
पुण्डरीकं सोमतीर्थं मुञ्जवटं तथोत्तमम् ।
बदरीवनम् आसीनं रत्नमूलकम् एव च ॥ ३७ ॥
लोकद्वारं पञ्चतीर्थं कपिलातीर्थम् एव च ।
सूर्यतीर्थं शङ्खिनी च गवां भवनम् एव च ॥ ३८ ॥
तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम् ।
कामेश्वरं मात्रितीर्थं तीर्थं शीतवनं तथा ॥ ३९ ॥
स्नानलोमापहं चैव माससंसरकं तथा ।
दशाश्वमेधं केदारं ब्रह्मोदुम्बरम् एव च ॥ ४० ॥
सप्तर्षिकुण्डं च तथा तीर्थं देव्याः सुजम्बुकम् ।
ईटास्पदं कोटिकूटं किन्दानं किञ्जपं तथा ॥ ४१ ॥
कारण्डवं चावेध्यं च त्रिविष्टपम् अथापरम् ।
पाणिषातं मिश्रकं च मधूवटमनोजवौ ॥ ४२ ॥
कौशिकी देवतीर्थं च तीर्थं च ऋणमोचनम् ।
दिव्यं च नृगधूमाख्यं तीर्थं विष्णुपदं तथा ॥ ४३ ॥
अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम् ।
श्रीकुञ्जं शालितीर्थं च नैमिषेयं च विश्रुतम् ॥ ४४ ॥
ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च ।
ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम् ॥ ४५ ॥
सौगन्धिकवनं चैव मणितीर्थं सरस्वती ।
ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम् ॥ ४६ ॥
त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम् ।
शाकम्भरी देवतीर्थं सुवर्णाख्यं किलं ह्रदम् ॥ ४७ ॥
क्षीरश्रवं विरूपाक्षं भृगुतीर्थं कुशोद्भवम् ।
ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतम् एव च ॥ ४८ ॥
कुब्जाम्बकं भद्रवटं वसिष्ठपदम् एव च ।
स्वर्गद्वारं प्रजाद्वारं कालिकाश्रमम् एव च ॥ ४९ ॥
रुद्रावर्तं सुगन्धाश्वं कपिलावनम् एव च ।
भद्रकर्णह्रदं चैव शङ्कुकर्णह्रदं तथा ॥ ५० ॥
सप्तसारस्वतं चैव तीर्थम् औशनसं तथा ।
कपालमोचनं चैव अवकीर्णं च काम्यकम् ॥ ५१ ॥
चतुःसामुद्रिकं चैव शतकिं च सहस्रिकम् ।
रेणुकं पञ्चवटकं विमोचनम् अथौजसम् ॥ ५२ ॥
स्थाणुतीर्थं कुरोस् तीर्थं स्वर्गद्वारं कुशध्वजम् ।
विश्वेश्वरं मानवकं कूपं नारायणाश्रयम् ॥ ५३ ॥
गङ्गाह्रदं वटं चैव बदरीपाटनं तथा ।
इन्द्रमार्गम् एकरात्रं क्षीरकावासम् एव च ॥ ५४ ॥
सोमतीर्थं दधीचं च श्रुततीर्थं च भो द्विजाः ।
कोटितीर्थस्थलीं चैव भद्रकालीह्रदं तथा ॥ ५५ ॥
अरुन्धतीवनं चैव ब्रह्मावर्तं तथोत्तमम् ।
अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा ॥ ५६ ॥
वीरं प्रमोक्षं सिन्धूत्थम् ऋष कुल्या सकृत्तिकम् ।
उर्वीसङ्क्रमणं चैव मायाविद्योद्भवं तथा ॥ ५७ ॥
महाश्रमो वैतसिकारूपं सुन्दरिकाश्रमम् ।
बाहुतीर्थं चारुनदीं विमलाशोकम् एव च ॥ ५८ ॥
तीर्थं पञ्चनदं चैव मार्कण्डेयस्य धीमतः ।
सोमतीर्थं सितोदं च तीर्थं मत्स्योदरीं तथा ॥ ५९ ॥
सूर्यप्रभं सूर्यतीर्थम् अशोकवनम् एव च ।
अरुणास्पदं कामदं च शुक्रतीर्थं सवालुकम् ॥ ६० ॥
पिशाचमोचनं चैव सुभद्राह्रदम् एव च ।
कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च ॥ ६१ ॥
ज्येष्ठस्थानह्रदं चैव पुण्यं ब्रह्मसरं तथा ।
जैगीषव्यगुहा चैव हरिकेशवनं तथा ॥ ६२ ॥
अजामुखसरं चैव घण्टाकर्णह्रदं तथा ।
पुण्डरीकह्रदं चैव वापी कर्कोटकस्य च ॥ ६३ ॥
सुवर्णस्योदपानं च श्वेततीर्थह्रदं तथा ।
कुण्डं घर्घरिकायाश् च श्यामकूपं च चन्द्रिका ॥ ६४ ॥
श्मशानस्तम्भकूपं च विनायकह्रदं तथा ।
कूपं सिन्धूद्भवं चैव पुण्यं ब्रह्मसरं तथा ॥ ६५ ॥
रुद्रावासं तथा तीर्थं नागतीर्थं पुलोमकम् ।
भक्तह्रदं क्षीरसरः प्रेताधारं कुमारकम् ॥ ६६ ॥
ब्रह्मावर्तं कुशावर्तं दधिकर्णोदपानकम् ।
शृङ्गतीर्थं महातीर्थं तीर्थश्रेष्ठा महानदी ॥ ६७ ॥
दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम् ।
दक्षिणं चोत्तरं चैव गोमयं रूपशीतिकम् ॥ ६८ ॥
कपिलाह्रदं गृध्रवटं सावित्रीह्रदम् एव च ।
प्रभासनं सीतवनं योनिद्वारं च धेनुकम् ॥ ६९ ॥
धन्यकं कोकिलाख्यं च मतङ्गह्रदम् एव च ।
पितृकूपं रुद्रतीर्थं शक्रतीर्थं सुमालिनम् ॥ ७० ॥
ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्रदं तथा ।
कौशिक्यं भरतं चैव तीर्थं ज्येष्ठालिका तथा ॥ ७१ ॥
विश्वेश्वरं कल्पसरः कन्यासंवेत्यम् एव च ।
निश्चीवा प्रभवश् चैव वसिष्ठाश्रमम् एव च ॥ ७२ ॥
देवकूटं च कूपं च वसिष्ठाश्रमम् एव च ।
वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिली ॥ ७३ ॥
कुमारधारा श्रीधारा गौरीशिखरम् एव च ।
शुनः कुण्डो ऽथ तीर्थं च नन्दितीर्थं तथैव च ॥ ७४ ॥
कुमारवासं श्रीवासम् और्वीशीतार्थम् एव च ।
कुम्भकर्णह्रदं चैव कौशिकीह्रदम् एव च ॥ ७५ ॥
धर्मतीर्थं कामतीर्थं तीर्थम् उद्दालकं तथा ।
सन्ध्यातीर्थं कारतोयं कपिलं लोहितार्णवम् ॥ ७६ ॥
शोणोद्भवं वंशगुल्मम् ऋषभं कलतीर्थकम् ।
पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम् ॥ ७७ ॥
रामतीर्थं पितृवनं विरजातीर्थम् एव च ।
मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम् ॥ ७८ ॥
रोहिणीकूपप्रवरम् इन्द्रद्युम्नसरं च यत् ।
सानुगर्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा ॥ ७९ ॥
इषुतीर्थं वार्षभं च कावेरीह्रदम् एव च ।
कन्यातीर्थं च गोकर्णं गायत्रीस्थानम् एव च ॥ ८० ॥
बदरीह्रदम् अन्यच् च मध्यस्थानं विकर्णकम् ।
जातीह्रदं देवकूपं कुशप्रवणम् एव च ॥ ८१ ॥
सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा ।
तथान्यद् वालखिल्यानां सपूर्वाणां तथापरम् ॥ ८२ ॥
तथान्यच् च महर्षीणाम् अखण्डितह्रदं तथा ।
तीर्थेष्व् एतेषु विधिवत् सम्यक् श्रद्धासमन्वितः ॥ ८३ ॥
स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रियः ।
देवान् ऋषीन् मनुष्यांश् च पितॄन् सन्तर्प्य च क्रमात् ॥ ८४ ॥
अभ्यर्च्य देवतास् तत्र स्थित्वा च रजनीत्रयम् ।
पृथक् पृथक् फलं तेषु प्रतितीर्थेषु भो द्विजाः ॥ ८५ ॥
प्राप्नोति हयमेधस्य नरो नास्त्य् अत्र संशयः ।
यस् त्व् इदं शृणुयान् नित्यं तीर्थमाहात्म्यम् उत्तमम् ।
पठेच् च श्रावयेद् वापि सर्वपापैः प्रमुच्यते ॥ ८६ ॥