024

Summary (SA)

Chapter 24- Nārāyaṇa as Śiśumāra and the cycle of water

{{Ref- SS 61-62}}

लोमहर्षण उवाच-

तारामयं भगवतः शिशुमाराकृति प्रभोः ।
दिवि रूपं हरेर् यत् तु तस्य पुच्छे स्थितो ध्रुवः ॥ १ ॥

सएष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् ।
भ्रमन्तम् अनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २ ॥

सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ।
वातानीकमयैर् बन्धैर् ध्रुवे बद्धानि तानि वै ॥ ३ ॥

शिशुमाराकृति प्रोक्तं यद् रूपं ज्योतिषां दिवि ।
नारायणः परं धाम तस्याधारः स्वयं हृदि ॥ ४ ॥

उत्तानपादतनयस् तम् आराध्य प्रजापतिम् ।
स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ ५ ॥

आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः ।
ध्रुवस्य शिशुमारश् च ध्रुवे भानुर् व्यवस्थितः ॥ ६ ॥

तद् आधारं जगच् चेदं सदेवासुरमानुषम् ।
येन विप्रा विधानेन तन् मे शृणुत साम्प्रतम् ॥ ७ ॥

विवस्वान् अष्टभिर् मासैर् ग्रसत्य् अपो रसात्मिकाः ।
वर्षत्य् अम्बु ततश् चान्नम् अन्नादम् अखिलं जगत् ॥ ८ ॥

विवस्वान् अंशुभिस् तीक्ष्णैर् आदाय जगतो जलम् ।
सोमं पुष्यत्य् अथेन्दुश् च वायुनाडीमयैर् दिवि ॥ ९ ॥

जलैर् विक्षिप्यते ऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ।
न भ्रश्यन्ति यतस् तेभ्यो जलान्य् अभ्राणि तान्य् अतः ॥ १० ॥

अभ्रस्थाः प्रपतन्त्य् आपो वायुना समुदीरिताः ।
संस्कारं कालजनितं विप्राश् चासाद्य निर्मलाः ॥ ११ ॥

सरित्समुद्रा भौमास् तु तथापः प्राणिसम्भवाः ।
चतुष्प्रकारा भगवान् आदत्ते सविता द्विजाः ॥ १२ ॥

आकाशगङ्गासलिलं तथाहृत्य गभस्तिमान् ।
अनभ्रगतम् एवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ १३ ॥

तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तमाः ।
न याति नरकं मर्त्यो दिव्यं स्नानं हि तत् स्मृतम् ॥ १४ ॥

दृष्टसूर्यं हि तद् वारि पतत्य् अभ्रैर् विना दिवः ।
आकाशगङ्गासलिलं तद् गोभिः क्षिप्यते रवेः ॥ १५ ॥

कृत्तिकादिषु ऋक्षेषु विषमेष्व् अम्बु यद् दिवः ।
दृष्ट्वार्कं पतितं ज्ञेयं तद् गाङ्गं दिग्गजोह्नितम् ॥ १६ ॥

युग्मर्क्षेषु तु यत् तोयं पतत्य् अर्कोद्गितं दिवः ।
तत् सूर्यरश्मिभिः सद्यः समादाय निरस्यते ॥ १७ ॥

उभयं पुण्यम् अत्यर्थं नृणां पापहरं द्विजाः ।
आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः ॥ १८ ॥

यत् तु मेघैः समुत्सृष्टं वारि तत् प्राणिनां द्विजाः ।
पुष्णात्य् ओषधयः सर्वा जीवनायामृतं हि तत् ॥ १९ ॥

तेन वृद्धिं परां नीतः सकलश् चौषधीगणः ।
साधकः फलपाकान्तः प्रजानां तु प्रजायते ॥ २० ॥

तेन यज्ञान् यथाप्रोक्तान् मानवाः शास्त्रचक्षुषः ।
कुर्वते ऽहरहश् चैव देवान् आप्याययन्ति ते ॥ २१ ॥

एवं यज्ञाश् च वेदाश् च वर्णाश् च द्विजपूर्वकाः ।
सर्वदेवनिकायाश् च पशुभूतगणाश् च ये ॥ २२ ॥

वृष्ट्या धृतम् इदं सर्वं जगत् स्थावरजङ्गमम् ।
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः ॥ २३ ॥

आधारभूतः सवितुर् ध्रुवो मुनिवरोत्तमाः ।
ध्रुवस्य शिशुमारो ऽसौ सो ऽपि नारायणाश्रयः ॥ २४ ॥

हृदि नारायणस् तस्य शिशुमारस्य संस्थितः ।
विभर्ता सर्वभूतानाम् आदिभूतः सनातनः ॥ २५ ॥

एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम् ।
भूसमुद्रादिभिर् युक्तं किम् अन्यच् छ्रोतुम् इच्छथ ॥ २६ ॥