Summary (SA)
Chapter 23- Description of the heavenly worlds; Viṣṇu and his Śakti
{{Ref- SS 59-61}}
मुनय ऊचुः-
कथितं भवता सर्वम् अस्माकं सकलं तथा ।
भुवर्लोकादिकांल् लोकाञ् श्रोतुम् इच्छामहे वयम् ॥ १ ॥
तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा ।
समाचक्ष्व महाभाग यथावल् लोमहर्षण ॥ २ ॥
लोमहर्षण उवाच-
रविचन्द्रमसोर् यावन् मयूखैर् अवभास्यते ।
ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥ ३ ॥
यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला ।
नभस् तावत्प्रमाणं हि विस्तारपरिमण्डलम् ॥ ४ ॥
भूमेर् योजनलक्षे तु सौरं विप्रास् तु मण्डलम् ।
लक्षे दिवाकराच् चापि मण्डलं शशिनः स्थितम् ॥ ५ ॥
पूर्णे शतसहस्रे तु योजनानां निशाकरात् ।
नक्षत्रमण्डलं कृत्स्नम् उपरिष्टात् प्रकाशते ॥ ६ ॥
द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात् ।
तावत्प्रमाणभागे तु बुधस्याप्य् उशना स्थितः ॥ ७ ॥
अङ्गारको ऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः ।
लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ ८ ॥
सौरिर् बृहस्पतेर् ऊर्ध्वं द्विलक्षे समवस्थितः ।
सप्तर्षिमण्डलं तस्माल् लक्षम् एकं द्विजोत्तमाः ॥ ९ ॥
ऋषिभ्यस् तु सहस्राणां शताद् ऊर्ध्वं व्यवस्थितः ।
मेढीभूतः समस्तस्य ज्योतिश् चक्रस्य वै ध्रुवः ॥ १० ॥
त्रैलोक्यम् एतत् कथितं सङ्क्षेपेण द्विजोत्तमाः ।
इज्याफलस्य भूर् एषा इज्या चात्र प्रतिष्ठिता ॥ ११ ॥
ध्रुवाद् ऊर्ध्वं महर्लोको यत्र ते कल्पवासिनः ।
एकयोजनकोटी तु महर्लोको विधीयते ॥ १२ ॥
द्वे कोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः ।
सनन्दनाद्याः कथिता विप्राश् चामलचेतसः ॥ १३ ॥
चतुर्गुणोत्तरं चोर्ध्वं जनलोकात् तपः स्मृतम् ।
वैराजा यत्र ते देवाः स्थिता देहविवर्जिताः ॥ १४ ॥
षड्गुणेन तपोलोकात् सत्यलोको विराजते ।
अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम् ॥ १५ ॥
पादगम्यं तु यत् किञ्चिद् वस्त्व् अस्ति पृथिवीमयम् ।
स भूर्लोकः समाख्यातो विस्तारो ऽस्य मयोदितः ॥ १६ ॥
भूमिसूर्यान्तरं यत् तु सिद्धादिमुनिसेवितम् ।
भुवर्लोकस् तु सो ऽप्य् उक्तो द्वितीयो मुनिसत्तमाः ॥ १७ ॥
ध्रुवसूर्यान्तरं यत् तु नियुतानि चतुर्दश ।
स्वर्लोकः सो ऽपि कथितो लोकसंस्थानचिन्तकैः ॥ १८ ॥
त्रैलोक्यम् एतत् कृतकं विप्रैश् च परिपठ्यते ।
जनस् तपस् तथा सत्यम् इति चाकृतकं त्रयम् ॥ १९ ॥
कृतकाकृतको मध्ये महर्लोक इति स्मृतः ।
शून्यो भवति कल्पान्ते यो ऽन्तं न च विनश्यति ॥ २० ॥
एते सप्त महालोका मया वः कथिता द्विजाः ।
पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥ २१ ॥
एतद् अण्डकटाहेन तिर्यग् ऊर्ध्वम् अधस् तथा ।
कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥ २२ ॥
दशोत्तरेण पयसा द्विजाश् चाण्डं च तद् वृतम् ।
स चाम्बुपरिवारो ऽसौ वह्निना वेष्टितो बहिः ॥ २३ ॥
वह्निस् तु वायुना वायुर् विप्रास् तु नभसावृतः ।
आकाशो ऽपि मुनिश्रेष्ठा महता परिवेष्टितः ॥ २४ ॥
दशोत्तराण्य् अशेषाणि विप्राश् चैतानि सप्त वै ।
महान्तं च समावृत्य प्रधानं समवस्थितम् ॥ २५ ॥
अनन्तस्य न तस्यान्तः सङ्ख्यानं चापि विद्यते ।
तद् अनन्तम् असङ्ख्यातं प्रमाणेनापि वै यतः ॥ २६ ॥
हेतुभूतम् अशेषस्य प्रकृतिः सा परा द्विजाः ।
अण्डानां तु सहस्राणां सहस्राण्य् अयुतानि च ॥ २७ ॥
ईदृशानां तथा तत्र कोटिकोटिशतानि च ।
दारुण्य् अग्निर् यथा तैलं तिले तद्वत् पुमान् इह ॥ २८ ॥
प्रधाने ऽवस्थितो व्यापी चेतनात्मनिवेदनः ।
प्रधानं च पुमांश् चैव सर्वभूतानुभूतया ॥ २९ ॥
विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्मिणौ ।
तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥ ३० ॥
क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः ।
यथा शैत्यं जले वातो बिभर्ति कणिकागतम् ॥ ३१ ॥
जगच् छक्तिस् तथा विष्णोः प्रधानपुरुषात्मकम् ।
यथा च पादपो मूलस्कन्धशाखादिसंयुतः ॥ ३२ ॥
आद्यबीजात् प्रभवति बीजान्य् अन्यानि वै ततः ।
प्रभवन्ति ततस् तेभ्यो भवन्त्य् अन्ये परे द्रुमाः ॥ ३३ ॥
ते ऽपि तल्लक्षणद्रव्यकारणानुगता द्विजाः ।
एवम् अव्याकृतात् पूर्वं जायन्ते महदादयः ॥ ३४ ॥
विशेषान्तास् ततस् तेभ्यः सम्भवन्ति सुरादयः ।
तेभ्यश् च पुत्रास् तेषां तु पुत्राणां परमे सुताः ॥ ३५ ॥
बीजाद् वृक्षप्ररोहेण यथा नापचयस् तरोः ।
भूतानां भूतसर्गेण नैवास्त्य् अपचयस् तथा ॥ ३६ ॥
सन्निधानाद् यथाकाशकालाद्याः कारणं तरोः ।
तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥ ३७ ॥
व्रीहिबीजे यथा मूलं नालं पत्त्राङ्कुरौ तथा ।
काण्डकोषास् तथा पुष्पं क्षीरं तद्वच् च तण्डुलः ॥ ३८ ॥
तुषाः कणाश् च सन्तो वै यान्त्य् आविर्भावम् आत्मनः ।
प्ररोहहेतुसामग्र्यम् आसाद्य मुनिसत्तमाः ॥ ३९ ॥
तथा कर्मस्व् अनेकेषु देवाद्यास् तनवः स्थिताः ।
विष्णुशक्तिं समासाद्य प्ररोहम् उपयान्ति वै ॥ ४० ॥
स च विष्णुः परं ब्रह्म यतः सर्वम् इदं जगत् ।
जगच् च यो यत्र चेदं यस्मिन् विलयम् एष्यति ॥ ४१ ॥
तद् ब्रह्म परमं धाम सदसत् परमं पदम् ।
यस्य सर्वम् अभेदेन जगद् एतच् चराचरम् ॥ ४२ ॥
स एव मूलप्रकृतिर् व्यक्तरूपी जगच् च सः ।
तस्मिन्न् एव लयं सर्वं याति तत्र च तिष्ठति ॥ ४३ ॥
कर्ता क्रियाणां स च इज्यते क्रतुः ।
स एव तत्कर्मफलं च तस्य यत् ।
युगादि यस्माच् च भवेद् अशेषतो ।
हरेर् न किञ्चिद् व्यतिरिक्तम् अस्ति तत् ॥ ४४ ॥