Summary (SA)
Chapter 22- Description of hells
{{Ref- SS 57-59}}
लोमहर्षण उवाच-
ततश् चानन्तरं विप्रा नरका रौरवादयः ।
पापिनो येषु पात्यन्ते ताञ् शृणुध्वं द्विजोत्तमाः ॥ १ ॥
रौरवः शौकरो रोधस् तानो विशसनस् तथा ।
महाज्वालस् तप्तकुड्यो महालोभो विमोहनः ॥ २ ॥
रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः ।
असिपत्त्रवनं कृष्णो लालाभक्षश् च दारुणः ॥ ३ ॥
तथा पूयवहः पापो वह्निज्वालो ह्य् अधःशिराः ।
सदंशः कृष्णसूत्रश् च तमश् चावीचिर् एव च ॥ ४ ॥
श्वभोजनो ऽथाप्रतिष्ठोमआवीचिश् च तथापरः ।
इत्य् एवमादयश् चान्ये नरका भृशदारुणाः ॥ ५ ॥
यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः ।
पतन्ति येषु पुरुषाः पापकर्मरताश् च ये ॥ ६ ॥
कूटसाक्षी तथा सम्यक् पक्षपातेन यो वदेत् ।
यश् चान्यद् अनृतं वक्ति स नरो याति रौरवम् ॥ ७ ॥
भ्रूणहा पुरहन्ता च गोघ्नश् च मुनिसत्तमाः ।
यान्ति ते रौरवं घोरं यश् चोच्छ्वासनिरोधकः ॥ ८ ॥
सुरापो ब्रह्महा हर्ता सुवर्णस्य च शूकरे ।
प्रयाति नरके यश् च तैः संसर्गम् उपैति वै ॥ ९ ॥
राजन्यवैश्यहा चैव तथैव गुरुतल्पगः ।
तप्तकुम्भे स्वसृगामी हन्ति राजभटं च यः ॥ १० ॥
माध्वीविक्रयकृन् वध्यपालः केसरविक्रयी ।
तप्तलोहे पतन्त्य् एते यश् च भक्तं परित्यजेत् ॥ ११ ॥
सुतां स्नुषां चापि गत्वा महाज्वाले निपात्यते ।
अवमन्ता गुरूणां यो यश् चाक्रोष्टा नराधमः ॥ १२ ॥
वेददूषयिता यश् च वेदविक्रयकश् च यः ।
अगम्यगामी यश् च स्यात् ते यान्ति शबलं द्विजाः ॥ १३ ॥
चौरो विमोहे पतति मर्यादादूषकस् तथा ।
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥ १४ ॥
स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत् ।
पितृदेवातिथीन् यस् तु पर्यश्नाति नराधमः ॥ १५ ॥
लालाभक्ष्ये स यात्य् उग्रे शरकर्ता च वेधके ।
करोति कर्णिनो यश् च यश् च खड्गादिकृन् नरः ॥ १६ ॥
प्रयान्त्य् एते विशसने नरके भृशदारुणे ।
असत्प्रतिग्रहीता च नरके यात्य् अधोमुखे ॥ १७ ॥
अयाज्ययाजकस् तत्र तथा नक्षत्रसूचकः ।
कृमिपूये नरश् चैको याति मिष्टान्नभुक् सदा ॥ १८ ॥
लाक्षामांसरसानां च तिलानां लवणस्य च ।
विक्रेता ब्राह्मणो याति तम् एव नरकं द्विजाः ॥ १९ ॥
मार्जारकुक्कुटच्छागश्ववराहविहङ्गमान् ।
पोषयन् नरकं याति तम् एव द्विजसत्तमाः ॥ २० ॥
रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस् तथा ।
सूची माहिषिकश् चैव पर्वगामी च यो द्विजः ॥ २१ ॥
अगारदाही मित्रघ्नः शकुनिग्रामयाजकः ।
रुधिरान्धे पतन्त्य् एते सोमं विक्रीणते च ये ॥ २२ ॥
मधुहा ग्रामहन्ता च याति वैतरणीं नरः ।
रेतःपानादिकर्तारो मर्यादाभेदिनश् च ये ॥ २३ ॥
ते कृच्छ्रे यान्त्य् अशौचाश् च कुहकाजीविनश् च ये ।
असिपत्त्रवनं याति वनच्छेदी वृथैव यः ॥ २४ ॥
औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै ।
यान्ति तत्रैव ते विप्रा यश् चापाकेषु वह्निदः ॥ २५ ॥
व्रतोपलोपको यश् च स्वाश्रमाद् विच्युतश् च यः ।
सन्दंशयातनामध्ये पततस् ताव् उभाव् अपि ॥ २६ ॥
दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः ।
पुत्रैर् अध्यापिता ये तु ते पतन्ति श्वभोजने ॥ २७ ॥
एते चान्ये च नरकाः शतशो ऽथ सहस्रशः ।
येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २८ ॥
तथैव पापान्य् एतानि तथान्यानि सहस्रशः ।
भुज्यन्ते जातिपुरुषैर् नरकान्तरगोचरैः ॥ २९ ॥
वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः ।
कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ ३० ॥
अधःशिरोभिर् दृश्यन्ते नारकैर् दिवि देवताः ।
देवाश् चाधोमुखान् सर्वान् अधः पश्यन्ति नारकान् ॥ ३१ ॥
स्थावराः कृमयो ऽज्वाश् च पक्षिणः पशवो नराः ।
धार्मिकास् त्रिदशास् तद्वन् मोक्षिणश् च यथाक्रमम् ॥ ३२ ॥
सहस्रभागः प्रथमाद् द्वितीयो ऽनुक्रमात् तथा ।
सर्वे ह्य् एते महाभागा यावन् मुक्तिसमाश्रयाः ॥ ३३ ॥
यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः ।
पापकृद् याति नरकं प्रायश्चित्तपराङ्मुखः ॥ ३४ ॥
पापानाम् अनुरूपाणि प्रायश्चित्तानि यद् यथा ।
तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ ३५ ॥
पापे गुरूणि गुरुणि स्वल्पान्य् अल्पे च तद्विदः ।
प्रायश्चित्तानि विप्रेन्द्रा जगुः स्वायम्भुवादयः ॥ ३६ ॥
प्रायश्चित्तान्य् अशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम् ॥ ३७ ॥
कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ ३८ ॥
प्रातर् निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन् ।
नारायणम् अवाप्नोति सद्यः पापक्षयान् नरः ॥ ३९ ॥
विष्णुसंस्मरणात् क्षीणसमस्तक्लेशसञ्चयः ।
मुक्तिं प्रयाति भो विप्रा विष्णोस् तस्यानुकीर्तनात् ॥ ४० ॥
वासुदेवे मनो यस्य जपहोमार्चनादिषु ।
तस्यान्तरायो विप्रेन्द्रा देवेन्द्रत्वादिकं फलम् ॥ ४१ ॥
क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् ।
क्व जपो वासुदेवेति मुक्तिबीजम् अनुत्तमम् ॥ ४२ ॥
तस्माद् अहर्निशं विष्णुं संस्मरन् पुरुषो द्विजः ।
न याति नरकं शुद्धः सङ्क्षीणाखिलपातकः ॥ ४३ ॥
मनःप्रीतिकरः स्वर्गो नरकस् तद्विपर्ययः ।
नरकस्वर्गसञ्ज्ञे वै पापपुण्ये द्विजोत्तमाः ॥ ४४ ॥
वस्त्व् एकम् एव दुःखाय सुखायेर्ष्योदयाय च ।
कोपाय च यतस् तस्माद् वस्तु दुःखात्मकं कुतः ॥ ४५ ॥
तद् एव प्रीतये भूत्वा पुनर् दुःखाय जायते ।
तद् एव कोपालयतः प्रसादाय च जायते ॥ ४६ ॥
तस्माद् दुःखात्मकं नास्ति न च किञ्चित् सुखात्मकम् ।
मनसः परिणामो ऽयं सुखदुःखादिलक्षणः ॥ ४७ ॥
ज्ञानम् एव परं ब्रह्माज्ञानं बन्धाय चेष्यते ।
ज्ञानात्मकम् इदं विश्वं न ज्ञानाद् विद्यते परम् ॥ ४८ ॥
विद्याविद्ये हि भो विप्रा ज्ञानम् एवावधार्यताम् ।
एवम् एतद् मयाख्यातं भवतां मण्डलं भुवः ॥ ४९ ॥
पातालानि च सर्वाणि तथैव नरका द्विजाः ।
समुद्राः पर्वताश् चैव द्वीपा वर्षाणि निम्नगाः ।
सङ्क्षेपात् सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छथ ॥ ५० ॥