Summary (SA)
Chapter 21- Description of the nether worlds
{{Ref- SS 56-57}}
लोमहर्षण उवाच-
विस्तार एष कथितः पृथिव्या मुनिसत्तमाः ।
सप्ततिस् तु सहस्राणि तदुच्छ्रायो ऽपि कथ्यते ॥ १ ॥
दशसाहस्रम् एकैकं पातालं मुनिसत्तमाः ।
अतलं वितलं चैव नितलं सुतलं तथा ॥ २ ॥
तलातलं रसातलं पातालं चापि सप्तमम् ।
कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनी ॥ ३ ॥
भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः ।
तेषु दानवदैतेयजातयः शतशः स्थिताः ॥ ४ ॥
नागानां च महाङ्गानां ज्ञातयश् च द्विजोत्तमाः ।
स्वर्लोकाद् अपि रम्याणि पातालानीति नारदः ॥ ५ ॥
प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम् ।
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ॥ ६ ॥
नागाभरणभूषाश् च पातालं केन तत्समम् ।
दैत्यदानवकन्याभिर् इतश् चेतश् च शोभिते ॥ ७ ॥
पाताले कस्य न प्रीतिर् विमुक्तस्यापि जायते ।
दिवार्करश्मयो यत्र प्रभास् तन्वन्ति नातपम् ॥ ८ ॥
शशिनश् च न शीताय निशि द्योताय केवलम् ।
भक्ष्यभोज्यमहापानमदमत्तैश् च भोगिभिः ॥ ९ ॥
यत्र न ज्ञायते कालो गतो ऽपि दनुजादिभिः ।
वनानि नद्यो रम्याणि सरांसि कमलाकराः ॥ १० ॥
पुंस्कोकिलादिलापाश् च मनोज्ञान्य् अम्बराणि च ।
भूषणान्य् अतिरम्याणि गन्धाद्यं चानुलेपनम् ॥ ११ ॥
वीणावेणुमृदङ्गानां निःस्वनाश् च सदा द्विजाः ।
एतान्य् अन्यानि रम्याणि भाग्यभोग्यानि दानवैः ॥ १२ ॥
दैत्योरगैश् च भुज्यन्ते पातालान्तरगोचरैः ।
पातालानाम् अधश् चास्ते विष्णोर् या तामसी तनुः ॥ १३ ॥
शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः ।
यो ऽनन्तः पठ्यते सिद्धैर् देवदेवर्षिपूजितः ॥ १४ ॥
सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः ।
फणामणिसहस्रेण यः स विद्योतयन् दिशः ॥ १५ ॥
सर्वान् करोति निर्वीर्यान् हिताय जगतो ऽसुरान् ।
मदाघूर्णितनेत्रो ऽसौ यः सदैवैककुण्डलः ॥ १६ ॥
किरीटी स्रग्धरो भाति साग्निश्वेत इवाचलः ।
नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः ॥ १७ ॥
साभ्रगङ्गाप्रपातो ऽसौ कैलासाद्रिर् इवोत्तमः ।
लाङ्गलासक्तहस्ताग्रो बिभ्रन् मुशलम् उत्तमम् ॥ १८ ॥
उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया ।
कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः ॥ १९ ॥
सङ्कर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् ।
स बिभ्रच्छिखरीभूतम् अशेषं क्षितिमण्डलम् ॥ २० ॥
आस्ते पातालमूलस्थः शेषो ऽशेषसुरार्चितः ।
तस्य वीर्यं प्रभावश् च स्वरूपं रूपम् एव च ॥ २१ ॥
नहि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैर् अपि ।
यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ॥ २२ ॥
आस्ते कुसुममालेव कस् तद्वीर्यं वदिष्यति ।
यदा विजृम्भते ऽनन्तो मदाघूर्णितलोचनः ॥ २३ ॥
तदा चलति भूर् एषा साद्रितोयाधिकानना ।
गन्धर्वाप्सरसः सिद्धाः किन्नरोरगवारणाः ॥ २४ ॥
नान्तं गुणानां गच्छन्ति ततो ऽनन्तो ऽयम् अव्ययः ।
यस्य नागवधूहस्तैर् लापितं हरिचन्दनम् ॥ २५ ॥
मुहुः श्वासानिलायस्तं याति दिक्पटवासताम् ।
यम् आराध्य पुराणर्षिर् गर्गो ज्योतींषि तत्त्वतः ॥ २६ ॥
ज्ञातवान् सकलं चैव निमित्तपठितं फलम् ।
तेनेयं नागवर्येण शिरसा विधृता मही ।
बिभर्ति सकलांल् लोकान् सदेवासुरमानुषान् ॥ २७ ॥