Summary (SA)
Chapter 20- Description of the six outer continents
{{Ref- SS 52-56}}
लोमहर्षण उवाच-
क्षारोदेन यथा द्वीपो जम्बूसञ्ज्ञो ऽभिवेष्टितः ।
संवेष्ट्य क्षारम् उदधिं प्लक्षद्वीपस् तथा स्थितः ॥ १ ॥
जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितः ।
स एव द्विगुणो विप्राः प्लक्षद्वीपे ऽप्य् उदाहृतः ॥ २ ॥
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ।
श्रेष्ठः शान्तभयो नाम शिशिरस् तदनन्तरम् ॥ ३ ॥
सुखोदयस् तथानन्दः शिवः क्षेमक एव च ।
ध्रुवश् च सप्तमस् तेषां प्लक्षद्वीपेश्वरा हि ते ॥ ४ ॥
पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा ।
आनन्दं च शिवं चैव क्षेमकं ध्रुवम् एव च ॥ ५ ॥
मर्यादाकारकास् तेषां तथान्ये वर्षपर्वताः ।
सप्तैव तेषां नामानि शृणुध्वं मुनिसत्तमाः ॥ ६ ॥
गोमेदश् चैव चन्द्रश् च नारदो दन्दुभिस् तथा ।
सोमकः सुमनाः शैलो वैभ्राजश् चैव सप्तमः ॥ ७ ॥
वर्षाचलेषु रम्येषु वर्षेष्व् एतेषु चानघाः ।
वसन्ति देवगन्धर्वसहिताः सहितं प्रजाः ॥ ८ ॥
तेषु पुण्या जनपदा वीरा न म्रियते जनः ।
नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ ९ ॥
तेषां नद्यश् च सप्तैव वर्षाणां तु समुद्रगाः ।
नामतस् ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ १० ॥
अनुतप्ता शिखा चैव विप्राशा त्रिदिवा क्रमुः ।
अमृता सुकृता चैव सप्तैतास् तत्र निम्नगाः ॥ ११ ॥
एते शैलास् तथा नद्यः प्रधानाः कथिता द्विजाः ।
क्षुद्रनद्यस् तथा शैलास् तत्र सन्ति सहस्रशः ॥ १२ ॥
ताः पिबन्ति सदा हृष्टा नदीर् जनपदास् तु ते ।
अवसर्पिणी नदी तेषां न चैवोत्सर्पिणी द्विजाः ॥ १३ ॥
न तेष्व् अस्ति युगावस्था तेषु स्थानेषु सप्तसु ।
त्रेतायुगसमः कालः सर्वदैव द्विजोत्तमाः ॥ १४ ॥
प्लक्षद्वीपादिके विप्राः शाकद्वीपान्तिकेषु वै ।
पञ्चवर्षसहस्राणि जना जीवन्त्य् अनामयाः ॥ १५ ॥
धर्मश् चतुर्विधस् तेषु वर्णाश्रमविभागजः ।
वर्णाश् च तत्र चत्वारस् तान् बुधाः प्रवदामि वः ॥ १६ ॥
आर्यकाः कुरवश् चैव विविश्वा भाविनश् च ये ।
विप्रक्षत्रियवैश्यास् ते शूद्राश् च मुनिसत्तमाः ॥ १७ ॥
जम्बूवृक्षप्रमाणस् तु तन्मध्ये सुमहातरुः ।
प्लक्षस् तन्नामसञ्ज्ञो ऽयं प्लक्षद्वीपो द्विजोत्तमाः ॥ १८ ॥
इज्यते तत्र भगवांस् तैर् वर्णैर् आर्यकादिभिः ।
सोमरूपी जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः ॥ १९ ॥
प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः ।
तथैवेक्षुरसोदेन परिवेषानुकारिणा ॥ २० ॥
इत्य् एतद् वो मुनिश्रेष्ठाः प्लक्षद्वीप उदाहृतः ।
सङ्क्षेपेण मया भूयः शाल्मलं तं निबोधत ॥ २१ ॥
शाल्मलस्येश्वरो वीरो वपुष्मांस् तत्सुता द्विजाः ।
तेषां तु नाम सञ्ज्ञानि सप्तवर्षाणि तानि वै ॥ २२ ॥
श्वेतो ऽथ हरितश् चैव जीमूतो रोहितस् तथा ।
वैद्युतो मानसश् चैव सुप्रभश् च द्विजोत्तमाः ॥ २३ ॥
शाल्मनश् च समुद्रो ऽसौ द्वीपेनेक्षुरसोदकः ।
विस्ताराद् द्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ २४ ॥
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ।
वर्षाभिव्यञ्जकास् ते तु तथा सप्तैव निम्नगाः ॥ २५ ॥
कुमुदश् चोन्नतश् चैव तृतीयस् तु बलाहकः ।
द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ २६ ॥
कङ्कस् तु पञ्चमः षष्ठो महिषः सप्तमस् तथा ।
ककुद्मान् पर्वतवरः सरिन्नामान्य् अतो द्विजाः ॥ २७ ॥
श्रोणी तोया वितृष्णा च चन्द्रा शुक्रा विमोचनी ।
निवृत्तिः सप्तमी तासां स्मृतास् ताः पापशान्तिदाः ॥ २८ ॥
श्वेतं च लोहितं चैव जीमूतं हरितं तथा ।
वैद्युतं मानसं चैव सुप्रभं नाम सप्तमम् ॥ २९ ॥
सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि च ।
वर्णाश् च शाल्मले ये च वसन्त्य् एषु द्विजोत्तमाः ॥ ३० ॥
कपिलाश् चारुणाः पीताः कृष्णाश् चैव पृथक् पृथक् ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव यजन्ति तम् ॥ ३१ ॥
भगवन्तं समस्तस्य विष्णुम् आत्मानम् अव्ययम् ।
वायुभूतं मखश्रेष्ठैर् यज्वानो यज्ञसंस्थितम् ॥ ३२ ॥
देवानाम् अत्र सान्निध्यम् अतीव सुमनोहरे ।
शाल्मलिश् च महावृक्षो नामनिर्वृत्तिकारकः ॥ ३३ ॥
एष द्वीपः समुद्रेण सुरोदेन समावृतः ।
विस्ताराच् छाल्मलेश् चैव समेन तु समन्ततः ॥ ३४ ॥
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ।
शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ॥ ३५ ॥
ज्योतिष्मतः कुशद्वीपे शृणुध्वं तस्य पुत्रकान् ।
उद्भिदो वेणुमांश् चैव स्वैरथो रन्धनो धृतिः ॥ ३६ ॥
प्रभाकरो ऽथ कपिलस् तन्नाम्ना वर्षपद्धतिः ।
तस्यां वसन्ति मनुजैः सह दैतेयदानवाः ॥ ३७ ॥
तथैव देवगन्धर्वा यक्षकिम्पुरुषादयः ।
वर्णास् तत्रापि चत्वारो निजानुष्ठानतत्पराः ॥ ३८ ॥
दमिनः शुष्मिणः स्नेहा मान्दहाश् च द्विजोत्तमाः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चानुक्रमोदिताः ॥ ३९ ॥
यथोक्तकर्मकर्तृत्वात् स्वाधिकारक्षयाय ते ।
तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनार्दनम् ॥ ४० ॥
यजन्तः क्षपयन्त्य् उग्रम् अधिकारफलप्रदम् ।
विद्रुमो हेमशैलश् च द्युतिमान् पुष्टिमांस् तथा ॥ ४१ ॥
कुशेशयो हरिश् चैव सप्तमो मन्दराचलः ।
वर्षाचलास् तु सप्तैते द्वीपे तत्र द्विजोत्तमाः ॥ ४२ ॥
नद्यश् च सप्त तासां तु वक्ष्ये नामान्य् अनुक्रमात् ।
धूतपापा शिवा चैव पवित्रा सम्मतिस् तथा ॥ ४३ ॥
विद्युद् अम्भो मही चान्या सर्वपापहरास् त्व् इमाः ।
अन्याः सहस्रशस् तत्र क्षुद्रनद्यस् तथाचलाः ॥ ४४ ॥
कुशद्वीपे कुशस्तम्बः सञ्ज्ञया तस्य तत् स्मृतम् ।
तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः ॥ ४५ ॥
घृतोदश् च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ।
क्रौञ्चद्वीपो मुनिश्रेष्ठाः श्रूयतां चापरो महान् ॥ ४६ ॥
कुशद्वीपस्य विस्ताराद् द्विगुणो यस्य विस्तरः ।
क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः ॥ ४७ ॥
तन्नामानि च वर्षाणि तेषां चक्रे महामनाः ।
कुशगो मन्दगश् चोष्णः पीवरो ऽथान्धकारकः ॥ ४८ ॥
मुनिश् च दुन्दुभिश् चैव सप्तैते तत्सुता द्विजाः ।
तत्रापि देवगन्धर्वसेविताः सुमनोरमाः ॥ ४९ ॥
वर्षाचला मुनिश्रेष्ठास् तेषां नामानि भो द्विजाः ।
क्रौञ्चश् च वामनश् चैव तृतीयश् चान्धकारकः ॥ ५० ॥
देवव्रतो धमश् चैव तथान्यः पुण्डरीकवान् ।
दुन्दुभिश् च महाशैलो द्विगुणास् ते परस्परम् ॥ ५१ ॥
द्वीपाद् द्वीपेषु ये शैलास् तथा द्वीपानि ते तथा ।
वर्षेष्व् एतेषु रम्येषु वर्षशैलवरेषु च ॥ ५२ ॥
निवसन्ति निरातङ्काः सह देवगणैः प्रजाः ।
पुष्कला पुष्करा धन्यास् ते ख्याताश् च द्विजोत्तमाः ॥ ५३ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चानुक्रमोदिताः ।
तत्र नद्यो मुनिश्रेष्ठा याः पिबन्ति तु ते सदा ॥ ५४ ॥
सप्त प्रधानाः शतशस् तथान्याः क्षुद्रनिम्नगाः ।
गौरी कुमुद्वती चैव सन्ध्या रात्रिर् मनोजवा ॥ ५५ ॥
ख्यातिश् च पुण्डरीका च सप्तैता वर्षनिम्नगाः ।
तत्रापि वर्णैर् भगवान् पुष्कराद्यैर् जनार्दनः ॥ ५६ ॥
ध्यानयोगै रुद्ररूप ईज्यते यज्ञसन्निधौ ।
क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु ॥ ५७ ॥
आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः ।
दधिमण्डोदकश् चापि शाकद्वीपेन संवृतः ॥ ५८ ॥
क्रौञ्चद्वीपस्य विस्तारद्विगुणेन द्विजोत्तमाः ।
शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः ॥ ५९ ॥
सप्तैव तनयास् तेषां ददौ वर्षाणि सप्त सः ।
जलदश् च कुमारश् च सुकुमारो मनीरकः ॥ ६० ॥
कुसमोदश् च मोदाकिः सप्तमश् च महाद्रुमः ।
तत्सञ्ज्ञान्य् एव तत्रापि सप्त वर्षाण्य् अनुक्रमात् ॥ ६१ ॥
तत्रापि पर्वताः सप्त वर्षविच्छेदकारकाः ।
पूर्वस् तत्रोदयगिरिर् जलधारस् तथापरः ॥ ६२ ॥
तथा रैवतकः श्यामस् तथैवाम्भोगिरिर् द्विजाः ।
आस्तिकेयस् तथा रम्यः केसरी पर्वतोत्तमः ॥ ६३ ॥
शाकश् चात्र महावृक्षः सिद्धगन्धर्वसेवितः ।
यत्पत्त्रवातसंस्पर्शाद् आह्लादो जायते परः ॥ ६४ ॥
तत्र पुण्या जनपदाश् चातुर्वर्ण्यसमन्विताः ।
निवसन्ति महात्मानो निरातङ्का निरामयाः ॥ ६५ ॥
नद्यश् चात्र महापुण्याः सर्वपापभयापहाः ।
सुकुमारी कुमारी च नलिनी रेणुका च या ॥ ६६ ॥
इक्षुश् च धेनुका चैव गभस्ती सप्तमी तथा ।
अन्यास् त्व् अयुतशस् तत्र क्षुद्रनद्यो द्विजोत्तमाः ॥ ६७ ॥
महीधरास् तथा सन्ति शतशो ऽथ सहस्रशः ।
ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः ॥ ६८ ॥
वर्षेषु ये जनपदाश् चतुर्थार्थसमन्विताः ।
नद्यश् चात्र महापुण्याः स्वर्गाद् अभ्येत्य मेदिनीम् ॥ ६९ ॥
धर्महानिर् न तेष्व् अस्ति न संहर्षो न शुक् तथा ।
मर्यादाव्युत्क्रमश् चापि तेषु देशेषु सप्तसु ॥ ७० ॥
मगाश् च मागधाश् चैव मानसा मन्दगास् तथा ।
मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास् तु ते ॥ ७१ ॥
वैश्यास् तु मानसास् तेषां शूद्रा ज्ञेयास् तु मन्दगाः ।
शाकद्वीपे स्थितैर् विष्णुः सूर्यरूपधरो हरिः ॥ ७२ ॥
यथोक्तैर् इज्यते सम्यक् कर्मभिर् नियतात्मभिः ।
शाकद्वीपस् ततो विप्राः क्षीरोदेन समन्ततः ॥ ७३ ॥
शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः ।
क्षीराब्धिः सर्वतो विप्राः पुष्कराख्येन वेष्टितः ॥ ७४ ॥
द्वीपेन शाकद्वीपात् तु द्विगुणेन समन्ततः ।
पुष्करे सवनस्यापि महावीतो ऽभवत् सुतः ॥ ७५ ॥
धातकिश् च तयोस् तद्वद् द्वे वर्षे नामसञ्ज्ञिते ।
महावीतं तथैवान्यद् धातकीखण्डसञ्ज्ञितम् ॥ ७६ ॥
एकश् चात्र महाभागाः प्रख्यातो वर्षपर्वतः ।
मानसोत्तरसञ्ज्ञो वै मध्यतो वलयाकृतिः ॥ ७७ ॥
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशद् उच्छ्रितः ।
तावद् एव च विस्तीर्णः सर्वतः परिमण्डलः ॥ ७८ ॥
पुष्करद्वीपवलयं मध्येन विभजन्न् इव ।
स्थितो ऽसौ तेन विच्छिन्नं जातं वर्षद्वयं हि तत् ॥ ७९ ॥
वलयाकारम् एकैकं तयोर् मध्ये महागिरिः ।
दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ॥ ८० ॥
निरामया विशोकाश् च रागद्वेषविवर्जिताः ।
अधमोत्तमौ न तेष्व् आस्तां न वध्यवधकौ द्विजाः ॥ ८१ ॥
नेर्ष्यासूया भयं रोषो दोषो लोभादिकं न च ।
महावीतं बहिर् वर्षं धातकीखण्डम् अन्ततः ॥ ८२ ॥
मानसोत्तरशैलस्य देवदैत्यादिसेवितम् ।
सत्यानृते न तत्रास्तां द्वीपे पुष्करसञ्ज्ञिते ॥ ८३ ॥
न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते ।
तुल्यवेषास् तु मनुजा देवैस् तत्रैकरूपिणः ॥ ८४ ॥
वर्णाश्रमाचारहीनं धर्माहरणवर्जितम् ।
त्रयीवार्त्तादण्डनीतिशुश्रूषारहितं च तत् ॥ ८५ ॥
वर्षद्वयं ततो विप्रा भौमस्वर्गो ऽयम् उत्तमः ।
सर्वस्य सुखदः कालो जरारोगविवर्जितः ॥ ८६ ॥
पुष्करे धातकीखण्डे महावीते च वै द्विजाः ।
न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानम् उत्तमम् ॥ ८७ ॥
तस्मिन् निवसति ब्रह्मा पूज्यमानः सुरासुरैः ।
स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ॥ ८८ ॥
समेन पुष्करस्यैव विस्तारान् मण्डलात् तथा ।
एवं द्वीपाः समुद्रैस् तु सप्त सप्तभिर् आवृताः ॥ ८९ ॥
द्वीपश् चैव समुद्रश् च समानौ द्विगुणौ परौ ।
पयांसि सर्वदा सर्वसमुद्रेषु समानि वै ॥ ९० ॥
न्यूनातिरिक्तता तेषां कदाचिन् नैव जायते ।
स्थालीस्थम् अग्निसंयोगाद् उद्रेकि सलिलं यथा ॥ ९१ ॥
तथेन्दुवृद्धौ सलिलम् अम्भोधौ मुनिसत्तमाः ।
अन्यूनानतिरिक्ताश् च वर्धन्त्य् आपो ह्रसन्ति च ॥ ९२ ॥
उदयास्तमने त्व् इन्दोः पक्षयोः शुक्लकृष्णयोः ।
दशोत्तराणि पञ्चैव अङ्गुलानां शतानि च ॥ ९३ ॥
अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां द्विजोत्तमाः ।
भोजनं पुष्करद्वीपे तत्र स्वयम् उपस्थितम् ॥ ९४ ॥
भुञ्जन्ति षड्रसं विप्राः प्रजाः सर्वाः सदैव हि ।
स्वादूदकस्य परितो दृश्यते लोकसंस्थितिः ॥ ९५ ॥
द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता ।
लोकालोकस् ततः शैलो योजनायुतविस्तृतः ॥ ९६ ॥
उच्छ्रयेणापि तावन्ति सहस्राण्य् आवलोहि सः ।
ततस् तमः समावृत्य तं शैलं सर्वतः स्थितम् ॥ ९७ ॥
तमश् चाण्डकटाहेन समन्तात् परिवेष्टितम् ।
पञ्चाशत्कोटिविस्तारा सेयम् उर्वी द्विजोत्तमाः ॥ ९८ ॥
सहैवाण्डकटाहेन सद्वीपा समहीधरा ।
सेयं धात्री विधात्री च सर्वभूतगुणाधिका ।
आधारभूता जगतां सर्वेषां सा द्विजोत्तमाः ॥ ९९ ॥