Summary (SA)
Chapter 19- Description of Bhāratavarṣa
{{Ref- SS 50-52}}
लोमहर्षण उवाच-
उत्तरेण समुद्रस्य हिमाद्रेश् चैव दक्षिणे ।
वर्षं तद् भारतं नाम भारती यत्र सन्ततिः ॥ १ ॥
नवयोजनसाहस्रो विस्तारश् च द्विजोत्तमाः ।
कर्मभूमिर् इयं स्वर्गम् अपवर्गं च पृच्छताम् ॥ २ ॥
महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ।
विन्ध्यश् च पारियात्रश् च सप्तात्र कुलपर्वताः ॥ ३ ॥
अतः सम्प्राप्यते स्वर्गो मुक्तिम् अस्मात् प्रयाति वै ।
तिर्यक्त्वं नरकं चापि यान्त्य् अतः पुरुषा द्विजाः ॥ ४ ॥
इतः स्वर्गश् च मोक्षश् च मध्यं चान्ते च गच्छति ।
न खल्व् अन्यत्र मर्त्यानां कर्म भूमौ विधीयते ॥ ५ ॥
भारतस्यास्य वर्षस्य नव भेदान् निशामय ।
इन्द्रद्वीपः कसेतुमांस् ताम्रपर्णो गभस्तिमान् ॥ ६ ॥
नागद्वीपस् तथा सौम्यो गन्धर्वस् त्व् अथ वारुणः ।
अयं तु नवमस् तेषां द्वीपः सागरसंवृतः ॥ ७ ॥
योजनानां सहस्रं च द्वीपो ऽयं दक्षिणोत्तरात् ।
पूर्वे किरातास् तिष्ठन्ति पश्चिमे यवनाः स्थिताः ॥ ८ ॥
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश् च भागशः ।
इज्यायुद्धवणिज्याद्यवृत्तिमन्तो व्यवस्थिताः ॥ ९ ॥
शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः ।
वेदस्मृतिमुखाश् चान्याः पारियात्रोद्भवा मुने ॥ १० ॥
नर्मदासुरमाद्याश् च नद्यो विन्ध्यविनिःसृताः ।
तापीपयोष्णीनिर्विन्ध्याकावेरीप्रमुखा नदीः ॥ ११ ॥
ऋक्षपादोद्भवा ह्य् एताः श्रुताः पापं हरन्ति याः ।
गोदावरीभीमरथीकृष्णवेण्यादिकास् तथा ॥ १२ ॥
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ।
कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः ॥ १३ ॥
त्रिसान्ध्यर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ।
ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ॥ १४ ॥
आसां नद्युपनद्यश् च सन्त्य् अन्यास् तु सहस्रशः ।
तास्व् इमे कुरुपञ्चालमध्यदेशादयो जनाः ॥ १५ ॥
पूर्वदेशादिकाश् चैव कामरूपनिवासिनः ।
पौण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश् च सर्वशः ॥ १६ ॥
तथा परान्त्याः सौराष्ट्राः शूद्राभीरास् तथार्बुदाः ।
मारुका मालवाश् चैव पारियात्रनिवासिनः ॥ १७ ॥
सौवीराः सैन्धवापन्नाः शाल्वाः शाकलवासिनः ।
मद्रारामास् तथाम्बष्ठाः पारसीकादयस् तथा ॥ १८ ॥
आसां पिबन्ति सलिलं वसन्ति सरितां सदा ।
समोपेता महाभाग हृष्टपुष्टजनाकुलाः ॥ १९ ॥
वसन्ति भारते वर्षे युगान्य् अत्र महामुने ।
कृतं त्रेता द्वापरं च कलिश् चान्यत्र न क्वचित् ॥ २० ॥
तपस् तप्यन्ति यतयो जुह्वते चात्र यज्विनः ।
दानानि चात्र दीयन्ते परलोकार्थम् आदरात् ॥ २१ ॥
पुरुषैर् यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ।
यज्ञैर् यज्ञमयो विष्णुर् अन्यद्वीपेषु चान्यथा ॥ २२ ॥
अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने ।
यतो हि कर्मभूर् एषा यतो ऽन्या भोगभूमयः ॥ २३ ॥
अत्र जन्मसहस्राणां सहस्रैर् अपि सत्तम ।
कदाचिल् लभते जन्तुर् मानुष्यं पुण्यसञ्चयन् ॥ २४ ॥
गायन्ति देवाः किल गीतकानि ।
धन्यास् तु ये भारतभूमिभागे ।
स्वर्गापवर्गास्पदहेतुभूते ।
भवन्ति भूयः पुरुषा मनुष्याः ॥ २५ ॥
कर्माण्य् असङ्कल्पिततत्फलानि ।
सन्न्यस्य विष्णौ परमात्मरूपे ।
अवाप्य तां कर्ममहीम् अनन्ते ।
तस्मिंल् लयं ये त्व् अमलाः प्रयान्ति ॥ २६ ॥
जानीम नो तत्कूवयं विलीने ।
स्वर्गप्रदे कर्मणि देहबन्धम् ।
प्राप्स्यन्ति धन्याः खलु ते मनुष्या ।
ये भारतेनेन्द्रियविप्रहीनाः ॥ २७ ॥
नववर्षं च भो विप्रा जम्बूद्वीपम् इदं मया ।
लक्षयोजनविस्तारं सङ्क्षेपात् कथितं द्विजाः ॥ २८ ॥
जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः ।
भो द्विजा वलयाकारः स्थितः क्षीरोदधिर् बहिः ॥ २९ ॥