Summary (SA)
Chapter 18- Description of Jambūdvīpa
{{Ref- SS 46-50}}
मुनय ऊचुः-
अहो सुमहद् आख्यानं भवता परिकीर्तितम् ।
भारतानां च सर्वेषां पार्थिवानां तथैव च ॥ १ ॥
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
दैत्यानाम् अथ सिद्धानां गुह्यकानां तथैव च ॥ २ ॥
अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः ।
विविधाश् च कथा दिव्या जन्म चाग्र्यम् अनुत्तमम् ॥ ३ ॥
सृष्टिः प्रजापतेः सम्यक् त्वया प्रोक्ता महामते ।
प्रजापतीनां सर्वेषां गुह्यकाप्सरसां तथा ॥ ४ ॥
स्थावरं जङ्गमं सर्वम् उत्पन्नं विविधं जगत् ।
त्वया प्रोक्तं महाभाग श्रुतं चैतन् मनोहरम् ॥ ५ ॥
कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा ।
मनःकर्णसुखं सम्यक् प्रीणात्य् अमृतसम्मितम् ॥ ६ ॥
इदानीं श्रोतुम् इच्छामः सकलं मण्डलं भुवः ।
वक्तुम् अर्हसि सर्वज्ञ परं कौतूहलं हि नः ॥ ७ ॥
यावन्तः सागरा द्वीपास् तथा वर्षाणि पर्वताः ।
वनानि सरितः पुण्यदेवादीनां महामते ॥ ८ ॥
यत्प्रमाणम् इदं सर्वं यदाधारं यदात्मकम् ।
संस्थानम् अस्य जगतो यथावद् वक्तुम् अर्हसि ॥ ९ ॥
लोमहर्षण उवाच-
मुनयः श्रूयताम् एतत् सङ्क्षेपाद् वदतो मम ।
नास्य वर्षशतेनापि वक्तुं शक्यो ऽतिविस्तरः ॥ १० ॥
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश् चापरो द्विजाः ।
कुशः क्रौञ्चस् तथा शाकः पुष्करश् चैव सप्तमः ॥ ११ ॥
एते द्वीपाः समुद्रैस् तु सप्त सप्तभिर् आवृताः ।
लवणेक्षुसुरासर्पिर् दधिदुग्धजलैः समम् ॥ १२ ॥
जम्बूद्वीपः समस्तानाम् एतेषां मध्यसंस्थितः ।
तस्यापि मध्ये विप्रेन्द्रा मेरुः कनकपर्वतः ॥ १३ ॥
चतुरशीतिसाहस्रैर् योजनैस् तस्य चोच्छ्रयः ।
प्रविष्टः षोडशाधस्ताद् द्वात्रिंशन् मूर्ध्नि विस्तृतः ॥ १४ ॥
मूले षोडशसाहस्रैर् विस्तारस् तस्य सर्वतः ।
भूपद्मस्यास्य शैलो ऽसौ कर्णिकाकारसंस्थितः ॥ १५ ॥
हिमवान् हेमकूटश् च निषधस् तस्य दक्षिणे ।
नीलः श्वेतश् च शृङ्गी च उत्तरे वर्षपर्वताः ॥ १६ ॥
लक्षप्रमाणौ द्वौ मध्ये दशहीनास् तथापरे ।
सहस्रद्वितयोच्छ्रायास् तावद्विस्तारिणश् च ते ॥ १७ ॥
भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् ।
हरिवर्षं तथैवान्यन् मेरोर् दक्षिणतो द्विजाः ॥ १८ ॥
रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्मयम् ।
उत्तराः कुरवश् चैव यथा वै भारतं तथा ॥ १९ ॥
नवसाहस्रम् एकैकम् एतेषां द्विजसत्तमाः ।
इलावृतं च तन्मध्ये सौवर्णो मेरुर् उच्छ्रितः ॥ २० ॥
मेरोश् चतुर्दिशं तत्र नवसाहस्रविस्तृतम् ।
इलावृतं महाभागाश् चत्वारश् चात्र पर्वताः ॥ २१ ॥
विष्कम्भा वितता मेरोर् योजनायुतविस्तृताः ।
पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ २२ ॥
विपुलः पश्चिमे पार्श्वे सुपार्श्वश् चोत्तरे स्थितः ।
कदम्बस् तेषु जम्बूश् च पिप्पलो वट एव च ॥ २३ ॥
एकादशशतायामाः पादपा गिरिकेतवः ।
जम्बूद्वीपस्य सा जम्बूर् नामहेतुर् द्विजोत्तमाः ॥ २४ ॥
महागजप्रमाणानि जम्ब्वास् तस्याः फलानि वै ।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ २५ ॥
रसेन तेषां विख्याता तत्र जम्बूनदीति वै ।
सरित् प्रवर्तते सा च पीयते तन्निवासिभिः ॥ २६ ॥
न खेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ।
तत्पानस्वस्थमनसां जनानां तत्र जायते ॥ २७ ॥
तीरमृत् तद्रसं प्राप्य सुखवायुविशोषिता ।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ २८ ॥
भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे ।
वर्षे द्वे तु मुनिश्रेष्ठास् तयोर् मध्ये त्व् इलावृतम् ॥ २९ ॥
वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् ।
वैभ्राजं पश्चिमे तद्वद् उत्तरे नन्दनं स्मृतम् ॥ ३० ॥
अरुणोदं महाभद्रम् असितोदं समानसम् ।
सरांस्य् एतानि चत्वारि देवभोग्यानि सर्वदा ॥ ३१ ॥
शान्तवांश् चक्रकुञ्जश् च कुररी माल्यवांस् तथा ।
वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ ३२ ॥
त्रिकूटः शिशिरश् चैव पतङ्गो रुचकस् तथा ।
निषधादयो दक्षिणतस् तस्य केसरपर्वताः ॥ ३३ ॥
शिखिवासः सवैदूर्यः कपिलो गन्धमादनः ।
जानुधिप्रमुखास् तद्वत् पश्चिमे केसराचलाः ॥ ३४ ॥
मेरोर् अनन्तरास् ते च जठरादिष्व् अवस्थिताः ।
शङ्खकूटो ऽथ ऋषभो हंसो नागस् तथापराः ॥ ३५ ॥
कालञ्जराद्याश् च तथा उत्तरे केसराचलाः ।
चतुर्दश सहस्राणि योजनानां महापुरी ॥ ३६ ॥
मेरोर् उपरि विप्रेन्द्रा ब्रह्मणः कथिता दिवि ।
तस्यां समन्ततश् चाष्टौ दिशासु विदिशासु च ॥ ३७ ॥
इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः ।
विष्णुपादविनिष्क्रान्ता प्लावयन्तीन्दुमण्डलम् ॥ ३८ ॥
समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै दिवि ।
सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत ॥ ३९ ॥
सीता चालकनन्दा च चक्षुर् बध्रा च वै क्रमात् ।
पूर्वेण सीता शैलाच् च शैलं यान्त्य् अन्तरिक्षगा ॥ ४० ॥
ततश् च पूर्ववर्षेण भद्राश्वेनैति सार्णवम् ।
तथैवालकनन्दा च दक्षिणेनैत्य भारतम् ॥ ४१ ॥
प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः ।
चक्षुश् च पश्चिमगिरीन् अतीत्य सकलांस् ततः ॥ ४२ ॥
पश्चिमं केतुमालाख्यं वर्षम् अन्वेति सार्णवम् ।
भद्रा तथोत्तरगिरीन् उत्तरांश् च तथा कुरून् ॥ ४३ ॥
अतीत्योत्तरम् अम्भोधिं समभ्येति द्विजोत्तमाः ।
आनीलनिषधायामौ माल्यवद्गन्धमादनौ ॥ ४४ ॥
तयोर् मध्यगतो मेरुः कर्णिकाकारसंस्थितः ।
भारताः केतुमालाश् च भद्राश्वाः कुरवस् तथा ॥ ४५ ॥
पत्त्राणि लोकशैलस्य मर्यादाशैलबाह्यतः ।
जठरो देवकूटश् च मर्यादापर्वताव् उभौ ॥ ४६ ॥
तौ दक्षिणोत्तरायामाव् आनीलनिषधायतौ ।
गन्धमादनकैलासौ पूर्वपश्चात् तु ताव् उभौ ॥ ४७ ॥
अशीतियोजनायामाव् अर्णवान्तर्व्यवस्थितौ ।
निषधः पारियात्रश् च मर्यादापर्वताव् उभौ ॥ ४८ ॥
तौ दक्षिणोत्तरायामाव् आनीलनिषधायतौ ।
मेरोः पश्चिमदिग्भागे यथा पूर्वौ तथा स्थितौ ॥ ४९ ॥
त्रिशृङ्गो जारुधिश् चैव उत्तरौ वर्षपर्वतौ ।
पूर्वपश्चायताव् एताव् अर्णवान्तर्व्यवस्थितौ ॥ ५० ॥
इत्य् एते हि मया प्रोक्ता मर्यादापर्वता द्विजाः ।
जठरावस्थिता मेरोर् येषां द्वौ द्वौ चतुर्दिशम् ॥ ५१ ॥
मेरोश् चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः ।
शीतान्ताद्या द्विजास् तेषाम् अतीव हि मनोहराः ॥ ५२ ॥
शैलानाम् अन्तरद्रोण्यः सिद्धचारणसेविताः ।
सुरम्याणि तथा तासु काननानि पुराणि च ॥ ५३ ॥
लक्ष्मीविष्ण्वग्निसूर्येन्द्रदेवानां मुनिसत्तमाः ।
तास्व् आयतनवर्याणि जुष्टानि नरकिन्नरैः ॥ ५४ ॥
गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः ।
क्रीडन्ति तासु रम्यासु शैलद्रोणीष्व् अहर्निशम् ॥ ५५ ॥
भौमा ह्य् एते स्मृताः स्वर्गा धर्मिणाम् आलया द्विजाः ।
नैतेषु पापकर्तारो यान्ति जन्मशतैर् अपि ॥ ५६ ॥
भद्राश्वे भगवान् विष्णुर् आस्ते हयशिरा द्विजाः ।
वाराहः केतुमाले तु भारते कूर्मरूपधृक् ॥ ५७ ॥
मत्स्यरूपश् च गोविन्दः कुरुष्व् आस्ते सनातनः ।
विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः ॥ ५८ ॥
सर्वस्याधारभूतो ऽसौ द्विजा आस्ते ऽखिलात्मकः ।
यानि किम्पुरुषाद्यानि वर्षाण्य् अष्टौ द्विजोत्तमाः ॥ ५९ ॥
न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् ।
सुस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः ॥ ६० ॥
दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः ।
नैतेषु भौमान्य् अन्यानि क्षुत्पिपासादि नो द्विजाः ॥ ६१ ॥
कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना ।
सर्वेष्व् एतेषु वर्षेषु सप्त सप्त कुलाचलाः ।
नद्यश् च शतशस् तेभ्यः प्रसूता या द्विजोत्तमाः ॥ ६२ ॥