017

Summary (SA)

Chapter 17- Story of the Syamantaka-jewel (part 2)

{{Ref- SS 45-46}}

लोमहर्षण उवाच-

यत् तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् ।
ददाव् अहारयद् बभ्रुर् भोजेन शतधन्वना ॥ १ ॥

सदा हि प्रार्थयाम् आस सत्यभामाम् अनिन्दिताम् ।
अक्रूरो ऽन्तरम् अन्विष्यन् मणिं चैव स्यमन्तकम् ॥ २ ॥

सत्राजितं ततो हत्वा शतधन्वा महाबलः ।
रात्रौ तं मणिम् आदाय ततो ऽक्रूराय दत्तवान् ॥ ३ ॥

अक्रूरस् तु तदा विप्रा रत्नम् आदाय चोत्तमम् ।
समयं कारयां चक्रे नावेद्यो ऽहं त्वयेत्य् उत ॥ ४ ॥

वयम् अभ्युत्प्रपत्स्यामः कृष्णेन त्वां प्रधर्षितम् ।
ममाद्य द्वारका सर्वा वशे तिष्ठत्य् असंशयम् ॥ ५ ॥

हते पितरि दुःखार्ता सत्यभामा मनस्विनी ।
प्रययौ रथम् आरुह्य नगरं वारणावतम् ॥ ६ ॥

सत्यभामा तु तद् वृत्तं भोजस्य शतधन्वनः ।
भर्तुर् निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्य् अवर्तयत् ॥ ७ ॥

पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम् ।
कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥ ८ ॥

ततस् त्वरितम् आगम्य द्वारकां मधुसूदनः ।
पूर्वजं हलिनं श्रीमान् इदं वचनम् अब्रवीत् ॥ ९ ॥

श्रीकृष्ण उवाच-

हतः प्रसेनः सिंहेन सत्राजिच् छतधन्वना ।
स्यमन्तकस् तु मद्नामी तस्य प्रभुर् अहं विभो ॥ १० ॥

तद् आरोह रथं शीघ्रं भोजं हत्वा महारथम् ।
स्यमन्तको महाबाहो अस्माकं स भविष्यति ॥ ११ ॥

लोमहर्षण उवाच-

ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः ।
शतधन्वा ततो ऽक्रूरं सर्वतोदिशम् ऐक्षत ॥ १२ ॥

संरब्धौ ताव् उभौ तत्र दृष्ट्वा भोजजनार्दनौ ।
शक्तो ऽपि शापाद् धार्दिक्यम् अक्रूरो नान्वपद्यत ॥ १३ ॥

अपयाने ततो बुद्धिं भोजश् चक्रे भयार्दितः ।
योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥ १४ ॥

विख्याता हृदया नाम शतयोजनगामिनी ।
भोजस्य वडवा विप्रा यया कृष्णम् अयोधयत् ॥ १५ ॥

क्षीणां जवेन हृदयाम् अध्वनः शतयोजने ।
दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानम् अर्दयत् ॥ १६ ॥

ततस् तस्या हतायास् तु श्रमात् खेदाच् च भो द्विजाः ।
खम् उत्पेतुर् अथ प्राणाः कृष्णो रामम् अथाब्रवीत् ॥ १७ ॥

श्रीकृष्ण उवाच-

तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया ।
पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ १८ ॥

पद्भ्याम् एव ततो गत्वा शतधन्वानम् अच्युतः ।
मिथिलाम् अभितो विप्रा जघान परमास्त्रवित् ॥ १९ ॥

स्यमन्तकं च नापश्यद् धत्वा भोजं महाबलम् ।
निवृत्तं चाब्रवीत् कृष्णं मणिं देहीति लाङ्गली ॥ २० ॥

नास्तीति कृष्णश् चोवाच ततो रामो रुषान्वितः ।
धिक्शब्दपूर्वम् असकृत् प्रत्युवाच जनार्दनम् ॥ २१ ॥

बलराम उवाच-

भ्रातृत्वान् मर्षयाम्य् एष स्वस्ति ते ऽस्तु व्रजाम्य् अहम् ।
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ २२ ॥

प्रविवेश ततो रामो मिथिलाम् अरिमर्दनः ।
सर्वकामैर् उपहृतैर् मिथिलेनाभिपूजितः ॥ २३ ॥

एतस्मिन्न् एव काले तु बभ्रुर् मतिमतां वरः ।
नानारूपान् क्रतून् सर्वान् आजहार निरर्गलान् ॥ २४ ॥

दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह ।
स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥ २५ ॥

अथ रत्नानि चान्यानि धनानि विविधानि च ।
षष्टिं वर्षाणि धर्मात्मा यज्ञेष्व् एव न्ययोजयत् ॥ २६ ॥

अक्रूरयज्ञा इति ते ख्यातास् तस्य महात्मनः ।
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ २७ ॥

अथ दुर्योधनो राजा गत्वा स मिथिलां प्रभुः ।
गदाशिक्षां ततो दिव्यां बलदेवाद् अवाप्तवान् ॥ २८ ॥

सम्प्रसाद्य ततो रामो वृष्ण्यन्धकमहारथैः ।
आनीतो द्वारकाम् एव कृष्णेन च महात्मना ॥ २९ ॥

अक्रूरश् चान्धकैः सार्धम् आयातः पुरुषर्षभः ।
हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः ॥ ३० ॥

ज्ञातिभेदभयात् कृष्णस् तम् उपेक्षितवांस् तदा ।
अपयाते तदाक्रूरे नावर्षत् पाकशासनः ॥ ३१ ॥

अनावृष्ट्या तदा राष्ट्रम् अभवद् बहुधा कृशम् ।
ततः प्रसादयाम् आसुर् अक्रूरं कुकुरान्धकाः ॥ ३२ ॥

पुनर् द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः ।
प्रववर्ष सहस्राक्षः कक्षे जलनिधेस् तदा ॥ ३३ ॥

कन्यां च वासुदेवाय स्वसारं शीलसम्मताम् ।
अक्रूरः प्रददौ धीमान् प्रीत्यर्थं मुनिसत्तमाः ॥ ३४ ॥

अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् ।
सभामध्यगतः प्राह तम् अक्रूरं जनार्दनः ॥ ३५ ॥

श्रीकृष्ण उवाच-

यत् तद् रत्नं मणिवरं तव हस्तगतं विभो ।
तत् प्रयच्छ च मानार्ह मयि मानार्यकं कृथाः ॥ ३६ ॥

षष्टिवर्षगते काले यो रोषो ऽभून् ममानघ ।
स संरूढो ऽसकृत् प्राप्तस् ततः कालात्ययो महान् ॥ ३७ ॥

स ततः कृष्णवचनात् सर्वसात्वतसंसदि ।
प्रददौ तं मणिं बभ्रुर् अक्लेशेन महामतिः ॥ ३८ ॥

ततस् तम् आर्जवात् प्राप्तं बभ्रोर् हस्ताद् अरिन्दमः ।
ददौ हृष्टमनाः कृष्णस् तं मणिं बभ्रवे पुनः ॥ ३९ ॥

स कृष्णहस्तात् सम्प्राप्तं मणिरत्नं स्यमन्तकम् ।
आबध्य गान्दिनीपुत्रो विरराजांशुमान् इव ॥ ४० ॥