Summary (SA)
Chapter 16- Genealogy of Vṛṣṇyandhakas; story of the Syamantaka-jewel
{{Ref- SS 43-45}}
लोमहर्षण उवाच-
भजमानस्य पुत्रो ऽथ रथमुख्यो विदूरथः ।
राजाधिदेवः शूरस् तु विदूरथसुतो ऽभवत् ॥ १ ॥
राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः ।
दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः ॥ २ ॥
शमी च दण्डशर्मा च दन्तशत्रुश् च शत्रुजित् ।
श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः ॥ ३ ॥
शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः ।
स्वयम्भोजः स्वयम्भोजाद् भदिकः सम्बभूव ह ॥ ४ ॥
तस्य पुत्रा बभूवुर् हि सर्वे भीमपराक्रमाः ।
कृतवर्माग्रजस् तेषां शतधन्वा तु मध्यमः ॥ ५ ॥
देवान्तश् च नरान्तश् च भिषग्वैतरणश् च यः ।
सुदान्तश् चातिदान्तश् च निकाश्यः कामदम्भकः ॥ ६ ॥
देवान्तस्याभवत् पुत्रो विद्वान् कम्बलबर्हिषः ।
असमौजाः सुतस् तस्य नासमौजाश् च ताव् उभौ ॥ ७ ॥
अजातपुत्राय सुतान् प्रददाव् असमौजसे ।
सुदंष्ट्रश् च सुचारुश् च कृष्ण इत्य् अन्धकाः स्मृताः ॥ ८ ॥
गान्धारी चैव माद्री च क्रोष्टुभार्ये बभूवतुः ।
गान्धारी जनयाम् आस अनमित्रं महाबलम् ॥ ९ ॥
माद्री युधाजितं पुत्रं ततो वै देवमीधुषम् ।
अनमित्रम् अमित्राणां जेतारम् अपराजितम् ॥ १० ॥
अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ।
प्रसेनश् चाथ सत्राजिच् छत्रुसेनाजिताव् उभौ ॥ ११ ॥
प्रसेनो द्वारवत्यां तु निवसन् यो महामणिम् ।
दिव्यं स्यमन्तकं नाम स सूर्याद् उपलब्धवान् ॥ १२ ॥
तस्य सत्राजितः सूर्यः सखा प्राणसमो ऽभवत् ।
स कदाचिन् निशापाये रथेन रथिनां वरः ॥ १३ ॥
तोयकूलम् अपः स्प्रष्टुम् उपस्थातुं ययौ रविम् ।
तस्योपतिष्ठतः सूर्यं विवस्वान् अग्रतः स्थितः ॥ १४ ॥
विस्पष्टमूर्तिर् भगवांस् तेजोमण्डलवान् विभुः ।
अथ राजा विवस्वन्तम् उवाच स्थितम् अग्रतः ॥ १५ ॥
यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते ।
तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ॥ १६ ॥
को विशेषो ऽस्ति मे त्वत्तः सख्येनोपगतस्य वै ।
एतच् छ्रुत्वा तु भगवान् मणिरत्नं स्यमन्तकम् ॥ १७ ॥
स्वकण्ठाद् अवमुच्याथ एकान्ते न्यस्तवान् विभुः ।
ततो विग्रहवन्तं तं ददर्श नृपतिस् तदा ॥ १८ ॥
प्रीतिमान् अथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम् ।
तम् अभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ॥ १९ ॥
लोकान् भासयसे सर्वान् येन त्वं सततं प्रभो ।
तद् एतन् मणिरत्नं मे भगवन् दातुम् अर्हसि ॥ २० ॥
ततः स्यमन्तकमणिं दत्तवान् भास्करस् तदा ।
स तम् आबध्य नगरीं प्रविवेश महीपतिः ॥ २१ ॥
तं जनाः पर्यधावन्त सूर्यो ऽयं गच्छतीति ह ।
स्वां पुरीं स विसिष्माय राजा त्व् अन्तःपुरं तथा ॥ २२ ॥
तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् ।
ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिद् उत्तमम् ॥ २३ ॥
स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने ।
कालवर्षी च पर्जन्यो न च व्याधिभयं ह्य् अभूत् ॥ २४ ॥
लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके ।
गोविन्दो न च तं लेभे शक्तो ऽपि न जहार सः ॥ २५ ॥
कदाचिन् मृगयां यातः प्रसेनस् तेन भूषितः ।
स्यमन्तककृते सिंहाद् वधं प्राप वनेचरात् ॥ २६ ॥
अथ सिंहं प्रधावन्तम् ऋक्षराजो महाबलः ।
निहत्य मणिरत्नं तद् आदाय प्राविशद् गुहाम् ॥ २७ ॥
ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् ।
प्रार्थनां तां मणेर् बद्ध्वा सर्व एव शशङ्किरे ॥ २८ ॥
स शङ्क्यमानो धर्मात्मा अकारी तस्य कर्मणः ।
आहरिष्ये मणिम् इति प्रतिज्ञाय वनं ययौ ॥ २९ ॥
यत्र प्रसेनो मृगयां व्यचरत् तत्र चाप्य् अथ ।
प्रसेनस्य पदं गृह्य पुरुषैर् आप्तकारिभिः ॥ ३० ॥
ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिम् उत्तमम् ।
अन्वेषयन् परिश्रान्तः स ददर्श महामनाः ॥ ३१ ॥
साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम् ।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ ३२ ॥
ऋक्षेण निहतो दृष्टः पदैर् ऋक्षस् तु सूचितः ।
पदैस् तैर् अन्वियायाथ गुहाम् ऋक्षस्य माधवः ॥ ३३ ॥
स हि ऋक्षबिले वाणीं शुश्राव प्रमदेरिताम् ।
धात्र्या कुमारम् आदाय सुतं जाम्बवतो द्विजाः ॥ ३४ ॥
क्रीडयन्त्या च मणिना मा रोदीर् इत्य् अथेरिताम् ॥ ३५ ॥
धात्र्य् उवाच-
सिंहः प्रसेनम् अवधीत् सिंहो जाम्बवता हतः ।
सुकुमारक मा रोदीस् तव ह्य् एष स्यमन्तकः ॥ ३६ ॥
व्यक्तितस् तस्य शब्दस्य तूर्णम् एव बिलं ययौ ।
प्रविश्य तत्र भगवांस् तद् ऋक्षबिलम् अञ्जसा ॥ ३७ ॥
स्थापयित्वा बिलद्वारे यदूंल् लाङ्गलिना सह ।
शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः ॥ ३८ ॥
युयुधे वासुदेवस् तु बिले जाम्बवता सह ।
बाहुभ्याम् एव गोविन्दो दिवसान् एकविंशतिम् ॥ ३९ ॥
प्रविष्टे ऽथ बिले कृष्णे बलदेवपुरःसराः ।
पुरीं द्वारवतीम् एत्य हतं कृष्णं न्यवेदयन् ॥ ४० ॥
वासुदेवो ऽपि निर्जित्य जाम्बवन्तं महाबलम् ।
लेभे जाम्बवतीं कन्याम् ऋक्षराजस्य सम्मताम् ॥ ४१ ॥
मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये ।
अनुनीयर्क्षराजं तु निर्ययौ च ततो बिलात् ॥ ४२ ॥
उपायाद् द्वारकां कृष्णः स विनीतैः पुरःसरैः ।
एवं स मणिम् आहृत्य विशोध्यात्मानम् अच्युतः ॥ ४३ ॥
ददौ सत्राजिते तं वै सर्वसात्वतसंसदि ।
एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना ॥ ४४ ॥
आत्मा विशोधितः पापाद् विनिर्जित्य स्यमन्तकम् ।
सत्राजितो दश त्व् आसन् भार्यास् तासां शतं सुताः ॥ ४५ ॥
ख्यातिमन्तस् त्रयस् तेषां भगङ्कारस् तु पूर्वजः ।
वीरो वातपतिश् चैव वसुमेधस् तथैव च ॥ ४६ ॥
कुमार्यश् चापि तिस्रो वै दिक्षु ख्याता द्विजोत्तमाः ।
सत्यभामोत्तमा तासां व्रतिनी च दृढव्रता ॥ ४७ ॥
तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ ।
सभाक्षो भङ्गकारिस् तु नावेयश् च नरोत्तमौ ॥ ४८ ॥
जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा ।
माद्र्याः पुत्रो ऽथ जज्ञे ऽथ वृष्णिपुत्रो युधाजितः ॥ ४९ ॥
जज्ञाते तनयौ वृष्णेः श्वफल्कश् चित्रकस् तथा ।
श्वफल्कः काशिराजस्य सुतां भार्याम् अविन्दत ॥ ५० ॥
गान्दिनीं नाम तस्याश् च गाः सदा प्रददौ पिता ।
तस्यां जज्ञे महाबाहुः श्रुतवान् अतिथिप्रियः ॥ ५१ ॥
अक्रूरो ऽथ महाभागो जज्ञे विपुलदक्षिणः ।
उपमद्गुस् तथा मद्गुर् मुदरश् चारिमर्दनः ॥ ५२ ॥
आरिक्षेपस् तथोपेक्षः शत्रुहा चारिमेजयः ।
धर्मभृच् चापि धर्मा च गृध्रभोजान्धकस् तथा ॥ ५३ ॥
आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ।
विश्रुताश्वस्य महिषी कन्या चास्य वसुन्धरा ॥ ५४ ॥
रूपयौवनसम्पन्ना सर्वसत्त्वमनोहरा ।
अक्रूरेणोग्रसेनायां सुतौ वै कुलनन्दनौ ॥ ५५ ॥
वसुदेवश् चोपदेवश् च जज्ञाते देववर्चसौ ।
चित्रकस्याभवन् पुत्राः पृथुर् विपृथुर् एव च ॥ ५६ ॥
अश्वग्रीवो ऽश्वबाहुश् च सुपार्श्वकगवेषणौ ।
अरिष्टनेमिश् च सुता धर्मो धर्मभृद् एव च ॥ ५७ ॥
सुबाहुर् बहुबाहुश् च श्रविष्ठाश्रवणे स्त्रियौ ।
इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम् ॥ ५८ ॥
वेद मिथ्याभिशापास् तं न स्पृशन्ति कदाचन ॥ ५९ ॥