015

Summary (SA)

Chapter 15- Genealogy of the Bhojas and the Kukuras

{{Ref- SS 41-43}}

लोमहर्षण उवाच-

क्रोष्टोर् अथाभवत् पुत्रो वृजिनीवान् महायशाः ।
वार्जिनीवतम् इच्छन्ति स्वाहिं स्वाहाकृतां वरम् ॥ १ ॥

स्वाहिपुत्रो ऽभवद् राजा उषद्गुर् वदतां वरः ।
महाक्रतुभिर् ईजे यो विविधैर् भूरिदक्षिणैः ॥ २ ॥

ततः प्रसूतिम् इच्छन् वै उषद्गुः सो ऽग्र्यम् आत्मजम् ।
जज्ञे चित्ररथस् तस्य पुत्रः कर्मभिर् अन्वितः ॥ ३ ॥

आसीच् चैत्ररथिर् वीरो यज्वा विपुलदक्षिणः ।
शशबिन्दुः परं वृत्तं राजर्षीणाम् अनुष्ठितः ॥ ४ ॥

पृथुश्रवाः पृथुयशा राजासीच् छाशिबिन्दवः ।
शंसन्ति च पुराणज्ञाः पार्थश्रवसम् अन्तरम् ॥ ५ ॥

अन्तरस्य सुयज्ञस् तु सुयज्ञतनयो ऽभवत् ।
उषतो यज्ञम् अखिलं स्वधर्मे च कृतादरः ॥ ६ ॥

शिनेयुर् अभवत् पुत्र उषतः शत्रुतापनः ।
मरुतस् तस्य तनयो राजर्षिर् अभवन् नृपः ॥ ७ ॥

मरुतो ऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् ।
चचार विपुलं धर्मम् अमर्षात् प्रत्यभाग् अपि ॥ ८ ॥

स सत्प्रसूतिम् इच्छन् वै सुतं कम्बलबर्हिषः ।
बभूव रुक्मकवचः शतप्रसवतः सुतः ॥ ९ ॥

निहत्य रुक्मकवचः शतं कवचिनां रणे ।
धन्विनां निशितैर् बाणैर् अवाप श्रियम् उत्तमाम् ॥ १० ॥

जज्ञे च रुक्मकवचात् परजित् परवीरहा ।
जज्ञिरे पञ्च पुत्रास् तु महावीर्याः पराजिताः ॥ ११ ॥

रुक्मेषुः पृथुरुक्मश् च ज्यामघः पालितो हरिः ।
पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥ १२ ॥

रुक्मेषुर् अभवद् राजा पृथुरुक्मस्य संश्रयात् ।
ताभ्यां प्रव्राजितो राजा ज्यामघो ऽवसद् आश्रमे ॥ १३ ॥

प्रशान्तश् च तदा राजा ब्राह्मणैश् चावबोधितः ।
जगाम धनुर् आदाय देशम् अन्यं ध्वजी रथी ॥ १४ ॥

नर्मदाकूलम् एकाकीम् एकलां मृत्तिकावतीम् ।
ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्याम् उवास सः ॥ १५ ॥

ज्यामघस्याभवद् भार्या शैब्या बलवती सती ।
अपुत्रो ऽपि स राजा वै नान्यां भार्याम् अविन्दत ॥ १६ ॥

तस्यासीद् विजयो युद्धे तत्र कन्याम् अवाप सः ।
भार्याम् उवाच सन्त्रस्तः स्नुषेति स जनेश्वरः ॥ १७ ॥

एतच् छ्रुत्वाब्रवीद् देवी कस्य देव स्नुषेति वै ।
अब्रवीत् तद् उपश्रुत्य ज्यामघो राजसत्तमः ॥ १८ ॥

राजोवाच-

यस् ते जनिष्यते पुत्रस् तस्य भार्योपपादिता ॥ १९ ॥

लोमहर्षण उवाच-

उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत ।
पुत्रं विदर्भं सुभागा शैब्या परिणता सती ॥ २० ॥

राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ ।
पश्चाद् विदर्भो ऽजनयच् छूरौ रणविशारदौ ॥ २१ ॥

भीमो विदर्भस्य सुतः कुन्तिस् तस्यात्मजो ऽभवत् ।
कुन्तेर् धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् ॥ २२ ॥

धृष्टस्य जज्ञिरे शूरास् त्रयः परमधार्मिकाः ।
आवन्तश् च दशार्हश् च बली विषहरश् च सः ॥ २३ ॥

दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते ।
जीमूतपुत्रो विकृतिस् तस्य भीमरथः स्मृतः ॥ २४ ॥

अथ भीमरथस्यासीत् पुत्रो नवरथस् तथा ।
तस्य चासीद् दशरथः शकुनिस् तस्य चात्मजः ॥ २५ ॥

तस्मात् करम्भः कारम्भिर् देवरातो ऽभवन् नृपः ।
देवक्षत्रो ऽभवत् तस्य वृद्धक्षत्रो महायशाः ॥ २६ ॥

देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः ।
मधूनां वंशकृद् राजा मधुर् मधुरवाग् अपि ॥ २७ ॥

मधोर् जज्ञे ऽथ वैदर्भ्यां पुरुद्वान् पुरुषोत्तमः ।
ऐक्ष्वाकी चाभवद् भार्या मधोस् तस्यां व्यजायत ॥ २८ ॥

सत्वान् सर्वगुणोपेतः सात्वता कीर्तिवर्धनः ।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः ।
युज्यते परमप्रीत्या प्रजावांश् च भवेत् सदा ॥ २९ ॥

लोमहर्षण उवाच-

सत्वतः सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान् ।
भागिनं भजमानं च दिव्यं देवावृधं नृपम् ॥ ३० ॥

अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम् ।
तेषां विसर्गाश् चत्वारो विस्तरेणेह कीर्तिताः ॥ ३१ ॥

भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका ।
आस्तां भार्ये तयोस् तस्माज् जज्ञिरे बहवः सुताः ॥ ३२ ॥

क्रिमिश् च क्रमणश् चैव धृष्टः शूरः पुरञ्जयः ।
एते बाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥ ३३ ॥

आयुताजित् सहस्राजिच् छताजित् त्व् अथ दासकः ।
उपबाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥ ३४ ॥

यज्वा देवावृधो राजा चचार विपुलं तपः ।
पुत्रः सर्वगुणोपेतो मम स्याद् इति निश्चितः ॥ ३५ ॥

संयुज्यमानस् तपसा पर्णाशाया जलं स्पृशन् ।
सदोपस्पृशतस् तस्य चकार प्रियम् आपगा ॥ ३६ ॥

चिन्तयाभिपरीता सा न जगामैव निश्चयम् ।
कल्याणत्वान् नरपतेस् तस्य सा निम्नगोत्तमा ॥ ३७ ॥

नाध्यगच्छत् तु तां नारीं यस्याम् एवंविधः सुतः ।
भवेत् तस्मात् स्वयं गत्वा भवाम्य् अस्य सहानुगा ॥ ३८ ॥

अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः ।
वरयाम् आस नृपतिं ताम् इयेष च स प्रभुः ॥ ३९ ॥

तस्याम् आधत्त गर्भं स तेजस्विनम् उदारधीः ।
अथ सा दशमे मासि सुषुवे सरितां वरा ॥ ४० ॥

पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधं द्विजाः ।
अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम् ॥ ४१ ॥

गुणान् देवावृधस्यापि कीर्तयन्तो महात्मनः ।
यथैवाग्रे तथा दूरात् पश्यामस् तावद् अन्तिकात् ॥ ४२ ॥

बभ्रुः श्रेष्ठो मनुष्याणां देवैर् देवावृधः समः ।
षष्टिश् च षट् च पुरुषाः सहस्राणि च सप्त च ॥ ४३ ॥

एते ऽमृतत्वं प्राप्ता वै बभ्रोर् देवावृधाद् अपि ।
यज्वा दानपतिर् धीमान् ब्रह्मण्यः सुदृढायुधः ॥ ४४ ॥

तस्यान्ववायः सुमहान् भोजा ये सार्तिकावताः ।
अन्धकात् काश्यदुहिता चतुरो ऽलभतात्मजान् ॥ ४५ ॥

कुकुरं भजमानं च ससकं बलबर्हिषम् ।
कुकुरस्य सुतो वृष्टिर् वृष्टेस् तु तनयस् तथा ॥ ४६ ॥

कपोतरोमा तस्याथ तिलिरिस् तनयो ऽभवत् ।
जज्ञे पुनर् वसुस् तस्माद् अभिजिच् च पुनर् वसोः ॥ ४७ ॥

तथा वै पुत्रमिथुनं बभूवाभिजितः किल ।
आहुकः श्राहुकश् चैव ख्यातौ ख्यातिमतां वरौ ॥ ४८ ॥

इमां चोदाहरन्त्य् अत्र गाथां प्रति तम् आहुकम् ।
श्वेतेन परिवारेण किशोरप्रतिमो महान् ॥ ४९ ॥

अशीतिवर्मणा युक्त आहुकः प्रथमं व्रजेत् ।
नापुत्रवान् नाशतदो नासहस्रशतायुषः ॥ ५० ॥

नाशुद्धकर्मा नायज्वा यो भोजम् अभितो व्रजेत् ।
पूर्वस्यां दिशि नागानां भोजस्य प्रययुः किल ॥ ५१ ॥

सोमात् सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् ।
रथानां मेघघोषाणां सहस्राणि दशैव तु ॥ ५२ ॥

रौप्यकाञ्चनकक्षाणां सहस्राण्य् एकविंशतिः ।
तावत्य् एव सहस्राणि उत्तरस्यां तथा दिशि ॥ ५३ ॥

आभूमिपाला भोजास् तु सन्ति ज्याकिङ्किणीकिनः ।
आहुः किं चाप्य् अवन्तिभ्यः स्वसारं ददुर् अन्धकाः ॥ ५४ ॥

आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः ।
देवकश् चोग्रसेनश् च देवगर्भसमाव् उभौ ॥ ५५ ॥

देवकस्याभवन् पुत्राश् चत्वारस् त्रिदशोपमाः ।
देववान् उपदेवश् च सन्देवो देवरक्षितः ॥ ५६ ॥

कुमार्यः सप्त चास्याथ वसुदेवाय ता ददौ ।
देवकी शान्तिदेवा च सुदेवा देवरक्षिता ॥ ५७ ॥

वृकदेव्य् उपदेवी च सुनाम्नी चैव सप्तमी ।
नवोग्रसेनस्य सुतास् तेषां कंसस् तु पूर्वजः ॥ ५८ ॥

न्यग्रोधश् च सुनामा च तथा कङ्कः सुभूषणः ।
राष्ट्रपालो ऽथ सुतनुर् अनावृष्टिस् तु पुष्टिमान् ॥ ५९ ॥

तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा ।
सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥ ६० ॥

उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः ।
कुकुराणाम् इमं वंशं धारयन्न् अमितौजसाम् ॥ ६१ ॥

आत्मनो विपुलं वंशं प्रजावान् आप्नुयान् नरः ॥ ६२ ॥