014

Summary (SA)

Chapter 14- The lunar dynasty (cont.)- Genealogy of Kṛṣṇa

{{Ref- SS 38-41}}

लोमहर्षण उवाच-

गान्धारी चैव माद्री च क्रोष्टोर् भार्ये बभूवतुः ।
गान्धारी जनयाम् आस अनमित्रं महाबलम् ॥ १ ॥

माद्री युधाजितं पुत्रं ततो ऽन्यं देवमीढुषम् ।
तेषां वंशस् त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥ २ ॥

माद्र्याः पुत्रौ तु जज्ञाते श्रुतौ वृष्ण्यन्धकाव् उभौ ।
जज्ञाते तनयौ वृष्णेः श्वफल्कश् चित्रकस् तथा ॥ ३ ॥

श्वफल्कस् तु मुनिश्रेष्ठा धर्मात्मा यत्र वर्तते ।
नास्ति व्याधिभयं तत्र नावर्षस् तपम् एव च ॥ ४ ॥

कदाचित् काशिराजस्य विषये मुनिसत्तमाः ।
त्रीणि वर्षाणि पूर्णानि नावर्षत् पाकशासनः ॥ ५ ॥

स तत्र चानयाम् आस श्वफल्कं परमार्चितम् ।
श्वफल्कपरिवर्तेन ववर्ष हरिवाहनः ॥ ६ ॥

श्वफल्कः काशिराजस्य सुतां भार्याम् अविन्दत ।
गान्दिनीं नाम गां सा च ददौ विप्राय नित्यशः ॥ ७ ॥

दाता यज्वा च वीरश् च श्रुतवान् अतिथिप्रियः ।
अक्रूरः सुषुवे तस्माच् छ्वफल्काद् भूरिदक्षिणः ॥ ८ ॥

उपमद्गुस् तथा मद्गुर् मेदुरश् चारिमेजयः ।
अविक्षितस् तथाक्षेपः शत्रुघ्नश् चारिमर्दनः ॥ ९ ॥

धर्मधृग् यतिधर्मा च धर्मोक्षान्धकरुस् तथा ।
आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥ १० ॥

अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः ।
प्रसेनश् चोपदेवश् च जज्ञाते देववर्चसौ ॥ ११ ॥

चित्रकस्याभवन् पुत्राः पृथुर् विपृथुर् एव च ।
अश्वग्रीवो ऽश्वबाहुश् च स्वपार्श्वकगवेषणौ ॥ १२ ॥

अरिष्टनेमिर् अश्वश् च सुधर्मा धर्मभृत् तथा ।
सुबाहुर् बहुबाहुश् च श्रविष्ठाश्रवणे स्त्रियौ ॥ १३ ॥

असिक्न्यां जनयाम् आस शूरं वै देवमीढुषम् ।
महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश ॥ १४ ॥

वसुदेवो महाबाहुः पूर्वम् आनकदुन्दुभिः ।
जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि ॥ १५ ॥

आनकानां च संह्रादः सुमहान् अभवद् दिवि ।
पपात पुष्पवर्षश् च शूरस्य जनने महान् ॥ १६ ॥

मनुष्यलोके कृत्स्ने ऽपि रूपे नास्ति समो भुवि ।
यस्यासीत् पुरुषाग्र्यस्य कान्तिश् चन्द्रमसो यथा ॥ १७ ॥

देवभागस् ततो जज्ञे तथा देवश्रवाः पुनः ।
अनाधृष्टिः कनवको वत्सवान् अथ गृञ्जमः ॥ १८ ॥

श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः ।
पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा ॥ १९ ॥

राजाधिदेवी च तथा पञ्चैता वीरमातरः ।
श्रुतश्रवायां चैद्यस् तु शिशुपालो ऽभवन् नृपः ॥ २० ॥

हिरण्यकशिपुर् यो ऽसौ दैत्यराजो ऽभवत् पुरा ।
पृथुकीर्त्यां तु सञ्जज्ञे तनयो वृद्धशर्मणः ॥ २१ ॥

करूषाधिपतिर् वीरो दन्तवक्रो महाबलः ।
पृथां दुहितरं चक्रे कुन्तिस् तां पाण्डुर् आवहत् ॥ २२ ॥

यस्यां स धर्मविद् राजा धर्मो जज्ञे युधिष्ठिरः ।
भीमसेनस् तथा वाताद् इन्द्राच् चैव धनञ्जयः ॥ २३ ॥

लोके प्रतिरथो वीरः शक्रतुल्यपराक्रमः ।
अनमित्राच् छनिर् जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ॥ २४ ॥

शैनेयः सत्यकस् तस्माद् युयुधानश् च सात्यकिः ।
उद्धवो देवभागस्य महाभागः सुतो ऽभवत् ॥ २५ ॥

पण्डितानां परं प्राहुर् देवश्रवसम् उत्तमम् ।
अश्मक्यं प्राप्तवान् पुत्रम् अनाधृष्टिर् यशस्विनम् ॥ २६ ॥

निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा त्व् अजायत ।
श्रुतदेवात्मजास् ते तु नैषादिर् यः परिश्रुतः ॥ २७ ॥

एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्धितः ।
वत्सवते त्व् अपुत्राय वसुदेवः प्रतापवान् ।
अद्भिर् ददौ सुतं वीरं शौरिः कौशिकम् औरसम् ॥ २८ ॥

गण्डूषाय ह्य् अपुत्राय विष्वक्सेनो ददौ सुतान् ।
चारुदेष्णं सुदेष्णं च पञ्चालं कृतलक्षणम् ॥ २९ ॥

असङ्ग्रामेण यो वीरो नावर्तत कदाचन ।
रौक्मिणेयो महाबाहुः कनीयान् द्विजसत्तमाः ॥ ३० ॥

वायसानां सहस्राणि यं यान्तं पृष्ठतो ऽन्वयुः ।
चारून् अद्योपभोक्ष्यामश् चारुदेष्णहतान् इति ॥ ३१ ॥

तन्त्रिजस् तन्त्रिपालश् च सुतौ कनवकस्य तौ ।
वीरुश् चाश्वहनुश् चैव वीरौ ताव् अथ गृञ्जिमौ ॥ ३२ ॥

श्यामपुत्रः शमीकस् तु शमीको राज्यम् आवहत् ।
जुगुप्समानो भोजत्वाद् राजसूयम् अवाप सः ॥ ३३ ॥

अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः ।
वसुदेवसुतान् वीरान् कीर्तयिष्याम्य् अतः परम् ॥ ३४ ॥

वृष्णेस् त्रिविधम् एवं तु बहुशाखं महौजसम् ।
धारयन् विपुलं वंशं नानर्थैर् इह युज्यते ॥ ३५ ॥

याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः ।
पौरवी रोहिणी नाम मदिरादितथावरा ॥ ३६ ॥

वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी ।
सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिता ॥ ३७ ॥

वृकदेव्य् उपदेवी च देवकी चैव सप्तमी ।
सुतनुर् वडवा चैव द्वे एते परिचारिके ॥ ३८ ॥

पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् ।
ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः ॥ ३९ ॥

लेभे ज्येष्ठं सुतं रामं शरण्यं शठम् एव च ।
दुर्दमं दमनं शुभ्रं पिण्डारकम् उशीनरम् ॥ ४० ॥

चित्रा नाम कुमारी च रोहिणीतनया नव ।
चित्रा सुभद्रेति पुनर् विख्याता मुनिसत्तमाः ॥ ४१ ॥

वसुदेवाच् च देवक्यां जज्ञे शौरिर् महायशाः ।
रामाच् च निशठो जज्ञे रेवत्यां दयितः सुतः ॥ ४२ ॥

सुभद्रायां रथी पार्थाद् अभिमन्युर् अजायत ।
अक्रूरात् काशिकन्यायां सत्यकेतुर् अजायत ॥ ४३ ॥

वसुदेवस्य भार्यासु महाभागासु सप्तसु ।
ये पुत्रा जज्ञिरे शूराः समस्तांस् तान् निबोधत ॥ ४४ ॥

भोजश् च विजयश् चैव शान्तिदेवासुताव् उभौ ।
वृकदेवः सुनामायां गदश् चास्तां सुताव् उभौ ॥ ४५ ॥

अगावहं महात्मानं वृकदेवी व्यजायत ।
कन्या त्रिगर्तराजस्य भार्या वै शिशिरायणेः ॥ ४६ ॥

जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम् ।
कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा ॥ ४७ ॥

मिथ्याभिशस्तो गार्ग्यस् तु मन्युनातिसमीरितः ।
घोषकन्याम् उपादाय मैथुनायोपचक्रमे ॥ ४८ ॥

गोपाली चाप्सरास् तस्य गोपस्त्रीवेषधारिणी ।
धारयाम् आस गार्ग्यस्य गर्भं दुर्धरम् अच्युतम् ॥ ४९ ॥

मानुष्यां गर्गभार्यायां नियोगाच् छूलपाणिनः ।
स कालयवनो नाम जज्ञे राजा महाबलः ॥ ५० ॥

वृत्तपूर्वार्धकायस् तु सिंहसंहननो युवा ।
अपुत्रस्य स राज्ञस् तु ववृधे ऽन्तःपुरे शिशुः ॥ ५१ ॥

यवनस्य मुनिश्रेष्ठाः स कालयवनो ऽभवत् ।
आयुध्यमानो नृपतिः पर्यपृच्छद् द्विजोत्तमम् ॥ ५२ ॥

वृष्ण्यन्धककुलं तस्य नारदो ऽकथयद् विभुः ।
अक्षौहिण्या तु सैन्यस्य मथुराम् अभ्ययात् तदा ॥ ५३ ॥

दूतं सम्प्रेषयाम् आस वृष्ण्यन्धकनिवेशनम् ।
ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् ॥ ५४ ॥

समेता मन्त्रयाम् आसुर् यवनस्य भयात् तदा ।
कृत्वा विनिश्चयं सर्वे पलायनम् अरोचयन् ॥ ५५ ॥

विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् ।
कुशस्थलीं द्वारवतीं निवेशयितुम् ईप्सवः ॥ ५६ ॥

इति कृष्णस्य जन्मेदं यः शुचिर् नियतेन्द्रियः ।
पर्वसु श्रावयेद् विद्वान् अनृणः स सुखी भवेत् ॥ ५९ ॥