013

Summary (SA)

Chapter 13- The lunar dynasty (cont.)- The branches of Yayāti’s sons

{{Ref- SS 31-38}}

ब्राह्मणा ऊचुः-

पुरोर् वंशं वयं सूत श्रोतुम् इच्छाम तत्त्वतः ।
द्रुह्यस्यानोर् यदोश् चैव तुर्वसोश् च पृथक् पृथक् ॥ १ ॥

लोमहर्षण उवाच-

शृणुध्वं मुनिशार्दूलाः पुरोर् वंशं महात्मनः ।
विस्तरेणानुपूर्व्या च प्रथमं वदतो मम ॥ २ ॥

पुरोः पुत्रः सुवीरो ऽभून् मनस्युस् तस्य चात्मजः ।
राजा चाभयदो नाम मनस्योर् अभवत् सुतः ॥ ३ ॥

तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः ।
सुधन्वनः सुबाहुश् च रौद्राश्वस् तस्य चात्मजः ॥ ४ ॥

रौद्राश्वस्य दशार्णेयुः कृकणेयुस् तथैव च ।
कक्षेयुस्थण्डिलेयुश् च सन्नतेयुस् तथैव च ॥ ५ ॥

ऋचेयुश् च जलेयुश् च स्थलेयुश् च महाबलः ।
धनेयुश् च वनेयुश् च पुत्रकाश् च दश स्त्रियः ॥ ६ ॥

भद्रा शूद्रा च मद्रा च शलदा मलदा तथा ।
खलदा च ततो विप्रा नलदा सुरसापि च ॥ ७ ॥

तथा गोचपला च स्त्रीरत्नकूटा च ता दश ।
ऋषिर् जातो ऽत्रिवंशे च तासां भर्ता प्रभाकरः ॥ ८ ॥

भद्रायां जनयाम् आस सुतं सोमं यशस्विनम् ।
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ ९ ॥

तमोभिभूते लोके च प्रभा येन प्रवर्तिता ।
स्वस्ति ते ऽस्त्व् इति चोक्त्वा वै पतमानो दिवाकरः ॥ १० ॥

वचनात् तस्य विप्रर्षेर् न पपात दिवो महीम् ।
अत्रिश्रेष्ठानि गोत्राणि यश् चकार महातपाः ॥ ११ ॥

यज्ञेष्व् अत्रेर् बलं चैव देवैर् यस्य प्रतिष्ठितम् ।
स तासु जनयाम् आस पुत्रिकास्व् आत्मकामजान् ॥ १२ ॥

दश पुत्रान् महासत्त्वांस् तपस्य् उग्रे रतांस् तथा ।
ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः ॥ १३ ॥

स्वस्त्यात्रेया इति ख्याताः किञ्च त्रिधनवर्जिताः ।
कक्षेयोस् तनयास् त्व् आसंस् त्रय एव महारथाः ॥ १४ ॥

सभानरश् चाक्षुषश् च परमन्युस् तथैव च ।
सभानरस्य पुत्रस् तु विद्वान् कालानलो नृपः ॥ १५ ॥

कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः ।
सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः ॥ १६ ॥

जनमेजयो मुनिश्रेष्ठाः पुरञ्जयसुतो ऽभवत् ।
जनमेजयस्य राजर्षेर् महाशालो ऽभवत् सुतः ॥ १७ ॥

देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि ।
महामना नाम सुतो महाशालस्य विश्रुतः ॥ १८ ॥

जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः ।
महामनास् तु पुत्रौ द्वौ जनयाम् आस भो द्विजाः ॥ १९ ॥

उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् ।
उशीनरस्य पत्न्यस् तु पञ्च राजर्षिवंशजाः ॥ २० ॥

नृगा कृमिर् नवा दर्वा पञ्चमी च दृषद्वती ।
उशीनरस्य पुत्रास् तु पञ्च तासु कुलोद्वहाः ॥ २१ ॥

तपसा चैव महता जाता वृद्धस्य चात्मजाः ।
नृगायास् तु नृगः पुत्रः कृम्यां कृमिर् अजायत ॥ २२ ॥

नवायास् तु नवः पुत्रो दर्वायाः सुव्रतो ऽभवत् ।
दृषद्वत्यास् तु सञ्जज्ञे शिबिर् औशीनरो नृपः ॥ २३ ॥

शिबेस् तु शिबयो विप्रा यौधेयास् तु नृगस्य ह ।
नवस्य नवराष्ट्रं तु कृमेस् तु कृमिला पुरी ॥ २४ ॥

सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान् निबोधत ।
शिबेस् तु शिबयः पुत्राश् चत्वारो लोकविश्रुताः ॥ २५ ॥

वृषदर्भः सुवीरश् च केकयो मद्रकस् तथा ।
तेषां जनपदाः स्फीता केकया मद्रकास् तथा ॥ २६ ॥

वृषदर्भाः सुवीराश् च तितिक्षोस् तु प्रजास् त्व् इमाः ।
तितिक्षुर् अभवद् राजा पूर्वस्यां दिशि भो द्विजाः ॥ २७ ॥

उषद्रथो महावीर्यः फेनस् तस्य सुतो ऽभवत् ।
फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः ॥ २८ ॥

जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः ।
महायोगी स तु बलिर् बभूव नृपतिः पुरा ॥ २९ ॥

पुत्रान् उत्पादयाम् आस पञ्च वंशकरान् भुवि ।
अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस् तथैव च ॥ ३० ॥

पुण्ड्रः कलिङ्गश् च तथा बालेयं क्षत्रम् उच्यते ।
बालेया ब्राह्मणाश् चैव तस्य वंशकरा भुवि ॥ ३१ ॥

बलेश् च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः ।
महायोगित्वम् आयुश् च कल्पस्य परिमाणतः ॥ ३२ ॥

बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् ।
सङ्ग्रामे चाप्य् अजेयत्वं धर्मे चैव प्रधानताम् ॥ ३३ ॥

त्रैलोक्यदर्शनं चापि प्राधान्यं प्रसवे तथा ।
चतुरो नियतान् वर्णांस् त्वं च स्थापयितेति च ॥ ३४ ॥

इत्य् उक्तो विभुना राजा बलिः शान्तिं परां ययौ ।
कालेन महता विप्राः स्वं च स्थानम् उपागमत् ॥ ३५ ॥

तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः ।
कलिङ्गाः पुण्ड्रकाश् चैव प्रजास् त्व् अङ्गस्य साम्प्रतम् ॥ ३६ ॥

अङ्गपुत्रो महान् आसीद् राजेन्द्रो दधिवाहनः ।
दधिवाहनपुत्रस् तु राजा दिविरथो ऽभवत् ॥ ३७ ॥

पुत्रो दिविरथस्यासीच् छक्रतुल्यपराक्रमः ।
विद्वान् धर्मरथो नाम तस्य चित्ररथः सुतः ॥ ३८ ॥

तेन धर्मरथेनाथ तदा कालञ्जरे गिरौ ।
यजता सह शक्रेण सोमः पीतो महात्मना ॥ ३९ ॥

अथ चित्ररथस्यापि पुत्रो दशरथो ऽभवत् ।
लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥ ४० ॥

तस्य दाशरथिर् वीरश् चतुरङ्गो महायशाः ।
ऋष्यशृङ्गप्रसादेन जज्ञे वंशविवर्धनः ॥ ४१ ॥

चतुरङ्गस्य पुत्रस् तु पृथुलाक्ष इति स्मृतः ।
पृथुलाक्षसुतो राजा चम्पो नाम महायशाः ॥ ४२ ॥

चम्पस्य तु पुरी चम्पा या मालिन्य् अभवत् पुरा ।
पूर्णभद्रप्रसादेन हर्यङ्गो ऽस्य सुतो ऽभवत् ॥ ४३ ॥

ततो वैभाण्डकिस् तस्य वारणं शक्रवारणम् ।
अवतारयाम् आस महीं मन्त्रैर् वाहनम् उत्तमम् ॥ ४४ ॥

हर्यङ्गस्य सुतस् तत्र राजा भद्ररथः स्मृतः ।
पुत्रो भद्ररथस्यासीद् बृहत्कर्मा प्रजेश्वरः ॥ ४५ ॥

बृहद्दर्भः सुतस् तस्य यस्माज् जज्ञे बृहन्मनाः ।
बृहन्मनास् तु राजेन्द्रो जनयाम् आस वै सुतम् ॥ ४६ ॥

नाम्ना जयद्रथं नाम यस्माद् दृढरथो नृपः ।
आसीद् दृढरथस्यापि विश्वजिज् जनमेजयी ॥ ४७ ॥

दायादस् तस्य वैकर्णो विकर्णस् तस्य चात्मजः ।
तस्य पुत्रशतं त्व् आसीद् अङ्गानां कुलवर्धनम् ॥ ४८ ॥

एते ऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया ।
सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥ ४९ ॥

ऋचेयोस् तु मुनिश्रेष्ठा रौद्राश्वतनयस्य वै ।
शृणुध्वं सम्प्रवक्ष्यामि वंशं राज्ञस् तु भो द्विजाः ॥ ५० ॥

ऋचेयोस् तनयो राजा मतिनारो महीपतिः ।
मतिनारसुतास् त्व् आसंस् त्रयः परमधार्मिकाः ॥ ५१ ॥

वसुरोधः प्रतिरथः सुबाहुश् चैव धार्मिकः ।
सर्वे वेदविदश् चैव ब्रह्मण्याः सत्यवादिनः ॥ ५२ ॥

इला नाम तु यस्यासीत् कन्या वै मुनिसत्तमाः ।
ब्रह्मवादिन्य् अधिस्त्री सा तंसुस् ताम् अभ्यगच्छत ॥ ५३ ॥

तंसोः सुतो ऽथ राजर्षिर् धर्मनेत्रः प्रतापवान् ।
ब्रह्मवादी पराक्रान्तस् तस्य भार्योपदानवी ॥ ५४ ॥

उपदानवी ततः पुत्रांश् चतुरो ऽजनयच् छुबान् ।
दुष्यन्तम् अथ सुष्मन्तं प्रवीरम् अनघं तथा ॥ ५५ ॥

दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् ।
स सर्वदमनो नाम नागायुतबलो महान् ॥ ५६ ॥

चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः ।
शकुन्तलायां भरतो यस्य नाम्ना तु भारताः ॥ ५७ ॥

भरतस्य विनष्टेषु तनयेषु महीपतेः ।
मातॄणां तु प्रकोपेण मया तत् कथितं पुरा ॥ ५८ ॥

बृहस्पतेर् अङ्गिरसः पुत्रो विप्रो महामुनिः ।
अयाजयद् भरद्वाजो महद्भिः क्रतुभिर् विभुः ॥ ५९ ॥

पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि ।
ततो ऽथ वितथो नाम भरद्वाजात् सुतो ऽभवत् ॥ ६० ॥

ततो ऽथ वितथे जाते भरतस् तु दिवं ययौ ।
वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ॥ ६१ ॥

स चापि वितथः पुत्राञ् जनयाम् आस पञ्च वै ।
सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ॥ ६२ ॥

कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् ।
काशिकं च महासत्यं तथा गृत्समतिं नृपम् ॥ ६३ ॥

तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः ।
काशिकस्य तु काशेयः पुत्रो दीर्घतपास् तथा ॥ ६४ ॥

बभूव दीर्घतपसो विद्वान् धन्वन्तरिः सुतः ।
धन्वन्तरेस् तु तनयः केतुमान् इति विश्रुतः ॥ ६५ ॥

तथा केतुमतः पुत्रो विद्वान् भीमरथः स्मृतः ।
पुत्रो भीमरथस्यापि वाराणस्यधिपो ऽभवत् ॥ ६६ ॥

दिवोदास इति ख्यातः सर्वक्षत्रप्रणाशनः ।
दिवोदासस्य पुत्रस् तु वीरो राजा प्रतर्दनः ॥ ६७ ॥

प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गव एव च ।
अलर्को राजपुत्रस् तु राजा सन्मतिमान् भुवि ॥ ६८ ॥

हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः ।
आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ ६९ ॥

भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना ।
दिवोदासेन बालेति घृणयासौ विसर्जितः ॥ ७० ॥

अष्टारथो नाम नृपः सुतो भीमरथस्य वै ।
तेन पुत्रेण बालस्य प्रहृतं तस्य भो द्विजाः ॥ ७१ ॥

वैरस्यान्तं मुनिश्रेष्ठाः क्षत्रियेण विधित्सता ।
अलर्कः काशिराजस् तु ब्रह्मण्यः सत्यसङ्गरः ॥ ७२ ॥

षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ।
युवा रूपेण सम्पन्न आसीत् काशिकुलोद्वहः ॥ ७३ ॥

लोपामुद्राप्रसादेन परमायुर् अवाप सः ।
वयसो ऽन्ते मुनिश्रेष्ठा हत्वा क्षेमकराक्षसम् ॥ ७४ ॥

रम्यां निवेशयाम् आस पुरीं वाराणसीं नृपः ।
अलर्कस्य तु दायादः क्षेमको नाम पार्थिवः ॥ ७५ ॥

क्षेमकस्य तु पुत्रो वै वर्षकेतुस् ततो ऽभवत् ।
वर्षकेतोश् च दायादो विभुर् नाम प्रजेश्वरः ॥ ७६ ॥

आनर्तस् तु विभोः पुत्रः सुकुमारस् ततो ऽभवत् ।
सुकुमारस्य पुत्रस् तु सत्यकेतुर् महारथः ॥ ७७ ॥

सुतो ऽभवन् महातेजा राजा परमधार्मिकः ।
वत्सस्य वत्सभूमिस् तु भर्गभूमिस् तु भार्गवात् ॥ ७८ ॥

एते त्व् अङ्गिरसः पुत्रा जाता वंशे ऽथ भार्गवे ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च मुनिसत्तमाः ॥ ७९ ॥

आजमीढो ऽपरो वंशः श्रूयतां द्विजसत्तमाः ।
सुहोत्रस्य बृहत् पुत्रो बृहतस् तनयास् त्रयः ॥ ८० ॥

अजमीढो द्विमीढश् च पुरुमीढश् च वीर्यवान् ।
अजमीढस्य पत्न्यस् तु तिस्रो वै यशसान्विताः ॥ ८१ ॥

नीली च केशिनी चैव धूमिनी च वराङ्गनाः ।
अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् ॥ ८२ ॥

आजह्रे यो महासत्त्रं सर्वमेधमखं विभुम् ।
पतिलोभेन यं गङ्गा विनीतेव ससार ह ॥ ८३ ॥

नेच्छतः प्लावयाम् आस तस्य गङ्गा च तत् सदः ।
तत् तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ ८४ ॥

जह्नुर् अप्य् अब्रवीद् गङ्गां क्रुद्धो विप्रास् तदा नृपः ।
एष ते त्रिषु लोकेषु सङ्क्षिप्यापः पिबाम्य् अहम् ।
अस्य गङ्गे ऽवलेपस्य सद्यः फलम् अवाप्नुहि ॥ ८५ ॥

ततः पीतां महात्मानो दृष्ट्वा गङ्गां महर्षयः ।
उपनिन्युर् महाभागा दुहितृत्वेन जाह्नवीम् ॥ ८६ ॥

युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुर् आवहत् ।
गङ्गाशापेन देहार्धं यस्याः पश्चान् नदीकृतम् ॥ ८७ ॥

जह्नोस् तु दयितः पुत्रो अजको नाम वीर्यवान् ।
अजकस्य तु दायादो बलाकाश्वो महीपतिः ॥ ८८ ॥

बभूव मृगयाशीलः कुशिकस् तस्य चात्मजः ।
पह्नवैः सह संवृद्धो राजा वनचरैः सह ॥ ८९ ॥

कुशिकस् तु तपस् तेपे पुत्रम् इन्द्रसमं विभुम् ।
लभेयम् इति तं शक्रस् त्रासाद् अभ्येत्य जज्ञिवान् ॥ ९० ॥

स गाधिर् अभवद् राजा मघवा कौशिकः स्वयम् ।
विश्वामित्रस् तु गाधेयो विश्वामित्रात् तथाष्टकः ॥ ९१ ॥

अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ।
आजमीढो ऽपरो वंशः श्रूयतां मुनिसत्तमाः ॥ ९२ ॥

अजमीढात् तु नील्यां वै सुशान्तिर् उदपद्यत ।
पुरुजातिः सुशान्तेश् च बाह्याश्वः पुरुजातितः ॥ ९३ ॥

बाह्याश्वतनयाः पञ्च स्फीता जनपदावृताः ।
मुद्गलः सृञ्जयश् चैव राजा बृहदिषुस् तदा ॥ ९४ ॥

यवीनरश् च विक्रान्तः कृमिलाश्वश् च पञ्चमः ।
पञ्चैते रक्षणायालं देशानाम् इति विश्रुताः ॥ ९५ ॥

पञ्चानां ते तु पञ्चालाः स्फीता जनपदावृताः ।
अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः ॥ ९६ ॥

मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः ।
इन्द्रसेना यतो गर्भं वध्न्यं च प्रत्यपद्यत ॥ ९७ ॥

आसीत् पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः ।
सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः ॥ ९८ ॥

सोमदत्तस्य दायादः सहदेवो महायशाः ।
सहदेवसुतश् चापि सोमको नाम विश्रुतः ॥ ९९ ॥

अजमीढसुतो जातः क्षीणे वंशे तु सोमकः ।
सोमकस्य सुतो जन्तुर् यस्य पुत्रशतं बभौ ॥ १०० ॥

तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः ।
आजमीढाः स्मृताश् चैते महात्मानस् तु सोमकाः ॥ १०१ ॥

महिषी त्व् अजमीढस्य धूमिनी पुत्रगृद्धिनी ।
पतिव्रता महाभागा कुलजा मुनिसत्तमाः ॥ १०२ ॥

सा च पुत्रार्थिनी देवी व्रतचर्यासमन्विता ।
ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ॥ १०३ ॥

हुत्वाग्निं विधिवत् सा तु पवित्रा मितभोजना ।
अग्निहोत्रकुशेष्व् एव सुष्वाप मुनिसत्तमाः ॥ १०४ ॥

धूमिन्या स तया देव्या त्व् अजमीढः समीयिवान् ।
ऋक्षं सञ्जनयाम् आस धूम्रवर्णं सुदर्शनम् ॥ १०५ ॥

ऋक्षात् संवरणो जज्ञे कुरुः संवरणात् तथा ।
यः प्रयागाद् अतिक्रम्य कुरुक्षेत्रं चकार ह ॥ १०६ ॥

पुण्यं च रमणीयं च पुण्यकृद्भिर् निषेवितम् ।
तस्यान्ववायः सुमहान् यस्य नाम्नाथ कौरवाः ॥ १०७ ॥

कुरोश् च पुत्राश् चत्वारः सुधन्वा सुधनुस् तथा ।
परीक्षिच् च महाबाहुः प्रवरश् चारिमेजयः ॥ १०८ ॥

परीक्षितस् तु दायादो धार्मिको जनमेजयः ।
श्रुतसेनो ऽग्रसेनश् च भीमसेनश् च नामतः ॥ १०९ ॥

एते सर्वे महाभागा विक्रान्ता बलशालिनः ।
जनमेजयस्य पुत्रस् तु सुरथो मतिमांस् तथा ॥ ११० ॥

सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः ।
विदूरथस्य दायाद ऋक्ष एव महारथः ॥ १११ ॥

द्वितीयस् तु भरद्वाजान् नाम्ना तेनैव विश्रुतः ।
द्वाव् ऋक्षौ सोमवंशे ऽस्मिन् द्वाव् एव च परीक्षितौ ॥ ११२ ॥

भीमसेनास् त्रयो विप्रा द्वौ चापि जनमेजयौ ।
ऋक्षस्य तु द्वितीयस्य भीमसेनो ऽभवत् सुतः ॥ ११३ ॥

प्रतीपो भीमसेनात् तु प्रतीपस्य तु शान्तनुः ।
देवापिर् बाह्लिकश् चैव त्रय एव महारथाः ॥ ११४ ॥

शान्तनोस् त्व् अभवद् भीष्मस् तस्मिन् वंशे द्विजोत्तमाः ।
बाह्लिकस्य तु राजर्षेर् वंशं शृणुत भो द्विजाः ॥ ११५ ॥

बाह्लिकस्य सुतश् चैव सोमदत्तो महायशाः ।
जज्ञिरे सोमदत्तात् तु भूरिर् भूरिश्रवाः शलः ॥ ११६ ॥

उपाध्यायस् तु देवानां देवापिर् अभवन् मुनिः ।
च्यवनपुत्रः कृतक इष्ट आसीन् महात्मनः ॥ ११७ ॥

शान्तनुस् त्व् अभवद् राजा कौरवाणां धुरन्धरः ।
शान्तनोः सम्प्रवक्ष्यामि वंशं त्रैलोक्यविश्रुतम् ॥ ११८ ॥

गाङ्गं देवव्रतं नाम पुत्रं सो ऽजनयत् प्रभुः ।
स तु भीष्म इति ख्यातः पाण्डवानां पितामहः ॥ ११९ ॥

काली विचित्रवीर्यं तु जनयाम् आस भो द्विजाः ।
शान्तनोर् दयितं पुत्रं धर्मात्मानम् अकल्मषम् ॥ १२० ॥

कृष्णद्वैपायनाच् चैव क्षेत्रे वैचित्रवीर्यके ।
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्य् अजीजनत् ॥ १२१ ॥

धृतराष्ट्रस् तु गान्धार्यां पुत्रान् उत्पादयच् छतम् ।
तेषां दुर्योधनः श्रेष्ठः सर्वेषाम् अपि स प्रभुः ॥ १२२ ॥

पाण्डोर् धनञ्जयः पुत्रः सौभद्रस् तस्य चात्मजः ।
अभिमन्योः परीक्षित् तु पिता पारीक्षितस्य ह ॥ १२३ ॥

पारीक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः ।
चन्द्रापीडस् तु नृपतिः सूर्यापीडश् च मोक्षवित् ॥ १२४ ॥

चन्द्रापीडस्य पुत्राणां शतम् उत्तमधन्विनाम् ।
जानमेजयम् इत्य् एवं क्षात्रं भुवि परिश्रुतम् ॥ १२५ ॥

तेषां ज्येष्ठस् तु तत्रासीत् पुरे वारणसाह्वये ।
सत्यकर्णो महाबाहुर् यज्वा विपुलदक्षिणः ॥ १२६ ॥

सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् ।
अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम् ॥ १२७ ॥

तस्माद् वनगता गर्भं यादवी प्रत्यपद्यत ।
सुचारोर् दुहिता सुभ्रूर् मालिनी ग्राहमालिनी ॥ १२८ ॥

सम्भूते स च गर्भे च श्वेतकर्णः प्रजेश्वरः ।
अन्वगच्छत् कृतं पूर्वं महाप्रस्थानम् अच्युतम् ॥ १२९ ॥

सा तु दृष्ट्वा प्रियं तं तु मालिनी पृष्ठतो ऽन्वगात् ।
सुचारोर् दुहिता साध्वी वने राजीवलोचना ॥ १३० ॥

पथि सा सुषुवे बाला सुकुमारं कुमारकम् ।
तम् अपास्याथ तत्रैव राजानं सान्वगच्छत ॥ १३१ ॥

पतिव्रता महाभागा द्रौपदीव पुरा सती ।
कुमारः सुकुमारो ऽसौ गिरिपृष्ठे रुरोद ह ॥ १३२ ॥

दयार्थं तस्य मेघास् तु प्रादुरासन् महात्मनः ।
श्रविष्ठायास् तु पुत्रौ द्वौ पैप्पलादिश् च कौशिकः ॥ १३३ ॥

दृष्ट्वा कृपान्वितौ गृह्य तौ प्राक्षालयतां जले ।
निघृष्टौ तस्य पार्श्वौ तु शिलायां रुधिरप्लुतौ ॥ १३४ ॥

अजश्यामः स पार्श्वाभ्यां घृष्टाभ्यां सुसमाहितः ।
अजश्यामौ तु तत्पार्श्वौ देवेन सम्बभूवतुः ॥ १३५ ॥

अथाजपार्श्व इति वै चक्राते नाम तस्य तौ ।
स तु रेमकशालायां द्विजाभ्याम् अभिवर्धितः ॥ १३६ ॥

रेमकस्य तु भार्या तम् उद्वहत् पुत्रकारणात् ।
रेमत्याः स तु पुत्रो ऽभूद् ब्राह्मणौ सचिवौ तु तौ ॥ १३७ ॥

तेषां पुत्राश् च पौत्राश् च युगपत्तुल्यजीविनः ।
स एष पौरवो वंशः पाण्डवानां महात्मनाम् ॥ १३८ ॥

श्लोको ऽपि चात्र गीतो ऽयं नाहुषेण ययातिना ।
जरासङ्क्रमणे पूर्वं तदा प्रीतेन धीमता ॥ १३९ ॥

अचन्द्रार्कग्रहा भूमिर् भवेद् इयम् असंशयम् ।
अपौरवा मही नैव भविष्यति कदाचन ॥ १४० ॥

एष वः पौरवो वंशो विख्यातः कथितो मया ।
तुर्वसोस् तु प्रवक्ष्यामि द्रुह्योश् चानोर् यदोस् तथा ॥ १४१ ॥

तुर्वसोस् तु सुतो वह्निर् गोभानुस् तस्य चात्मजः ।
गोभानोस् तु सुतो राजा ऐशानुर् अपराजितः ॥ १४२ ॥

करन्धमस् तु ऐशानोर् मरुत्तस् तस्य चात्मजः ।
अन्यस् त्व् आविक्षितो राजा मरुत्तः कथितो मया ॥ १४३ ॥

अनपत्यो ऽभवद् राजा यज्वा विपुलदक्षिणः ।
दुहिता संयता नाम तस्यासीत् पृथिवीपतेः ॥ १४४ ॥

दक्षिणार्थं तु सा दत्ता संवर्ताय महात्मने ।
दुष्यन्तं पौरवं चापि लेभे पुत्रम् अकल्मषम् ॥ १४५ ॥

एवं ययातिशापेन जरासङ्क्रमणे तदा ।
पौरवं तुर्वसोर् वंशं प्रविवेश द्विजोत्तमाः ॥ १४६ ॥

दुष्यन्तस्य तु दायादः करूरोमः प्रजेश्वरः ।
करूरोमाद् अथाह्रीदश् चत्वारस् तस्य चात्मजाः ॥ १४७ ॥

पाण्ड्यश् च केरलश् चैव कालश् चोलश् च पार्थिवः ।
द्रुह्योश् च तनयो राजन् बभ्रुसेतुश् च पार्थिवः ॥ १४८ ॥

अङ्गारसेतुस् तत्पुत्रो मरुतां पतिर् उच्यते ।
यौवनाश्वेन समरे कृच्छ्रेण निहतो बली ॥ १४९ ॥

युद्धं सुमहद् अप्य् आसीन् मासान् परिचरद् दश ।
अङ्गारसेतोर् दायादो गान्धारो नाम पार्थिवः ॥ १५० ॥

ख्यायते यस्य नाम्ना वै गान्धारविषयो महान् ।
गान्धारदेशजाश् चैव तुरगा वाजिनां वराः ॥ १५१ ॥

अनोस् तु पुत्रो धर्मो ऽभूद् द्यूतस् तस्यात्मजो ऽभवत् ।
द्यूताद् वनदुहो जज्ञे प्रचेतास् तस्य चात्मजः ॥ १५२ ॥

प्रचेतसः सुचेतास् तु कीर्तितास् त्व् अनवो मया ।
बभूवुस् तु यदोः पुत्राः पञ्च देवसुतोपमाः ॥ १५३ ॥

सहस्रादः पयोदश् च क्रोष्टा नीलो ऽञ्जिकस् तथा ।
सहस्रादस्य दायादास् त्रयः परमधार्मिकाः ॥ १५४ ॥

हैहयश् च हयश् चैव राजा वेणुहयस् तथा ।
हैहयस्याभवत् पुत्रो धर्मनेत्र इति श्रुतः ॥ १५५ ॥

धर्मनेत्रस्य कार्तस् तु साहञ्जस् तस्य चात्मजः ।
साहञ्जनी नाम पुरी तेन राज्ञा निवेशिता ॥ १५६ ॥

आसीन् महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् ।
भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः ॥ १५७ ॥

दुर्दमस्य सुतो धीमान् कनको नाम नामतः ।
कनकस्य तु दायादाश् चत्वारो लोकविश्रुताः ॥ १५८ ॥

कृतवीर्यः कृतौजाश् च कृतधन्वा तथैव च ।
कृताग्निस् तु चतुर्थो ऽभूत् कृतवीर्याद् अथार्जुनः ॥ १५९ ॥

यो ऽसौ बाहुसहस्रेण सप्तद्वीपेश्वरो ऽभवत् ।
जिगाय पृथिवीम् एको रथेनादित्यवर्चसा ॥ १६० ॥

स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
दत्तम् आराधयाम् आस कार्तवीर्यो ऽत्रिसम्भवम् ॥ १६१ ॥

तस्मै दत्तो वरान् प्रादाच् चतुरो भूरितेजसः ।
पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद् वरम् ॥ १६२ ॥

अधर्मे ऽधीयमानस्य सद्भिस् तत्र निवारणम् ।
उग्रेण पृथिवीं जित्वा धर्मेणैवानुरञ्जनम् ॥ १६३ ॥

सङ्ग्रामान् सुबहूञ् जित्वा हत्वा चारीन् सहस्रशः ।
सङ्ग्रामे वर्तमानस्य वधं चाभ्यधिकाद् रणे ॥ १६४ ॥

तस्य बाहुसहस्रं तु युध्यतः किल भो द्विजाः ।
योगाद् योगीश्वरस्येव प्रादुर्भवति मायया ॥ १६५ ॥

तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
ससमुद्रा सनगरा उग्रेण विधिना जिता ॥ १६६ ॥

तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि च ।
प्राप्तानि विधिना राज्ञा श्रूयन्ते मुनिसत्तमाः ॥ १६७ ॥

सर्वे यज्ञा मुनिश्रेष्ठाः सहस्रशतदक्षिणाः ।
सर्वे काञ्चनयूपाश् च सर्वे काञ्चनवेदयः ॥ १६८ ॥

सर्वे देवैर् मुनिश्रेष्ठा विमानस्थैर् अलङ्कृतैः ।
गन्धर्वैर् अप्सरोभिश् च नित्यम् एवोपशोभिताः ॥ १६९ ॥

यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस् तथा ।
वरीदासात्मजो विद्वान् महिम्ना तस्य विस्मितः ॥ १७० ॥

नारद उवाच-

न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर् दानैस् तपोभिश् च विक्रमेण श्रुतेन च ॥ १७१ ॥

स हि सप्तसु द्वीपेषु चर्मी खड्गी शरासनी ।
रथी द्वीपान् अनुचरन् योगी सन्दृश्यते नृभिः ॥ १७२ ॥

अनष्टद्रव्यता चैव न शोको न च विभ्रमः ।
प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः ॥ १७३ ॥

स सर्वरत्नभाक् सम्राट् चक्रवर्ती बभूव ह ।
स एव पशुपालो ऽभूत् क्षेत्रपालः स एव च ॥ १७४ ॥

सैव वृष्ट्या पर्जन्यो योगित्वाद् अर्जुनो ऽभवत् ।
स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ॥ १७५ ॥

भाति रश्मिसहस्रेण शरदीव च भास्करः ।
स हि नागान् मनुष्येषु माहिष्मत्यां महाद्युतिः ॥ १७६ ॥

कर्कोटकसुताञ् जित्वा पुर्यां तस्यां न्यवेशयत् ।
स वै वेगं समुद्रस्य प्रावृट्काले ऽम्बुजेक्षणः ॥ १७७ ॥

क्रीडन्न् इव भुजोद्भिन्नं प्रतिस्रोतश् चकार ह ।
लुण्ठिता क्रीडता तेन नदी तद्ग्राममालिनी ॥ १७८ ॥

चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा ।
तस्य बाहुसहस्रेण क्षिप्यमाणे महोदधौ ॥ १७९ ॥

भयान् निलीना निश्चेष्ठाः पातालस्था महीसुराः ।
चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम् ॥ १८० ॥

मारुताविद्धफेनौघम् आवर्तक्षोभसङ्कुलम् ।
प्रावर्तयत् तदा राजा सहस्रेण च बाहुना ॥ १८१ ॥

देवासुरसमाक्षिप्तः क्षीरोदम् इव मन्दरः ।
मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः ॥ १८२ ॥

सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् ।
नता निश्चलमूर्धानो बभूवुस् ते महोरगाः ॥ १८३ ॥

सायाह्ने कदलीखण्डाः कम्पिता इव वायुना ।
स वै बद्ध्वा धनुर् ज्याभिर् उत्सिक्तं पञ्चभिः शरैः ॥ १८४ ॥

लङ्केशं मोहयित्वा तु सबलं रावणं बलात् ।
निर्जित्य वशम् आनीय माहिष्मत्यां बबन्ध तम् ॥ १८५ ॥

श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्व् अर्जुनेन च ।
ततो गत्वा पुलस्त्यस् तम् अर्जुनं ददृशे स्वयम् ॥ १८६ ॥

मुमोच रक्षः पौलस्त्यं पुलस्त्येनाभियाचितः ।
यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ॥ १८७ ॥

युगान्ते तोयदस्येव स्फुटतो ह्य् अशनेर् इव ।
अहो बत मृधे वीर्यं भार्गवस्य यद् अच्छिनत् ॥ १८८ ॥

राज्ञो बाहुसहस्रस्य हैमं तालवनं यथा ।
तृषितेन कदाचित् स भिक्षितश् चित्रभानुना ॥ १८९ ॥

स भिक्षाम् अददाद् वीरः सप्त द्वीपान् विभावसोः ।
पुराणि ग्रामघोषांश् च विषयांश् चैव सर्वशः ॥ १९० ॥

जज्वाल तस्य सर्वाणि चित्रभानुर् दिधृक्षया ।
स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः ॥ १९१ ॥

ददाह कार्तवीर्यस्य शैलांश् चैष वनानि च ।
स शून्यम् आश्रमं रम्यं वरुणस्यात्मजस्य वै ॥ १९२ ॥

ददाह बलवद्भीतश् चित्रभानुः स हैहयः ।
यं लेभे वरुणः पुत्रं पुरा भास्वन्तम् उत्तमम् ॥ १९३ ॥

वसिष्ठं नाम स मुनिः ख्यात आपव इत्य् उत ।
यत्रापवस् तु तं क्रोधाच् छप्तवान् अर्जुनं विभुः ॥ १९४ ॥

यस्मान् न वर्जितम् इदं वनं ते मम हैहय ।
तस्मात् ते दुष्करं कर्म कृतम् अन्यो हनिष्यति ॥ १९५ ॥

रामो नाम महाबाहुर् जामदग्न्यः प्रतापवान् ।
छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा बली ॥ १९६ ॥

तपस्वी ब्राह्मणस् त्वां तु हनिष्यति स भार्गवः ।
अनष्टद्रव्यता यस्य बभूवामित्रकर्षिणः ॥ १९७ ॥

प्रतापेन नरेन्द्रस्य प्रजा धर्मेण रक्षतः ।
प्राप्तस् ततो ऽस्य मृत्युर् वै तस्य शापान् महामुनेः ॥ १९८ ॥

वरस् तथैव भो विप्राः स्वयम् एव वृतः पुरा ।
तस्य पुत्रशतं त्व् आसीत् पञ्च शेषा महात्मनः ॥ १९९ ॥

कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः ।
शूरसेनश् च शूरश् च वृषणो मधुपध्वजः ॥ २०० ॥

जयध्वजश् च नाम्नासीद् आवन्त्यो नृपतिर् महान् ।
कार्तवीर्यस्य तनया वीर्यवन्तो महाबलाः ॥ २०१ ॥

जयध्वजस्य पुत्रस् तु तालजङ्घो महाबलः ।
तस्य पुत्रशतं ख्यातास् तालजङ्घा इति स्मृताः ॥ २०२ ॥

तेषां कुले मुनिश्रेष्ठा हैहयानां महात्मनाम् ।
वीतिहोत्राः सुजाताश् च भोजाश् चावन्तयः स्मृताः ॥ २०३ ॥

तौण्डिकेराश् च विख्यातास् तालजङ्घास् तथैव च ।
भरताश् च सुजाताश् च बहुत्वान् नानुकीर्तिताः ॥ २०४ ॥

वृषप्रभृतयो विप्रा यादवाः पुण्यकर्मिणः ।
वृषो वंशधरस् तत्र तस्य पुत्रो ऽभवन् मधुः ॥ २०५ ॥

मधोः पुत्रशतं त्व् आसीद् वृषणस् तस्य वंशकृत् ।
वृषणाद् वृष्णयः सर्वे मधोस् तु माधवाः स्मृताः ॥ २०६ ॥

यादवा यदुनाम्ना ते निरुच्यन्ते च हैहयाः ।
न तस्य वित्तनाशः स्यान् नष्टं प्रति लभेच् च सः ॥ २०७ ॥

कार्तवीर्यस्य यो जन्म कथयेद् इह नित्यशः ।
एते ययातिपुत्राणां पञ्च वंशा द्विजोत्तमाः ॥ २०८ ॥

कीर्तिता लोकवीराणां ये लोकान् धारयन्ति वै ।
भूतानीव मुनिश्रेष्ठाः पञ्च स्थावरजङ्गमान् ॥ २०९ ॥

श्रुत्वा पञ्च विसर्गांस् तु राजा धर्मार्थकोविदः ।
वशी भवति पञ्चानाम् आत्मजानां तथेश्वरः ॥ २१० ॥

लभेत् पञ्च वरांश् चैव दुर्लभान् इह लौकिकान् ।
आयुः कीर्तिं तथा पुत्रान् ऐश्वर्यं भूतिम् एव च ॥ २११ ॥

धारणाच् छ्रवणाच् चैव पञ्चवर्गस्य भो द्विजाः ।
क्रोष्टोर् वंशं मुनिश्रेष्ठाः शृणुध्वं गदतो मम ॥ २१२ ॥

यदोर् वंशधरस्याथ यज्विनः पुण्यकर्मिणः ।
क्रोष्टोर् वंशं हि श्रुत्वैव सर्वपापैः प्रमुच्यते ।
यस्यान्ववायजो विष्णुर् हरिर् वृष्णिकुलोद्वहः ॥ २१३ ॥