Summary (SA)
Chapter 12- The lunar dynasty (cont.)- Story of Yayāti
{{Ref- SS 29-31}}
लोमहर्षण उवाच-
उत्पन्नाः पितृकन्यायां विरजायां महौजसः ।
नहुषस्य तु दायादाः षड् इन्द्रोपमतेजसः ॥ १ ॥
यतिर् ययातिः संयातिर् ।
आयातिः पार्श्वको ऽभवत् ।
यतिर् ज्येष्ठस् तु तेषां वै ययातिस् तु ततः परम् ॥ २ ॥
ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः ।
यतिस् तु मोक्षम् आस्थाय ब्रह्मभूतो ऽभवन् मुनिः ॥ ३ ॥
तेषां ययातिः पञ्चानां विजित्य वसुधाम् इमाम् ।
देवयानीम् उशनसः सुतां भार्याम् अवाप सः ॥ ४ ॥
शर्मिष्ठाम् आसुरीं चैव तनयां वृषपर्वणः ।
यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ ५ ॥
द्रुह्यं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी ।
तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ॥ ६ ॥
अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः ।
युक्तं मनोजवैः शुभ्रैर् येन कार्यं समुद्वहन् ॥ ७ ॥
स तेन रथमुख्येन षड्रात्रेणाजयन् महीम् ।
ययातिर् युधि दुर्धर्षस् तथा देवान् सदानवान् ॥ ८ ॥
सरथः कौरवाणां तु सर्वेषाम् अभवत् तदा ।
संवर्तवसुनाम्नस् तु कौरवाज् जनमेजयात् ॥ ९ ॥
कुरोः पुत्रस्य राजेन्द्रराज्ञः पारीक्षितस्य ह ।
जगाम स रथो नाशं शापाद् गर्गस्य धीमतः ॥ १० ॥
गर्गस्य हि सुतं बालं स राजा जनमेजयः ।
कालेन हिंसयाम् आस ब्रह्महत्याम् अवाप सः ॥ ११ ॥
स लोहगन्धी राजर्षिः परिधावन्न् इतस् ततः ।
पौरजानपदैस् त्यक्तो न लेभे शर्म कर्हिचित् ॥ १२ ॥
ततः स दुःखसन्तप्तो नालभत् संविदं क्वचित् ।
विप्रेन्द्रं शौनकं राजा शरणं प्रत्यपद्यत ॥ १३ ॥
याजयाम् आस च ज्ञानी शौनको जनमेजयम् ।
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ॥ १४ ॥
स लोहगन्धो व्यनशत् तस्यावभृथम् एत्य च ।
स च दिव्यरथो राज्ञो वशश् चेदिपतेस् तदा ॥ १५ ॥
दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः ।
बृहद्रथात् क्रमेणैव गतो बार्हद्रथं नृपम् ॥ १६ ॥
ततो हत्वा जरासन्धं भीमस् तं रथम् उत्तमम् ।
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ १७ ॥
सप्तद्वीपां ययातिस् तु जित्वा पृथ्वीं ससागराम् ।
विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस् तदा ॥ १८ ॥
ययातिर् दिशि पूर्वस्यां यदुं ज्येष्ठं न्ययोजयत् ।
मध्ये पुरुं च राजानम् अभ्यषिञ्चत् स नाहुषः ॥ १९ ॥
दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः ।
तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ २० ॥
यथाप्रदेशम् अद्यापि धर्मेण प्रतिपाल्यते ।
प्रजास् तेषां पुरस्तात् तु वक्ष्यामि मुनिसत्तमाः ॥ २१ ॥
धनुर् न्यस्य पृषत्कांश् च पञ्चभिः पुरुषर्षभैः ।
जरावान् अभवद् राजा भारम् आवेश्य बन्धुषु ॥ २२ ॥
निक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः ।
प्रीतिमान् अभवद् राजा ययातिर् अपराजितः ॥ २३ ॥
एवं विभज्य पृथिवीं ययातिर् यदुम् अब्रवीत् ।
जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ॥ २४ ॥
तरुणस् तव रूपेण चरेयं पृथिवीम् इमाम् ।
जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥ २५ ॥
यदुर् उवाच-
अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम् ॥ २६ ॥
जरायां बहवो दोषाः पानभोजनकारिताः ।
तस्माज् जरां न ते राजन् ग्रहीतुम् अहम् उत्सहे ॥ २७ ॥
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
प्रतिग्रहीतुं धर्मज्ञ पुत्रम् अन्यं वृणीष्व वै ॥ २८ ॥
स एवम् उक्तो यदुना राजा कोपसमन्वितः ।
उवाच वदतां श्रेष्ठो ययातिर् गर्हयन् सुतम् ॥ २९ ॥
ययातिर् उवाच-
क आश्रमस् तवान्यो ऽस्ति को वा धर्मो विधीयते ।
माम् अनादृत्य दुर्बुद्धे यद् अहं तव देशिकः ॥ ३० ॥
एवम् उक्त्वा यदुं विप्राः शशापैनं स मन्युमान् ।
अराज्या ते प्रजा मूढ भवित्रीति न संशयः ॥ ३१ ॥
द्रुह्यं च तुर्वसुं चैवाप्य् अनुं च द्विजसत्तमाः ।
एवम् एवाब्रवीद् राजा प्रत्याख्यातश् च तैर् अपि ॥ ३२ ॥
शशाप तान् अतिक्रुद्धो ययातिर् अपराजितः ।
यथावत् कथितं सर्वं मयास्य द्विजसत्तमाः ॥ ३३ ॥
एवं शप्त्वा सुतान् सर्वांश् चतुरः पुरुपूर्वजान् ।
तद् एव वचनं राजा पुरुम् अप्य् आह भो द्विजाः ॥ ३४ ॥
तरुणस् तव रूपेण चरेयं पृथिवीम् इमाम् ।
जरां त्वयि समाधाय त्वं पुरो यदि मन्यसे ॥ ३५ ॥
स जरां प्रतिजग्राह पितुः पुरुः प्रतापवान् ।
ययातिर् अपि रूपेण पुरोः पर्यचरन् महीम् ॥ ३६ ॥
स मार्गमाणः कामानाम् अन्तं नृपतिसत्तमः ।
विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥ ३७ ॥
यदा च तृप्तः कामेषु भोगेषु च नराधिपः ।
तदा पुरोः सकाशाद् वै स्वां जरां प्रत्यपद्यत ॥ ३८ ॥
यत्र गाथा मुनिश्रेष्ठा गीताः किल ययातिना ।
याभिः प्रत्याहरेत् कामान् सर्वशो ऽङ्गानि कूर्मवत् ॥ ३९ ॥
न जातु कामः कामानाम् उपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ ४० ॥
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालम् एकस्य तत् सर्वम् इति कृत्वा न मुह्यति ॥ ४१ ॥
यदा भावं न कुरुते सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ ४२ ॥
यदा तेभ्यो न बिभेति यदा चास्मान् न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ ४३ ॥
या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः ।
यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् ॥ ४४ ॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
धनाशा जीविताशा च जीर्यतो ऽपि न जीर्यति ॥ ४५ ॥
यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हन्ति षोडशीं कलाम् ॥ ४६ ॥
एवम् उक्त्वा स राजर्षिः सदारः प्राविशद् वनम् ।
कालेन महता चायं चचार विपुलं तपः ॥ ४७ ॥
भृगुतुङ्गे गतिं प्राप तपसो ऽन्ते महायशाः ।
अनश्नन् देहम् उत्सृज्य सदारः स्वर्गम् आप्तवान् ॥ ४८ ॥
तस्य वंशे मुनिश्रेष्ठाः पञ्च राजर्षिसत्तमाः ।
यैर् व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ ४९ ॥
यदोस् तु वंशं वक्ष्यामि शृणुध्वं राजसत्कृतम् ।
यत्र नारायणो जज्ञे हरिर् वृष्णिकुलोद्वहः ॥ ५० ॥
सुस्थः प्रजावान् आयुष्मान् कीर्तिमांश् च भवेन् नरः ।
ययातिचरितं नित्यम् इदं शृण्वन् द्विजोत्तमाः ॥ ५१ ॥