011

Summary (SA)

Chapter 11- The lunar dynasty (cont.)- Branch of Āyu’s younger sons

{{Ref- SS 27-29}}

लोमहर्षण उवाच-

आयोः पुत्राश् च ते पञ्च सर्वे वीरा महारथाः ।
स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः ॥ १ ॥

नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् ।
रम्भो रजिर् अनेनाश् च त्रिषु लोकेषु विश्रुताः ॥ २ ॥

रजिः पुत्रशतानीह जनयाम् आस पञ्च वै ।
राजेयम् इति विख्यातं क्षत्रम् इन्द्रभयावहम् ॥ ३ ॥

यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे ।
देवाश् चैवासुराश् चैव पितामहम् अथाब्रुवन् ॥ ४ ॥

देवासुरा ऊचुः-

आवयोर् भगवन् युद्धे को विजेता भविष्यति ।
ब्रूहि नः सर्वभूतेश श्रोतुम् इच्छाम तत्त्वतः ॥ ५ ॥

ब्रह्मोवाच-

येषाम् अर्थाय सङ्ग्रामे रजिर् आत्तायुधः प्रभुः ।
योत्स्यते ते विजेष्यन्ति त्रींल् लोकान् नात्र संशयः ॥ ६ ॥

यतो रजिर् धृतिस् तत्र श्रीश् च तत्र यतो धृतिः ।
यतो धृतिश् च श्रीश् चैव धर्मस् तत्र जयस् तथा ॥ ७ ॥

ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा ।
अभ्ययुर् जयम् इच्छन्तो वृण्वानास् तं नरर्षभम् ॥ ८ ॥

स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत ।
राजा परमतेजस्वी सोमवंशविवर्धनः ॥ ९ ॥

ते हृष्टमनसः सर्वे रजिं वै देवदानवाः ।
ऊचुर् अस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥ १० ॥

अथोवाच रजिस् तत्र तयोर् वै देवदैत्ययोः ।
अर्थज्ञः स्वार्थम् उद्दिश्य यशः स्वं च प्रकाशयन् ॥ ११ ॥

रजिर् उवाच-

यदि दैत्यगणान् सर्वाञ् जित्वा वीर्येण वासवः ।
इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥ १२ ॥

देवाः प्रथमतो विप्राः प्रतीयुर् हृष्टमानसाः ।
एवं यथेष्टं नृपते कामः सम्पद्यतां तव ॥ १३ ॥

श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस् तदा ।
पप्रच्छासुरमुख्यांस् तु यथा देवान् अपृच्छत ॥ १४ ॥

दानवा दर्पसम्पूर्णाः स्वार्थम् एवावगम्य ह ।
प्रत्यूचुस् तं नृपवरं साभिमानम् इदं वचः ॥ १५ ॥

दानवा ऊचुः-

अस्माकम् इन्द्रः प्रह्रादो यस्यार्थे विजयामहे ।
अस्मिंस् तु समरे राजंस् तिष्ठ त्वं राजसत्तम ॥ १६ ॥

स तथेति ब्रुवन्न् एव देवैर् अप्य् अतिचोदितः ।
भविष्यसीन्द्रो जित्वैनं देवैर् उक्तस् तु पार्थिवः ॥ १७ ॥

जघान दानवान् सर्वान् ये ऽवध्या वज्रपाणिनः ।
स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥ १८ ॥

निहत्य दानवान् सर्वान् आजहार रजिः प्रभुः ।
ततो रजिं महावीर्यं देवैः सह शतक्रतुः ॥ १९ ॥

रजिपुत्रो ऽहम् इत्य् उक्त्वा पुनर् एवाब्रवीद् वचः ।
इन्द्रो ऽसि तात देवानां सर्वेषां नात्र संशयः ॥ २० ॥

यस्याहम् इन्द्रः पुत्रस् ते ख्यातिं यास्यामि कर्मभिः ।
स तु शक्रवचः श्रुत्वा वञ्चितस् तेन मायया ॥ २१ ॥

तथैवेत्य् अब्रवीद् राजा प्रीयमाणः शतक्रतुम् ।
तस्मिंस् तु देवैः सदृशो दिवं प्राप्ते महीपतौ ॥ २२ ॥

दायाद्यम् इन्द्राद् आजह्रू राज्यं तत्तनया रजेः ।
पञ्च पुत्रशतान्य् अस्य तद् वै स्थानं शतक्रतोः ॥ २३ ॥

समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ।
ते यदा तु स्वसम्मूढा रागोन्मत्ता विधर्मिणः ॥ २४ ॥

ब्रह्मद्विषश् च संवृत्ता हतवीर्यपराक्रमाः ।
ततो लेभे स्वम् ऐश्वर्यम् इन्द्रः स्थानं तथोत्तमम् ॥ २५ ॥

हत्वा रजिसुतान् सर्वान् कामक्रोधपरायणान् ।
य इदं च्यावनं स्थानात् प्रतिष्ठानं शतक्रतोः ।
शृणुयाद् धारयेद् वापि न स दौर्गत्यम् आप्नुयात् ॥ २६ ॥

लोमहर्षण उवाच-

रम्भो ऽनपत्यस् त्व् आसीच् च वंशं वक्ष्याम्य् अनेनसः ।
अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥ २७ ॥

प्रतिक्षत्रसुतश् चासीत् सञ्जयो नाम विश्रुतः ।
सञ्जयस्य जयः पुत्रो विजयस् तस्य चात्मजः ॥ २८ ॥

विजयस्य कृतिः पुत्रस् तस्य हर्यत्वतः सुतः ।
हर्यत्वतसुतो राजा सहदेवः प्रतापवान् ॥ २९ ॥

सहदेवस्य धर्मात्मा नदीन इति विश्रुतः ।
नदीनस्य जयत्सेनो जयत्सेनस्य सङ्कृतिः ॥ ३० ॥

सङ्कृतेर् अपि धर्मात्मा क्षत्रवृद्धो महायशाः ।
अनेनसः समाख्याताः क्षत्रवृद्धस्य चापरः ॥ ३१ ॥

क्षत्रवृद्धात्मजस् तत्र सुनहोत्रो महायशाः ।
सुनहोत्रस्य दायादास् त्रयः परमधार्मिकाः ॥ ३२ ॥

काशः शलश् च द्वाव् एतौ तथा गृत्समदः प्रभुः ।
पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥ ३३ ॥

ब्राह्मणाः क्षत्रियाश् चैव वैश्याः शूद्रास् तथैव च ।
शलात्मज आर्ष्टिसेणस् तनयस् तस्य काश्यपः ॥ ३४ ॥

काशस्य काशिपो राजा पुत्रो दीर्घतपास् तथा ।
धनुस् तु दीर्घतपसो विद्वान् धन्वन्तरिस् ततः ॥ ३५ ॥

तपसो ऽन्ते सुमहतो जातो वृद्धस्य धीमतः ।
पुनर् धन्वन्तरिर् देवो मानुषेष्व् इह जन्मनि ॥ ३६ ॥

तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस् तदा ।
काशिराजो महाराजः सर्वरोगप्रणाशनः ॥ ३७ ॥

आयुर्वेदं भरद्वाजात् प्राप्येह स भिषक्क्रियः ।
तम् अष्टधा पुनर् व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ ३८ ॥

धन्वन्तरेस् तु तनयः केतुमान् इति विश्रुतः ।
अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥ ३९ ॥

पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः ।
दिवोदासस् तु धर्मात्मा वाराणस्यधिपो ऽभवत् ॥ ४० ॥

एतस्मिन्न् एव काले तु पुरीं वाराणसीं द्विजाः ।
शून्यां निवेशयाम् आस क्षेमको नाम राक्षसः ॥ ४१ ॥

शप्ता हि सा मतिमता निकुम्भेन महात्मना ।
शून्या वर्षसहस्रं वै भवित्री तु न संशयः ॥ ४२ ॥

तस्यां हि शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
विषयान्ते पुरीं रम्यां गोमत्यां सन्न्यवेशयत् ॥ ४३ ॥

भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसी अभूत् ।
भद्रश्रेण्यस्य पुत्राणां शतम् उत्तमधन्विनाम् ॥ ४४ ॥

हत्वा निवेशयाम् आस दिवोदासो नराधिपः ।
भद्रश्रेण्यस्य तद् राज्यं हृतं येन बलीयसा ॥ ४५ ॥

भद्रश्रेण्यस्य पुत्रस् तु दुर्दमो नाम विश्रुतः ।
दिवोदासेन बालेति घृणया स विसर्जितः ॥ ४६ ॥

हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः ।
आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ ४७ ॥

भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना ।
वैरस्यान्तो महाभागाः कृतश् चात्मीयतेजसा ॥ ४८ ॥

दिवोदासाद् दृषद्वत्यां वीरो जज्ञे प्रतर्दनः ।
तेन बालेन पुत्रेण प्रहृतं तु पुनर् बलम् ॥ ४९ ॥

प्रतर्दनस्य पुत्रौ द्वौ वत्सभर्गौ सुविश्रुतौ ।
वत्सपुत्रो ह्य् अलर्कस् तु सन्नतिस् तस्य चात्मजः ॥ ५० ॥

अलर्कस् तस्य पुत्रस् तु ब्रह्मण्यः सत्यसङ्गरः ।
अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः ॥ ५१ ॥

षष्टिर् वर्षसहस्राणि षष्टिर् वर्षशतानि च ।
युवा रूपेण सम्पन्नः प्राग् आसीच् च कुलोद्वहः ॥ ५२ ॥

लोपामुद्राप्रसादेन परमायुर् अवाप्तवान् ।
तस्यासीत् सुमहद् राज्यं रूपयौवनशालिनः ॥ ५३ ॥

शापस्यान्ते महाबाहुर् हत्वा क्षेमकराक्षसम् ।
रम्यां निवेशयाम् आस पुरीं वाराणसीं पुनः ॥ ५४ ॥

सन्नतेर् अपि दायादः सुनीथो नाम धार्मिकः ।
सुनीथस्य तु दायादः क्षेमो नाम महायशाः ॥ ५५ ॥

क्षेमस्य केतुमान् पुत्रः सुकेतुस् तस्य चात्मजः ।
सुकेतोस् तनयश् चापि धर्मकेतुर् इति स्मृतः ॥ ५६ ॥

धर्मकेतोस् तु दायादः सत्यकेतुर् महारथः ।
सत्यकेतुसुतश् चापि विभुर् नाम प्रजेश्वरः ॥ ५७ ॥

आनर्तस् तु विभोः पुत्रः सुकुमारश् च तत्सुतः ।
सुकुमारस्य पुत्रस् तु धृष्टकेतुः सुधार्मिकः ॥ ५८ ॥

धृष्टकेतोस् तु दायादो वेणुहोत्रः प्रजेश्वरः ।
वेणुहोत्रसुतश् चापि भार्गो नाम प्रजेश्वरः ॥ ५९ ॥

वत्सस्य वत्सभूमिस् तु भार्गभूमिस् तु भार्गजः ।
एते त्व् अङ्गिरसः पुत्रा जाता वंशे ऽथ भार्गव ॥ ६० ॥

ब्राह्मणाः क्षत्रिया वैश्यास् त्रयः पुत्राः सहस्रशः ।
इत्य् एते काश्यपाः प्रोक्ता नहुषस्य निबोधत ॥ ६१ ॥