Summary (SA)
Chapter 10- The lunar dynasty- Amāvasu branch
{{Ref- SS 25-27}}
लोमहर्षण उवाच-
बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः ।
तेजस्वी दानशीलश् च यज्वा विपुलदक्षिणः ॥ १ ॥
ब्रह्मवादी पराक्रान्तः शत्रुभिर् युधि दुर्दमः ।
आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ २ ॥
सत्यवादी पुण्यमतिः सम्यक्संवृतमैथुनः ।
अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा ॥ ३ ॥
तं ब्रह्मवादिनं शान्तं धर्मज्ञं सत्यवादिनम् ।
उर्वशी वरयाम् आस हित्वा मानं यशस्विनी ॥ ४ ॥
तया सहावसद् राजा दश वर्षाणि पञ्च च ।
षट् पञ्च सप्त चाष्टौ च दश चाष्टौ च भो द्विजाः ॥ ५ ॥
वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे ।
अलकायां विशालायां नन्दने च वनोत्तमे ॥ ६ ॥
उत्तरान् स कुरून् प्राप्य मनोरमफलद्रुमान् ।
गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे ॥ ७ ॥
एतेषु वनमुख्येषु सुरैर् आचरितेषु च ।
उर्वश्या सहितो राजा रेमे परमया मुदा ॥ ८ ॥
देशे पुण्यतमे चैव महर्षिभिर् अभिष्टुते ।
राज्यं स कारयाम् आस प्रयागे पृथिवीपतिः ॥ ९ ॥
एवम्प्रभावो राजासीद् ऐलस् तु नरसत्तमः ।
उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥ १० ॥
लोमहर्षण उवाच-
ऐलपुत्रा बभूवुस् ते सप्त देवसुतोपमाः ।
गन्धर्वलोके विदिता आयुर् धीमान् अमावसुः ॥ ११ ॥
विश्वायुश् चैव धर्मात्मा श्रुतायुश् च तथापरः ।
दृढायुश् च वनायुश् च बह्वायुश् चोर्वशीसुताः ॥ १२ ॥
अमावसोस् तु दायादो भीमो राजाथ राजराट् ।
श्रीमान् भीमस्य दायादो राजासीत् काञ्चनप्रभः ॥ १३ ॥
विद्वांस् तु काञ्चनस्यापि सुहोत्रो ऽभून् महाबलः ।
सुहोत्रस्याभवज् जह्नुः केशिन्या गर्भसम्भवः ॥ १४ ॥
आजह्रे यो महत् सत्त्रं सर्पमेधं महामखम् ।
पतिलोभेन यं गङ्गा पतित्वेन ससार ह ॥ १५ ॥
नेच्छतः प्लावयाम् आस तस्य गङ्गा तदा सदः ।
स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ १६ ॥
सौहोत्रिर् अशपद् गङ्गां क्रुद्धो राजा द्विजोत्तमाः ।
एष ते विफलं यत्नं पिबन्न् अम्भः करोम्य् अहम् ॥ १७ ॥
अस्य गङ्गे ऽवलेपस्य सद्यः फलम् अवाप्नुहि ।
जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः ॥ १८ ॥
उपनिन्युर् महाभागां दुहितृत्वेन जाह्नवीम् ।
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुर् आवहत् ॥ १९ ॥
युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता ।
कावेरीं सरितां श्रेष्ठां जह्नोर् भार्याम् अनिन्दिताम् ॥ २० ॥
जह्नुस् तु दयितं पुत्रं सुनद्यं नाम धार्मिकम् ।
कावेर्यां जनयाम् आस अजकस् तस्य चात्मजः ॥ २१ ॥
अजकस्य तु दायादो बलाकाश्वो महीपतिः ।
बभूव मृगयाशीलः कुशस् तस्यात्मजो ऽभवत् ॥ २२ ॥
कुशपुत्रा बभूवुर् हि चत्वारो देववर्चसः ।
कुशिकः कुशनाभश् च कुशाम्बो मूर्तिमांस् तथा ॥ २३ ॥
बल्लवैः सह संवृद्धो राजा वनचरः सदा ।
कुशिकस् तु तपस् तेपे पुत्रम् इन्द्रसमं प्रभुः ॥ २४ ॥
लभेयम् इति तं शक्रस् त्रासाद् अभ्येत्य जज्ञिवान् ।
पूर्णे वर्षसहस्रे वै ततः शक्रो ह्य् अपश्यत ॥ २५ ॥
अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः ।
समर्थः पुत्रजनने स्वयम् एवास्य शाश्वतः ॥ २६ ॥
पुत्रार्थं कल्पयाम् आस देवेन्द्रः सुरसत्तमः ।
स गाधिर् अभवद् राजा मघवान् कौशिकः स्वयम् ॥ २७ ॥
पौरा यस्याभवद् भार्या गाधिस् तस्याम् अजायत ।
गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ॥ २८ ॥
तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः ।
तस्याः प्रीतः स वै भर्ता भार्गवो भृगुनन्दनः ॥ २९ ॥
पुत्रार्थं साधयाम् आस चरुं गाधेस् तथैव च ।
उवाचाहूय तां भार्याम् ऋचीको भार्गवस् तदा ॥ ३० ॥
उपयोज्यश् चरुर् अयं त्वया मात्रा स्वयं शुभे ।
तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः ॥ ३१ ॥
अजेयः क्षत्रियैर् लोके क्षत्रियर्षभसूदनः ।
तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ॥ ३२ ॥
शमात्मकं द्विजश्रेष्ठं चरुर् एष विधास्यति ।
एवम् उक्त्वा तु तां भार्याम् ऋचीको भृगुनन्दनः ॥ ३३ ॥
तपस्य् अभिरतो नित्यम् अरण्यं प्रविवेश ह ।
गाधिः सदारस् तु तदा ऋचीकाश्रमम् अभ्यगात् ॥ ३४ ॥
तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः ।
चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा ॥ ३५ ॥
चरुम् आदाय यत्नेन सा तु मात्रे न्यवेदयत् ।
माता तु तस्या दैवेन दुहित्रे स्वं चरुं ददौ ॥ ३६ ॥
तस्याश् चरुम् अथाज्ञानाद् आत्मसंस्थं चकार ह ।
अथ सत्यवती सर्वं क्षत्रियान्तकरं तदा ॥ ३७ ॥
धारयाम् आस दीप्तेन वपुषा घोरदर्शना ।
ताम् ऋचीकस् ततो दृष्ट्वा योगेनाभ्युपसृत्य च ॥ ३८ ॥
ततो ऽब्रवीद् द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् ।
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ॥ ३९ ॥
जनयिष्यति हि पुत्रस् ते क्रूरकर्मातिदारुणः ।
भ्राता जनिष्यते चापि ब्रह्मभूतस् तपोधनः ॥ ४० ॥
विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम् ।
एवम् उक्ता महाभागा भर्त्रा सत्यवती तदा ॥ ४१ ॥
प्रसादयाम् आस पतिं पुत्रो मे नेदृशो भवेत् ।
ब्राह्मणापसदस् त्वत्त इत्य् उक्तो मुनिर् अब्रवीत् ॥ ४२ ॥
ऋचीक उवाच-
नैष सङ्कल्पितः कामो मया भद्रे तथास्त्व् इति ।
उग्रकर्मा भवेत् पुत्रः पितुर् मातुश् च कारणात् ॥ ४३ ॥
पुनः सत्यवती वाक्यम् एवम् उक्त्वाब्रवीद् इदम् ।
इच्छंल् लोकान् अपि मुने सृजेथाः किं पुनः सुतम् ॥ ४४ ॥
शमात्मकम् ऋजुं त्वं मे पुत्रं दातुम् इहार्हसि ।
कामम् एवंविधः पौत्रो मम स्यात् तव च प्रभो ॥ ४५ ॥
यद्य् अन्यथा न शक्यं वै कर्तुम् एतद् द्विजोत्तम ।
ततः प्रसादम् अकरोत् स तस्यास् तपसो बलात् ॥ ४६ ॥
पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि ।
त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥ ४७ ॥
ततः सत्यवती पुत्रं जनयाम् आस भार्गवम् ।
तपस्य् अभिरतं दान्तं जमदग्निं समात्मकम् ॥ ४८ ॥
भृगोर् जगत्यां वंशे ऽस्मिञ् ।
जमदग्निर् अजायत ।
सा हि सत्यवती पुण्या सत्यधर्मपरायणा ॥ ४९ ॥
कौशिकीति समाख्याता प्रवृत्तेयं महानदी ।
इक्ष्वाकुवंशप्रभवो रेणुर् नाम नराधिपः ॥ ५० ॥
तस्य कन्या महाभागा कामली नाम रेणुका ।
रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ॥ ५१ ॥
आर्चीको जनयाम् आस जामदग्न्यं सुदारुणम् ।
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ॥ ५२ ॥
रामं क्षत्रियहन्तारं प्रदीप्तम् इव पावकम् ।
और्वस्यैवम् ऋचीकस्य सत्यवत्यां महायशाः ॥ ५३ ॥
जमदग्निस् तपोवीर्याज् जज्ञे ब्रह्मविदां वरः ।
मध्यमश् च शुनःशेफः शुनःपुच्छः कनिष्ठकः ॥ ५४ ॥
विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः ।
जनयाम् आस पुत्रं तु तपोविद्याशमात्मकम् ॥ ५५ ॥
प्राप्य ब्रह्मर्षिसमतां यो ऽयं ब्रह्मर्षितां गतः ।
विश्वामित्रस् तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ॥ ५६ ॥
जज्ञे भृगुप्रसादेन कौशिकाद् वंशवर्धनः ।
विश्वामित्रस्य च सुता देवरातादयः स्मृताः ॥ ५७ ॥
प्रख्यातास् त्रिषु लोकेषु तेषां नामान्य् अतःपरम् ।
देवरातः कतिश् चैव यस्मात् कात्यायनाः स्मृताः ॥ ५८ ॥
शालावत्यां हिरण्याक्षो रेणुर् जज्ञे ऽथ रेणुकः ।
साङ्कृतिर् गालवश् चैव मुद्गलश् चैव विश्रुतः ॥ ५९ ॥
मधुच्छन्दो जयश् चैव देवलश् च तथाष्टकः ।
कच्छपो हारितश् चैव विश्वामित्रस्य ते सुताः ॥ ६० ॥
तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् ।
पाणिनो बभ्रवश् चैव ध्यानजप्यास् तथैव च ॥ ६१ ॥
पार्थिवा देवराताश् च शालङ्कायनबाष्कलाः ।
लोहिता यमदूताश् च तथा कारूषकाः स्मृताः ॥ ६२ ॥
पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च ।
सम्बन्धो ऽप्य् अस्य वंशे ऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः ॥ ६३ ॥
विश्वामित्रात्मजानां तु शुनःशेफो ऽग्रजः स्मृतः ।
भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥ ६४ ॥
विश्वामित्रस्य पुत्रस् तु शुनःशेफो ऽभवत् किल ।
हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ॥ ६५ ॥
देवैर् दत्तः शुनःशेफो विश्वामित्राय वै पुनः ।
देवैर् दत्तः स वै यस्माद् देवरातस् ततो ऽभवत् ॥ ६६ ॥
देवरातादयः सप्त विश्वामित्रस्य वै सुताः ।
दृषद्वतीसुतश् चापि वैश्वामित्रस् तथाष्टकः ॥ ६७ ॥
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ।
अत ऊर्ध्वं प्रवक्ष्यामि वंशम् आयोर् महात्मनः ॥ ६८ ॥