009

Summary (SA)

Chapter 9- The origin of Soma, the abduction of Tārā, and the birth of Budha

{{Ref- SS 24-25}}

लोमहर्षण उवाच-

पिता सोमस्य भो विप्रा जज्ञे ऽत्रिर् भगवान् ऋषिः ।
ब्रह्मणो मानसात् पूर्वं प्रजासर्गं विधित्सतः ॥ १ ॥

अनुत्तरं नाम तपो येन तप्तं हि तत् पुरा ।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ २ ॥

ऊर्ध्वम् आचक्रमे तस्य रेतः सोमत्वम् ईयिवत् ।
नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः ॥ ३ ॥

तं गर्भं विधिनादिष्टा दश देव्यो दधुस् ततः ।
समेत्य धारयाम् आसुर् न च ताः समशक्नुवन् ॥ ४ ॥

यदा न धारणे शक्तास् तस्य गर्भस्य ता दिशः ।
ततस् ताभिः स त्यक्तस् तु निपपात वसुन्धराम् ॥ ५ ॥

पतितं सोमम् आलोक्य ब्रह्मा लोकपितामहः ।
रथम् आरोपयाम् आस लोकानां हितकाम्यया ॥ ६ ॥

तस्मिन् निपतिते देवाः पुत्रे ऽत्रेः परमात्मनि ।
तुष्टुवुर् ब्रह्मणः पुत्रास् तथान्ये मुनिसत्तमाः ॥ ७ ॥

तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः ।
आप्यायनाय लोकानां भावयाम् आस सर्वतः ॥ ८ ॥

स तेन रथमुख्येन सागरान्तां वसुन्धराम् ।
त्रिःसप्तकृत्वो ऽतियशाश् चकाराभिप्रदक्षिणाम् ॥ ९ ॥

तस्य यच् चरितं तेजः पृथिवीम् अन्वपद्यत ।
ओषध्यस् ताः समुद्भूता याभिः सन्धार्यते जगत् ॥ १० ॥

स लब्धतेजा भगवान् संस्तवैश् च स्वकर्मभिः ।
तपस् तेपे महाभागः पद्मानां दर्शनाय सः ॥ ११ ॥

ततस् तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ।
बीजौषधीनां विप्राणाम् अपां च मुनिसत्तमाः ॥ १२ ॥

स तत् प्राप्य महाराज्यं सोमः सौम्यवतां वरः ।
समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥ १३ ॥

दक्षिणाम् अददात् सोमस् त्रींल् लोकान् इति नः श्रुतम् ।
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश् च भो द्विजाः ॥ १४ ॥

हिरण्यगर्भो ब्रह्मात्रिर् भृगुश् च ऋत्विजो ऽभवत् ।
सदस्यो ऽभूद् धरिस् तत्र मुनिभिर् बहुभिर् वृतः ॥ १५ ॥

तं सिनीश् च कुहूश् चैव द्युतिः पुष्टिः प्रभा वसुः ।
कीर्तिर् धृतिश् च लक्ष्मीश् च नव देव्यः सिषेविरे ॥ १६ ॥

प्राप्यावभृथम् अप्य् अग्र्यं सर्वदेवर्षिपूजितः ।
विरराजाधिराजेन्द्रो दशधा भासयन् दिशः ॥ १७ ॥

तस्य तत् प्राप्य दुष्प्राप्यम् ऐश्वर्यम् ऋषिसत्कृतम् ।
विबभ्राम मतिस् ताताविनयाद् अनयाहृता ॥ १८ ॥

बृहस्पतेः स वै भार्याम् ऐश्वर्यमदमोहितः ।
जहार तरसा सोमो विमत्याङ्गिरसः सुतम् ॥ १९ ॥

स याच्यमानो देवैश् च तथा देवर्षिभिर् मुहुः ।
नैव व्यसर्जयत् तारां तस्माऐ अङ्गिरसे तदा ॥ २० ॥

उशना तस्य जग्राह पार्ष्णिम् अङ्गिरसस् तदा ।
रुद्रश् च पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः ॥ २१ ॥

तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना ।
उद्दिश्य देवान् उत्सृष्टं येनैषां नाशितं यशः ॥ २२ ॥

तत्र तद् युद्धम् अभवत् प्रख्यातं तारकामयम् ।
देवानां दानवानां च लोकक्षयकरं महत् ॥ २३ ॥

तत्र शिष्टास् तु ये देवास् तुषिताश् चैव ये द्विजाः ।
ब्रह्माणं शरणं जग्मुर् आदिदेवं सनातनम् ॥ २४ ॥

तदा निवार्योशनसं तं वै रुद्रं च शङ्करम् ।
ददाव् अङ्गिरसे तारां स्वयम् एव पितामहः ॥ २५ ॥

ताम् अन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः ।
मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन ॥ २६ ॥

इषीकास्तम्बम् आसाद्य गर्भं सा चोत्ससर्ज ह ।
जातमात्रः स भगवान् देवानाम् आक्षिपद् वपुः ॥ २७ ॥

ततः संशयम् आपन्नास् ताराम् ऊचुः सुरोत्तमाः ।
सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥ २८ ॥

पृच्छ्यमाना यदा देवैर् नाह सा विबुधान् किल ।
तदा तां शप्तुम् आरब्धः कुमारो दस्युहन्तमः ॥ २९ ॥

तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् ।
यद् अत्र तथ्यं तद् ब्रूहि तारे कस्य सुतस् त्व् अयम् ॥ ३० ॥

उवाच प्राञ्जलिः सा तं सोमस्येति पितामहम् ।
तदा तं मूर्ध्नि चाघ्राय सोमो राजा सुतं प्रति ॥ ३१ ॥

बुध इत्य् अकरोन् नाम तस्य बालस्य धीमतः ।
प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः ॥ ३२ ॥

उत्पादयाम् आस तदा पुत्रं वैराजपुत्रिकम् ।
तस्यापत्यं महातेजा बभूवैलः पुरूरवाः ॥ ३३ ॥

उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः ।
एतत् सोमस्य वो जन्म कीर्तितं कीर्तिवर्धनम् ॥ ३४ ॥

वंशम् अस्य मुनिश्रेष्ठाः कीर्त्यमानं निबोधत ।
धन्यम् आयुष्यम् आरोग्यं पुण्यं सङ्कल्पसाधनम् ॥ ३५ ॥

सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते ॥ ३६ ॥