008

Summary (SA)

Chapter 8- The solar dynasty (cont.)

{{Ref- SS 20-23}}

लोमहर्षण उवाच-

सत्यव्रतस् तु भक्त्या च कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रं तु बभार विनये स्थितः ॥ १ ॥

हत्वा मृगान् वराहांश् च महिषांश् च वनेचरान् ।
विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध च ॥ २ ॥

उपांशुव्रतम् आस्थाय दीक्षां द्वादशवार्षिकीम् ।
पितुर् नियोगाद् अवसत् तस्मिन् वनगते नृपे ॥ ३ ॥

अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः ।
याज्योपाध्यायसंयोगाद् वसिष्ठः पर्यरक्षत ॥ ४ ॥

सत्यव्रतस् तु बाल्याच् च भाविनो ऽर्थस्य वै बलात् ।
वसिष्ठे ऽभ्यधिकं मन्युं धारयाम् आस नित्यशः ॥ ५ ॥

पित्रा हि तं तदा राष्ट्रात् त्यज्यमानं प्रियं सुतम् ।
निवारयाम् आस मुनिर् बहुना कारणेन न ॥ ६ ॥

पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे ।
न च सत्यव्रतस् तस्माद् धतवान् सप्तमे पदे ॥ ७ ॥

जानन् धर्मं वसिष्ठस् तु न मां त्रातीति भो द्विजाः ।
सत्यव्रतस् तदा रोषं वसिष्ठे मनसाकरोत् ॥ ८ ॥

गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस् तथा ।
न च सत्यव्रतस् तस्य तम् उपांशुम् अबुध्यत ॥ ९ ॥

तस्मिन्न् अपरितोषश् च पितुर् आसीन् महात्मनः ।
तेन द्वादश वर्षाणि नावर्षत् पाकशासनः ॥ १० ॥

तेन त्व् इदानीं विहितां दीक्षां तां दुर्वहां भुवि ।
कुलस्य निष्कृतिर् विप्राः कृता सा वै भवेद् इति ॥ ११ ॥

न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत् ।
अभिषेक्ष्याम्य् अहं पुत्रम् अस्येत्य् एवम्मतिर् मुनिः ॥ १२ ॥

स तु द्वादश वर्षाणि तां दीक्षाम् अवहद् बली ।
अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ १३ ॥

सर्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः ।
तां वै क्रोधाच् च मोहाच् च श्रमाच् चैव क्षुधान्वितः ॥ १४ ॥

देशधर्मगतो राजा जघान मुनिसत्तमाः ।
तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान् ॥ १५ ॥

भोजयाम् आस तच् छ्रुत्वा वसिष्ठो ऽप्य् अस्य चुक्रुधे ॥ १६ ॥

वसिष्ठ उवाच-

पातयेयम् अहं क्रूर तव शङ्कुम् असंशयम् ।
यदि ते द्वाव् इमौ शङ्कू न स्यातां वै कृतौ पुनः ॥ १७ ॥

पितुश् चापरितोषेण गुरुदोग्ध्रीवधेन च ।
अप्रोक्षितोपयोगाच् च त्रिविधस् ते व्यतिक्रमः ॥ १८ ॥

एवं त्रीण्य् अस्य शङ्कूनि तानि दृष्ट्वा महातपाः ।
त्रिशङ्कुर् इति होवाच त्रिशङ्कुस् तेन स स्मृतः ॥ १९ ॥

विश्वामित्रस्य दाराणाम् अनेन भरणं कृतम् ।
तेन तस्मै वरं प्रादान् मुनिः प्रीतस् त्रिशङ्कवे ॥ २० ॥

छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः ।
सशरीरो व्रजे स्वर्गम् इत्य् एवं याचितो वरः ॥ २१ ॥

अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके ।
पित्र्ये राज्ये ऽभिषिच्याथ याजयाम् आस पार्थिवम् ॥ २२ ॥

मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।
दिवम् आरोपयाम् आस सशरीरं महातपाः ॥ २३ ॥

तस्य सत्यरथा नाम पत्नी कैकेयवंशजा ।
कुमारं जनयाम् आस हरिश्चन्द्रम् अकल्मषम् ॥ २४ ॥

स वै राजा हरिश्चन्द्रस् त्रैशङ्कव इति स्मृतः ।
आहर्ता राजसूयस्य सम्राड् इति ह विश्रुतः ॥ २५ ॥

हरिश्चन्द्रस्य पुत्रो ऽभूद् रोहितो नाम पार्थिवः ।
हरितो रोहितस्याथ चञ्चुर् हारित उच्यते ॥ २६ ॥

विजयश् च मुनिश्रेष्ठाश् चञ्चुपुत्रो बभूव ह ।
जेता स सर्वपृथिवीं विजयस् तेन स स्मृतः ॥ २७ ॥

रुरुकस् तनयस् तस्य राजा धर्मार्थकोविदः ।
रुरुकस्य वृकः पुत्रो वृकाद् बाहुस् तु जज्ञिवान् ॥ २८ ॥

हैहयास् तालजङ्घाश् च निरस्यन्ति स्म तं नृपम् ।
तत्पत्नी गर्भम् आदाय और्वस्याश्रमम् आविशत् ॥ २९ ॥

नासत्यो धार्मिकश् चैव स ह धर्मयुगे ऽभवत् ।
सगरस् तु सुतो बाहोर् यज्ञे सह गरेण वै ॥ ३० ॥

और्वस्याश्रमम् आसाद्य भार्गवेणाभिरक्षितः ।
आग्नेयम् अस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः ॥ ३१ ॥

जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान् ।
शकानां पह्नवानां च धर्मं निरसद् अच्युतः ।
क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्मवित् ॥ ३२ ॥

मुनय ऊचुः-

कथं स सगरो जातो गरेणैव सहाच्युतः ।
किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥ ३३ ॥

धर्मान् कुलोचितान् राजा क्रुद्धो निरसद् अच्युतः ।
एतन् नः सर्वम् आचक्ष्व विस्तरेण महामते ॥ ३४ ॥

लोमहर्षण उवाच-

बाहोर् व्यसनिनः पूर्वं हृतं राज्यम् अभूत् किल ।
हैहयैस् तालजङ्घैश् च शकैः सार्धं द्विजोत्तमाः ॥ ३५ ॥

यवनाः पारदाश् चैव काम्बोजाः पह्नवास् तथा ।
एते ह्य् अपि गणाः पञ्च हैहयार्थे पराक्रमन् ॥ ३६ ॥

हृतराज्यस् तदा राजा स वै बाहुर् वनं ययौ ।
पत्न्या चानुगतो दुःखी तत्र प्राणान् अवासृजत् ॥ ३७ ॥

पत्नी तु यादवी तस्य सगर्भा पृष्ठतो ऽन्वगात् ।
सपत्न्या च गरस् तस्यै दत्तः पूर्वं किलानघाः ॥ ३८ ॥

सा तु भर्तुश् चितां कृत्वा वने ताम् अभ्यरोहत ।
और्वस् तां भार्गवो विप्राः कारुण्यात् समवारयत् ॥ ३९ ॥

तस्याश्रमे च गर्भः स गरेणैव सहाच्युतः ।
व्यजायत महाबाहुः सगरो नाम पार्थिवः ॥ ४० ॥

और्वस् तु जातकर्मादींस् तस्य कृत्वा महात्मनः ।
अध्याप्य वेदशास्त्राणि ततो ऽस्त्रं प्रत्यपादयत् ॥ ४१ ॥

आग्नेयं तु महाभागा अमरैर् अपि दुःसहम् ।
स तेनास्त्रबलेनाजौ बलेन च समन्वितः ॥ ४२ ॥

हैहयान् विजघानाशु क्रुद्धो रुद्रः पशून् इव ।
आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ॥ ४३ ॥

ततः शकांश् च यवनान् काम्बोजान् पारदांस् तथा ।
पह्नवांश् चैव निःशेषान् कर्तुं व्यवसितो नृपः ॥ ४४ ॥

ते वध्यमाना वीरेण सगरेण महात्मना ।
वसिष्ठं शरणं गत्वा प्रणिपेतुर् मनीषिणम् ॥ ४५ ॥

वसिष्ठस् त्व् अथ तान् दृष्ट्वा समयेन महाद्युतिः ।
सगरं वारयाम् आस तेषां दत्त्वाभयं तदा ॥ ४६ ॥

सगरः स्वां प्रतिज्ञां तु गुरोर् वाक्यं निशम्य च ।
धर्मं जघान तेषां वै वेषान् अन्यांश् चकार ह ॥ ४७ ॥

अर्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् ।
यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ ४८ ॥

पारदा मुक्तकेशाश् च पह्नवाञ् श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः कृतास् तेन महात्मना ॥ ४९ ॥

शका यवनकाम्बोजाः पारदाश् च द्विजोत्तमाः ।
कोणिसर्पा माहिषका दर्वाश् चोलाः सकेरलाः ॥ ५० ॥

सर्वे ते क्षत्रिया विप्रा धर्मस् तेषां निराकृतः ।
वसिष्ठवचनाद् राज्ञा सगरेण महात्मना ॥ ५१ ॥

स धर्मविजयी राजा विजित्येमां वसुन्धराम् ।
अश्वं प्रचारयाम् आस वाजिमेधाय दीक्षितः ॥ ५२ ॥

तस्य चारयतः सो ऽश्वः समुद्रे पूर्वदक्षिणे ।
वेलासमीपे ऽपहृतो भूमिं चैव प्रवेशितः ॥ ५३ ॥

स तं देशं तदा पुत्रैः खानयाम् आस पार्थिवः ।
आसेदुस् ते तदा तत्र खन्यमाने महार्णवे ॥ ५४ ॥

तम् आदिपुरुषं देवं हरिं कृष्णं प्रजापतिम् ।
विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा ॥ ५५ ॥

तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः ।
दग्धाः सर्वे मुनिश्रेष्ठाश् चत्वारस् त्व् अवशेषिताः ॥ ५६ ॥

बर्हिकेतुः सुकेतुश् च तथा धर्मरथो नृपः ।
शूरः पञ्चनदश् चैव तस्य वंशकरा नृपाः ॥ ५७ ॥

प्रादाच् च तस्मै भगवान् हरिर् नारायणो वरम् ।
अक्षयं वंशम् इक्ष्वाकोः कीर्तिं चाप्य् अनिवर्तिनीम् ॥ ५८ ॥

पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम् ।
समुद्रश् चार्घम् आदाय ववन्दे तं महीपतिम् ॥ ५९ ॥

सागरत्वं च लेभे स कर्मणा तेन तस्य ह ।
तं चाश्वमेधिकं सो ऽश्वं समुद्राद् उपलब्धवान् ॥ ६० ॥

आजहाराश्वमेधानां शतं स सुमहातपाः ।
पुत्राणां च सहस्राणि षष्टिस् तस्येति नः श्रुतम् ॥ ६१ ॥

मुनय ऊचुः-

सगरस्यात्मजा वीराः कथं जाता महाबलाः ।
विक्रान्ताः षष्टिसाहस्रा विधिना केन सत्तम ॥ ६२ ॥

लोमहर्षण उवाच-

द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे ।
ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥ ६३ ॥

कनीयसी तु महती पत्नी परमधर्मिणी ।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ ६४ ॥

और्वस् ताभ्यां वरं प्रादात् तद् बुध्यध्वं द्विजोत्तमाः ।
षष्टिं पुत्रसहस्राणि गृह्णात्व् एका नितम्बिनी ॥ ६५ ॥

एकं वंशधरं त्व् एका यथेष्टं वरयत्व् इति ।
तत्रैका जगृहे पुत्रान् षष्टिसाहस्रसम्मितान् ॥ ६६ ॥

एकं वंशधरं त्व् एका तथेत्य् आह ततो मुनिः ।
राजा पञ्चजनो नाम बभूव स महाद्युतिः ॥ ६७ ॥

इतरा सुषुवे तुम्बीं बीजपूर्णाम् इति श्रुतिः ।
तत्र षष्टिसहस्राणि गर्भास् ते तिलसम्मिताः ॥ ६८ ॥

सम्बभूवुर् यथाकालं ववृधुश् च यथासुखम् ।
घृतपूर्णेषु कुम्भेषु तान् गर्भान् निदधे ततः ॥ ६९ ॥

धात्रीश् चैकैकशः प्रादात् तावतीः पोषणे नृपः ।
ततो दशसु मासेषु समुत्तस्थुर् यथाक्रमम् ॥ ७० ॥

कुमारास् ते यथाकालं सगरप्रीतिवर्धनाः ।
षष्टिपुत्रसहस्राणि तस्यैवम् अभवन् द्विजाः ॥ ७१ ॥

गर्भाद् अलाबूमध्याद् वै जातानि पृथिवीपतेः ।
तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ॥ ७२ ॥

एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ।
शूरः पञ्चजनस्यासीद् अंशुमान् नाम वीर्यवान् ॥ ७३ ॥

दिलीपस् तस्य तनयः खट्वाङ्ग इति विश्रुतः ।
येन स्वर्गाद् इहागत्य मुहूर्तं प्राप्य जीवितम् ॥ ७४ ॥

त्रयो ऽभिसन्धिता लोका बुद्ध्या सत्येन चानघाः ।
दिलीपस्य तु दायादो महाराजो भगीरथः ॥ ७५ ॥

यः स गङ्गां सरिच्छ्रेष्ठाम् अवातारयत प्रभुः ।
समुद्रम् आनयच् चैनां दुहितृत्वे ऽप्य् अकल्पयत् ॥ ७६ ॥

तस्माद् भागीरथी गङ्गा कथ्यते वंशचिन्तकैः ।
भगीरथसुतो राजा श्रुत इत्य् अभिविश्रुतः ॥ ७७ ॥

नाभागस् तु श्रुतस्यासीत् पुत्रः परमधार्मिकः ।
अम्बरीषस् तु नाभागिः सिन्धुद्वीपपिताभवत् ॥ ७८ ॥

अयुताजित् तु दायादः सिन्धुद्वीपस्य वीर्यवान् ।
अयुताजित्सुतस् त्व् आसीद् ऋतुपर्णो महायशाः ॥ ७९ ॥

दिव्याक्षहृदयज्ञो वै राजा नलसखो बली ।
ऋतुपर्णसुतस् त्व् आसीद् आर्तपर्णिर् महायशाः ॥ ८० ॥

सुदासस् तस्य तनयो राजा इन्द्रसखो ऽभवत् ।
सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥ ८१ ॥

ख्यातः कल्माषपादो वै राजा मित्रसहो ऽभवत् ।
कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ॥ ८२ ॥

अनरण्यस् तु पुत्रो ऽभूद् विश्रुतः सर्वकर्मणः ।
अनरण्यसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ॥ ८३ ॥

अनमित्रो रघुश् चैव पार्थिवर्षभसत्तमौ ।
अनमित्रसुतो राजा विद्वान् दुलिदुहो ऽभवत् ॥ ८४ ॥

दिलीपस् तनयस् तस्य रामस्य प्रपितामहः ।
दीर्घबाहुर् दिलीपस्य रघुर् नाम्ना सुतो ऽभवत् ॥ ८५ ॥

अयोध्यायां महाराजो यः पुरासीन् महाबलः ।
अजस् तु राघवो जज्ञे तथा दशरथो ऽप्य् अजात् ॥ ८६ ॥

रामो दशरथाज् जज्ञे धर्मात्मा सुमहायशाः ।
रामस्य तनयो जज्ञे कुश इत्य् अभिसञ्ज्ञितः ॥ ८७ ॥

अतिथिस् तु कुशाज् जज्ञे धर्मात्मा सुमहायशाः ।
अतिथेस् त्व् अभवत् पुत्रो निषधो नाम वीर्यवान् ॥ ८८ ॥

निषधस्य नलः पुत्रो नभः पुत्रो नलस्य च ।
नभस्य पुण्डरीकस् तु क्षेमधन्वा ततः स्मृतः ॥ ८९ ॥

क्षेमधन्वसुतस् त्व् आसीद् देवानीकः प्रतापवान् ।
आसीद् अहीनगुर् नाम देवानीकात्मजः प्रभुः ॥ ९० ॥

अहीनगोस् तु दायादः सुधन्वा नाम पार्थिवः ।
सुधन्वनः सुतश् चापि ततो जज्ञे शलो नृपः ॥ ९१ ॥

उक्यो नाम स धर्मात्मा शलपुत्रो बभूव ह ।
वज्रनाभः सुतस् तस्य नलस् तस्य महात्मनः ॥ ९२ ॥

नलौ द्वाव् एव विख्यातौ पुराणे मुनिसत्तमाः ।
वीरसेनात्मजश् चैव यश् चेक्ष्वाकुकुलोद्वहः ॥ ९३ ॥

इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ।
एते विवस्वतो वंशे राजानो भूरितेजसः ॥ ९४ ॥

पठन् सम्यग् इमां सृष्टिम् आदित्यस्य विवस्वतः ।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ।
प्रजावान् एति सायुज्यम् आदित्यस्य विवस्वतः ॥ ९५ ॥