Summary (SA)
Chapter 7- The solar dynasty
{{Ref- SS 17-20}}
लोमहर्षण उवाच-
मनोर् वैवस्वतस्यासन् पुत्रा वै नव तत्समाः ।
इक्ष्वाकुश् चैव नाभागो धृष्टः शर्यातिर् एव च ॥ १ ॥
नरिष्यन्तश् च षष्ठो वै प्रांशू रिष्टश् च सप्तमः ।
करूषश् च पृषध्रश् च नवैते मुनिसत्तमाः ॥ २ ॥
अकरोत् पुत्रकामस् तु मनुर् इष्टिं प्रजापतिः ।
मित्रावरुणयोर् विप्राः पूर्वम् एव महामतिः ॥ ३ ॥
अनुत्पन्नेषु बहुषु पुत्रेष्व् एतेषु भो द्विजाः ।
तस्यां च वर्तमानायाम् इष्ट्यां च द्विजसत्तमाः ॥ ४ ॥
मित्रावरुणयोर् अंशे मनुर् आहुतिम् आवहत् ।
तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ॥ ५ ॥
दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः ।
ताम् इलेत्य् एव होवाच मनुर् दण्डधरस् तदा ॥ ६ ॥
अनुगच्छस्व मां भद्रे तम् इला प्रत्युवाच ह ।
धर्मयुक्तम् इदं वाक्यं पुत्रकामं प्रजापतिम् ॥ ७ ॥
इलोवाच-
मित्रावरुणयोर् अंशे जातास्मि वदतां वर ।
तयोः सकाशं यास्यामि न मां धर्महतां कुरु ॥ ८ ॥
सैवम् उक्त्वा मनुं देवं मित्रावरुणयोर् इला ।
गत्वान्तिकं वरारोहा प्राञ्जलिर् वाक्यम् अब्रवीत् ॥ ९ ॥
इलोवाच-
अंशे ऽस्मि युवयोर् जाता देवौ किं करवाणि वाम् ।
मनुना चाहम् उक्ता वाऐ अनुगच्छस्व माम् इति ॥ १० ॥
तौ तथावादिनीं साध्वीम् इलां धर्मपरायणाम् ।
मित्रश् च वरुणश् चोभाव् ऊचतुस् तां द्विजोत्तमाः ॥ ११ ॥
मित्रावरुणाव् ऊचतुः-
अनेन तव धर्मेण प्रश्रयेण दमेन च ।
सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि ॥ १२ ॥
आवयोस् त्वं महाभागे ख्यातिं कन्येति यास्यसि ॥ १३ ॥
मनोर् वंशकरः पुत्रस् त्वम् एव च भविष्यसि ।
सुद्युम्न इति विख्यातस् त्रिषु लोकेषु शोभने ॥ १४ ॥
जगत्प्रियो धर्मशीलो मनोर् वंशविवर्धनः ।
निवृत्ता सा तु तच् छ्रुत्वा गच्छन्ती पितुर् अन्तिकात् ॥ १५ ॥
बुधेनान्तरम् आसाद्य मैथुनायोपमन्त्रिता ।
सोमपुत्राद् बुधाद् विप्रास् तस्यां जज्ञे पुरूरवाः ॥ १६ ॥
जनयित्वा ततः सा तम् इला सुद्युम्नतां गता ।
सुद्युम्नस्य तु दायादास् त्रयः परमधार्मिकाः ॥ १७ ॥
उत्कलश् च गयश् चैव विनताश्वश् च भो द्विजाः ।
उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ॥ १८ ॥
दिक् पूर्वा मुनिशार्दूला गयस्य तु गया स्मृता ।
प्रविष्टे तु मनौ विप्रा दिवाकरम् अरिन्दमम् ॥ १९ ॥
दशधा तत् पुनः क्षत्रम् अकरोत् पृथिवीम् इमाम् ।
इक्ष्वाकुर् ज्येष्ठदायादो मध्यदेशम् अवाप्तवान् ॥ २० ॥
कन्याभावात् तु सुद्युम्नो नैतद् राज्यम् अवाप्तवान् ।
वसिष्ठवचनात् त्व् आसीत् प्रतिष्ठाने महात्मनः ॥ २१ ॥
प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य द्विजोत्तमाः ।
तत् पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः ॥ २२ ॥
मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर् लक्षणैर् युतः ।
धृतवांस् ताम् इलेत्य् एवं सुद्युम्नेति च विश्रुतः ॥ २३ ॥
नारिष्यन्ताः शकाः पुत्रा नाभागस्य तु भो द्विजाः ।
अम्बरीषो ऽभवत् पुत्रः पार्थिवर्षभसत्तमः ॥ २४ ॥
धृष्टस्य धार्ष्टकं क्षत्रं रणदृप्तं बभूव ह ।
करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ २५ ॥
नाभागधृष्टपुत्राश् च क्षत्रिया वैश्यतां गताः ।
प्रांशोर् एको ऽभवत् पुत्रः प्रजापतिर् इति स्मृतः ॥ २६ ॥
नरिष्यन्तस्य दायादो राजा दण्डधरो यमः ।
शर्यातेर् मिथुनं त्व् आसीद् आनर्तो नाम विश्रुतः ॥ २७ ॥
पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह ।
आनर्तस्य तु दायादो रैवो नाम महाद्युतिः ॥ २८ ॥
आनर्तविषयश् चैव पुरी चास्य कुशस्थली ।
रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ २९ ॥
ज्येष्ठः पुत्रः स तस्यासीद् राज्यं प्राप्य कुशस्थलीम् ।
स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणो ऽन्तिके ॥ ३० ॥
मुहूर्तभूतं देवस्य तस्थौ बहुयुगं द्विजाः ।
आजगाम स चैवाथ स्वां पुरीं यादवैर् वृताम् ॥ ३१ ॥
कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।
भोजवृष्ण्यन्धकैर् गुप्तां वसुदेवपुरोगमैः ॥ ३२ ॥
तत्रैव रैवतो ज्ञात्वा यथातत्त्वं द्विजोत्तमाः ।
कन्यां तां बलदेवाय सुभद्रां नाम रेवतीम् ॥ ३३ ॥
दत्त्वा जगाम शिखरं मेरोस् तपसि संस्थितः ।
रेमे रामो ऽपि धर्मात्मा रेवत्या सहितः सुखी ॥ ३४ ॥
मुनय ऊचुः-
कथं बहुयुगे काले समतीते महामते ।
न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् ॥ ३५ ॥
मेरुं गतस्य वा तस्य शर्यातेः सन्ततिः कथम् ।
स्थिता पृथिव्याम् अद्यापि श्रोतुम् इच्छाम तत्त्वतः ॥ ३६ ॥
लोमहर्षण उवाच-
न जरा क्षुत्पिपासा वा न मृत्युर् मुनिसत्तमाः ।
ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघाः ।
ककुद्मिनः स्वर्लोकं तु रैवतस्य गतस्य ह ॥ ३७ ॥
हृता पुण्यजनैर् विप्रा राक्षसैः सा कुशस्थली ।
तस्य भ्रातृशतं त्व् आसीद् धार्मिकस्य महात्मनः ॥ ३८ ॥
तद् वध्यमानं रक्षोभिर् दिशः प्राक्रामद् अच्युताः ।
विद्रुतस्य च विप्रेन्द्रास् तस्य भ्रातृशतस्य वै ॥ ३९ ॥
अन्ववायस् तु सुमहांस् तत्र तत्र द्विजोत्तमाः ।
तेषां ह्य् एते मुनिश्रेष्ठाः शर्याता इति विश्रुताः ॥ ४० ॥
क्षत्रिया गुणसम्पन्ना दिक्षु सर्वासु विश्रुताः ।
शर्वशः सर्वगहनं प्रविष्टास् ते महौजसः ॥ ४१ ॥
नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ ।
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ४२ ॥
पृषध्रो हिंसयित्वा तु गुरोर् गां द्विजसत्तमाः ।
शापाच् छूद्रत्वम् आपन्नो नवैते परिकीर्तिताः ॥ ४३ ॥
वैवस्वतस्य तनया मुनेर् वै मुनिसत्तमाः ।
क्षुवतस् तु मनोर् विप्रा इक्ष्वाकुर् अभवत् सुतः ॥ ४४ ॥
तस्य पुत्रशतं त्व् आसीद् इक्ष्वाकोर् भूरिदक्षिणम् ।
तेषां विकुक्षिर् ज्येष्ठस् तु विकुक्षित्वाद् अयोधताम् ॥ ४५ ॥
प्राप्तः परमधर्मज्ञ सो ऽयोध्याधिपतिः प्रभुः ।
शकुनिप्रमुखास् तस्य पुत्राः पञ्चशतं स्मृताः ॥ ४६ ॥
उत्तरापथदेशस्य रक्षितारो महाबलाः ।
चत्वारिंशद् दशाष्टौ च दक्षिणस्यां तथा दिशि ॥ ४७ ॥
वशातिप्रमुखाश् चान्ये रक्षितारो द्विजोत्तमाः ।
इक्ष्वाकुस् तु विकुक्षिं वाऐ अष्टकायाम् अथादिशत् ॥ ४८ ॥
मांसम् आनय श्राद्धार्थं मृगान् हत्वा महाबल ।
श्राद्धकर्मणि चोद्दिष्टो अकृते श्राद्धकर्मणि ॥ ४९ ॥
भक्षयित्वा शशं विप्राः शशादो मृगयां गतः ।
इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात् प्रभुः ॥ ५० ॥
इक्ष्वाकौ संस्थिते विप्राः शशादस् तु नृपो ऽभवत् ।
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ॥ ५१ ॥
अनेनास् तु ककुत्स्थस्य पृथुश् चानेनसः स्मृतः ।
विष्टराश्वः पृथोः पुत्रस् तस्माद् आर्द्रस् त्व् अजायत ॥ ५२ ॥
आर्द्रस् तु युवनाश्वस् तु श्रावस्तस् तत्सुतो द्विजाः ।
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ॥ ५३ ॥
श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः ।
कुवलाश्वः सुतस् तस्य राजा परमधार्मिकः ॥ ५४ ॥
यः स धुन्धुवधाद् राजा धुन्धुमारत्वम् आगतः ॥ ५५ ॥
मुनय ऊचुः-
धुन्धोर् वधं महाप्राज्ञ श्रोतुम् इच्छाम तत्त्वतः ।
यद्वधात् कुवलाश्वो ऽसौ धुन्धुमारत्वम् आगतः ॥ ५६ ॥
लोमहर्षण उवाच-
कुवलाश्वस्य पुत्राणां शतम् उत्तमधन्विनाम् ।
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ ५७ ॥
बभूवुर् धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः ।
कुवलाश्वं पिता राज्ये बृहदश्वो न्ययोजयत् ॥ ५८ ॥
पुत्रसङ्क्रामितश्रीस् तु वनं राजा विवेश ह ।
तम् उत्तङ्को ऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् ॥ ५९ ॥
उत्तङ्क उवाच-
भवता रक्षणं कार्यं तच् च कर्तुं त्वम् अर्हसि ।
निरुद्विग्नस् तपश् चर्तुं नहि शक्नोमि पार्थिव ॥ ६० ॥
ममाश्रमसमीपे वै समेषु मरुधन्वसु ।
समुद्रो वालुकापूर्ण उद्दालक इति स्मृतः ॥ ६१ ॥
देवतानाम् अवध्यश् च महाकायो महाबलः ।
अन्तर्भूमिगतस् तत्र वालुकान्तर्हितो महान् ॥ ६२ ॥
राक्षसस्य मधोः पुत्रो धुन्धुर् नाम महासुरः ।
शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ ६३ ॥
संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति ।
यदा तदा मही तत्र चलति स्म नराधिप ॥ ६४ ॥
तस्य निःश्वासवातेन रज उद्धूयते महत् ।
आदित्यपथम् आवृत्य सप्ताहं भूमिकम्पनम् ॥ ६५ ॥
सविस्फुलिङ्गं साङ्गारं सधूमम् अतिदारुणम् ।
तेन तात न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे ॥ ६६ ॥
तं मारय महाकायं लोकानां हितकाम्यया ।
लोकाः स्वस्था भवन्त्य् अद्य तस्मिन् विनिहते त्वया ॥ ६७ ॥
त्वं हि तस्य वधायैकः समर्थः पृथिवीपते ।
विष्णुना च वरो दत्तो मह्यं पूर्वयुगे नृप ॥ ६८ ॥
यस् तं महासुरं रौद्रं हनिष्यति महाबलम् ।
तस्य त्वं वरदानेन तेजश् चाख्यापयिष्यसि ॥ ६९ ॥
नहि धुन्धुर् महातेजास् तेजसाल्पेन शक्यते ।
निर्दग्धुं पृथिवीपाल चिरं युगशतैर् अपि ॥ ७० ॥
वीर्यं च सुमहत् तस्य देवैर् अपि दुरासदम् ।
स एवम् उक्तो राजर्षिर् उत्तङ्केन महात्मना ।
कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिबर्हणे ॥ ७१ ॥
बृहदश्व उवाच-
भगवन् न्यस्तशस्त्रो ऽहम् अयं तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ ७२ ॥
स तं व्यादिश्य तनयं राजर्षिर् धुन्धुमारणे ।
जगाम पर्वतायैव नृपतिः संशितव्रतः ॥ ७३ ॥
लोमहर्षण उवाच-
कुवलाश्वस् तु पुत्राणां शतेन सह भो द्विजाः ।
प्रायाद् उत्तङ्कसहितो धुन्धोस् तस्य निबर्हणे ॥ ७४ ॥
तम् आविशत् तदा विष्णुस् तेजसा भगवान् प्रभुः ।
उत्तङ्कस्य नियोगाद् वै लोकानां हितकाम्यया ॥ ७५ ॥
तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महान् अभूत् ।
एष श्रीमान् अवध्यो ऽद्य धुन्धुमारो भविष्यति ॥ ७६ ॥
दिव्यैर् गन्धैश् च माल्यैश् च तं देवाः समवाकिरन् ।
देवदुन्दुभयश् चैव प्रणेदुर् द्विजसत्तमाः ॥ ७७ ॥
स गत्वा जयतां श्रेष्ठस् तनयैः सह वीर्यवान् ।
समुद्रं खानयाम् आस वालुकान्तरम् अव्ययम् ॥ ७८ ॥
तस्य पुत्रैः खनद्भिश् च वालुकान्तर्हितस् तदा ।
धुन्धुर् आसादितो विप्रा दिशम् आवृत्य पश्चिमाम् ॥ ७९ ॥
मुखजेनाग्निना क्रोधाल् लोकान् उद्वर्तयन्न् इव ।
वारि सुस्राव वेगेन महोदधिर् इवोदये ॥ ८० ॥
सौमस्य मुनिशार्दूला वरोर्मिकलिलो महान् ।
तस्य पुत्रशतं दग्धं त्रिभिर् ऊनं तु रक्षसा ॥ ८१ ॥
ततः स राजा द्युतिमान् राक्षसं तं महाबलम् ।
आससाद महातेजा धुन्धुं धुन्धुविनाशनः ॥ ८२ ॥
तस्य वारिमयं वेगम् आपीय स नराधिपः ।
योगी योगेन वह्निं च शमयाम् आस वारिणा ॥ ८३ ॥
निहत्य तं महाकायं बलेनोदकराक्षसम् ।
उत्तङ्कं दर्शयाम् आस कृतकर्मा नराधिपः ॥ ८४ ॥
उत्तङ्कस् तु वरं प्रादात् तस्मै राज्ञे महात्मने ।
ददौ तस्याक्षयं वित्तं शत्रुभिश् चापराजितम् ॥ ८५ ॥
धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् ।
पुत्राणां चाक्षयांल् लोकान् स्वर्गे ये रक्षसा हताः ॥ ८६ ॥
तस्य पुत्रास् त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते ।
चन्द्राश्वकपिलाश्वौ तु कनीयांसौ कुमारकौ ॥ ८७ ॥
धौन्धुमारेर् दृढाश्वस्य हर्यश्वश् चात्मजः स्मृतः ।
हर्यश्वस्य निकुम्भो ऽभूत् क्षत्रधर्मरतः सदा ॥ ८८ ॥
संहताश्वो निकुम्भस्य सुतो रणविशारदः ।
अकृशाश्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः ॥ ८९ ॥
तस्य हैमवती कन्या सतां मता दृषद्वती ।
विख्याता त्रिषु लोकेषु पुत्रश् चास्याः प्रसेनजित् ॥ ९० ॥
लेभे प्रसेनजिद् भार्यां गौरीं नाम पतिव्रताम् ।
अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत् ॥ ९१ ॥
तस्य पुत्रो महान् आसीद् युवनाश्वो नराधिपः ।
मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः ॥ ९२ ॥
तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् ।
साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि ॥ ९३ ॥
पतिव्रता च ज्येष्ठा च भ्रातॄणाम् अयुतस्य वै ।
तस्याम् उत्पादयाम् आस मान्धाता द्वौ सुतौ द्विजाः ॥ ९४ ॥
पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च पार्थिवम् ।
पुरुकुत्ससुतस् त्व् आसीत् त्रसदस्युर् महीपतिः ॥ ९५ ॥
नर्मदायाम् अथोत्पन्नः सम्भूतस् तस्य चात्मजः ।
सम्भूतस्य तु दायादस् ।
त्रिधन्वा रिपुमर्दनः ॥ ९६ ॥
राज्ञस् त्रिधन्वनस् त्व् आसीद् विद्वांस् त्रय्यारुणः प्रभुः ।
तस्य सत्यव्रतो नाम कुमारो ऽभून् महाबलः ॥ ९७ ॥
परिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः ।
येन भार्या कृतोद्वाहा हृता चैव परस्य ह ॥ ९८ ॥
बाल्यात् कामाच् च मोहाच् च साहसाच् चापलेन च ।
जहार कन्यां कामार्तः कस्यचित् पुरवासिनः ॥ ९९ ॥
अधर्मशङ्कुना तेन तं स त्रय्यारुणो ऽत्यजत् ।
अपध्वंसेति बहुशो वदन् क्रोधसमन्वितः ॥ १०० ॥
सो ऽब्रवीत् पितरं त्यक्तः क्व गच्छामीति वै मुहुः ।
पिता च तम् अथोवाच श्वपाकैः सह वर्तय ॥ १०१ ॥
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन ।
इत्य् उक्तः स निराक्रामन् नगराद् वचनात् पितुः ॥ १०२ ॥
न च तं वारयाम् आस वसिष्ठो भगवान् ऋषिः ।
स तु सत्यव्रतो विप्राः श्वपाकावसथान्तिके ॥ १०३ ॥
पित्रा त्यक्तो ऽवसद् वीरः पिताप्य् अस्य वनं ययौ ।
ततस् तस्मिंस् तु विषये नावर्षत् पाकशासनः ॥ १०४ ॥
समा द्वादश भो विप्रास् तेनाधर्मेण वै तदा ।
दारांस् तु तस्य विषये विश्वामित्रो महातपाः ॥ १०५ ॥
सन्न्यस्य सागरान्ते तु चकार विपुलं तपः ।
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रम् औरसम् ॥ १०६ ॥
शेषस्य भरणार्थाय व्यक्रीणाद् गोशतेन वै ।
तं च बद्धं गले दृष्ट्वा विक्रयार्थं नृपात्मजः ॥ १०७ ॥
महर्षिपुत्रं धर्मात्मा मोक्षयाम् आस भो द्विजाः ।
सत्यव्रतो महाबाहुर् भरणं तस्य चाकरोत् ॥ १०८ ॥
विश्वामित्रस्य तुष्ट्यर्थम् अनुकम्पार्थम् एव च ।
सो ऽभवद् गालवो नाम गले बन्धान् महातपाः ।
महर्षिः कौशिको धीमांस् तेन वीरेण मोक्षितः ॥ १०९ ॥