006

Summary (SA)

Chapter 6- Story of Vivasvat and Sañjñā and their progeny

{{Ref- SS 16-17}}

लोमहर्षण उवाच-

विवस्वान् कश्यपाज् जज्ञे दाक्षायण्यां द्विजोत्तमाः ।
तस्य भार्याभवत् सञ्ज्ञा त्वाष्ट्री देवी विवस्वतः ॥ १ ॥

सुरेश्वरीति विख्याता त्रिषु लोकेषु भाविनी ।
सा वै भार्या भगवतो मार्तण्डस्य महात्मनः ॥ २ ॥

भर्तृरूपेण नातुष्यद् रूपयौवनशालिनी ।
सञ्ज्ञा नाम सुतपसा सुदीप्तेन समन्विता ॥ ३ ॥

आदित्यस्य हि तद् रूपं मण्डलस्य सुतेजसा ।
गात्रेषु परिदग्धं वै नातिकान्तम् इवाभवत् ॥ ४ ॥

न खल्व् अयं मृतो ऽण्डस्य इति स्नेहाद् अभाषत ।
अजानन् काश्यपस् तस्मान् मार्तण्ड इति चोच्यते ॥ ५ ॥

तेजस् त्व् अभ्यधिकं तस्य नित्यम् एव विवस्वतः ।
येनातितापयाम् आस त्रींल् लोकान् कश्यपात्मजः ॥ ६ ॥

त्रीण्य् अपत्यानि भो विप्राः सञ्ज्ञायां तपतां वरः ।
आदित्यो जनयाम् आस कन्यां द्वौ च प्रजापती ॥ ७ ॥

मनुर् वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः ।
यमश् च यमुना चैव यमजौ सम्बभूवतुः ॥ ८ ॥

श्यामवर्णं तु तद् रूपं सञ्ज्ञा दृष्ट्वा विवस्वतः ।
असहन्ती तु स्वां छायां सवर्णां निर्ममे ततः ॥ ९ ॥

मायामयी तु सा सञ्ज्ञा तस्यां छायासमुत्थिताम् ।
प्राञ्जलिः प्रणता भूत्वा छाया सञ्ज्ञां द्विजोत्तमाः ॥ १० ॥

उवाच किं मया कार्यं कथयस्व शुचिस्मिते ।
स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि ॥ ११ ॥

सञ्ज्ञोवाच-

अहं यास्यामि भद्रं ते स्वम् एव भवनं पितुः ।
त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया ॥ १२ ॥

इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा ।
सम्भाव्यास् ते न चाख्येयम् इदं भगवते क्वचित् ॥ १३ ॥

सवर्णोवाच-

आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् ।
आख्यास्यामि नमस् तुभ्यं गच्छ देवि यथासुखम् ॥ १४ ॥

लोमहर्षण उवाच-

समादिश्य सवर्णां तु तथेत्य् उक्ता तया च सा ।
त्वष्टुः समीपम् अगमद् व्रीडितेव तपस्विनी ॥ १५ ॥

पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा ।
भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ॥ १६ ॥

आगच्छद् वडवा भूत्वा आच्छाद्य रूपम् अनिन्दिता ।
कुरून् अथोत्तरान् गत्वा तृणान्य् अथ चचार ह ॥ १७ ॥

द्वितीयायां तु सञ्ज्ञायां सञ्ज्ञेयम् इति चिन्तयन् ।
आदित्यो जनयाम् आस पुत्रम् आत्मसमं तदा ॥ १८ ॥

पूर्वजस्य मनोर् विप्राः सदृशो ऽयम् इति प्रभुः ।
मनुर् एवाभवन् नाम्ना सावर्ण इति चोच्यते ॥ १९ ॥

द्वितीयो यः सुतस् तस्याः स विज्ञेयः शनैश्चरः ।
सञ्ज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा ॥ २० ॥

चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै ।
मनुस् तस्याः क्षमत् तत् तु यमस् तस्या न चक्षमे ॥ २१ ॥

स वै रोषाच् च बाल्याच् च भाविनो ऽर्थस्य वानघ ।
पदा सन्तर्जयाम् आस सञ्ज्ञां वैवस्वतो यमः ॥ २२ ॥

तं शशाप ततः क्रोधात् सावर्णजननी तदा ।
चरणः पतताम् एष तवेति भृशदुःखिता ॥ २३ ॥

यमस् तु तत् पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् ।
भृशं शापभयोद्विग्नः सञ्ज्ञावाक्यैर् विशङ्कितः ॥ २४ ॥

शापो ऽयं विनिवर्तेत प्रोवाच पितरं द्विजाः ।
मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ २५ ॥

सेयम् अस्मान् अपास्येह विवस्वन् सम्बुभूषति ।
तस्यां मयोद्यतः पादो न तु देहे निपातितः ॥ २६ ॥

बाल्याद् वा यदि वा लौल्यान् मोहात् तत् क्षन्तुम् अर्हसि ।
शप्तो ऽहम् अस्मि लोकेश जनन्या तपतां वर ।
तव प्रसादाच् चरणो न पतेन् मम गोपते ॥ २७ ॥

विवस्वान् उवाच-

असंशयं पुत्र महद् भविष्यत्य् अत्र कारणम् ।
येन त्वाम् आविशत् क्रोधो धर्मज्ञं सत्यवादिनम् ॥ २८ ॥

न शक्यम् एतन् मिथ्या तु कर्तुं मातृवचस् तव ।
कृमयो मांसम् आदाय यास्यन्त्य् अवनिम् एव च ॥ २९ ॥

कृतम् एवं वचस् तथ्यं मातुस् तव भविष्यति ।
शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥ ३० ॥

आदित्यश् चाब्रवीत् सञ्ज्ञां किमर्थं तनयेषु वै ।
तुल्येष्व् अभ्यधिकः स्नेह एकस्मिन् क्रियते त्वया ॥ ३१ ॥

सा तत् परिहरन्ती तु नाचचक्षे विवस्वते ।
स चात्मानं समाधाय योगात् तथ्यम् अपश्यत ॥ ३२ ॥

तां शप्तुकामो भगवान् नाशपन् मुनिसत्तमाः ।
मूर्धजेषु निजग्राह स तु तां मुनिसत्तमाः ॥ ३३ ॥

ततः सर्वं यथावृत्तम् आचचक्षे विवस्वते ।
विवस्वान् अथ तच् छ्रुत्वा क्रुद्धस् त्वष्टारम् अभ्यगात् ॥ ३४ ॥

दृष्ट्वा तु तं यथान्यायम् अर्चयित्वा विभावसुम् ।
निर्दग्धुकामं रोषेण सान्त्वयाम् आस वै तदा ॥ ३५ ॥

त्वष्टोवाच-

तवातितेजसाविष्टम् इदं रूपं न शोभते ।
असहन्ती च सञ्ज्ञा सा वने चरति शाड्वले ॥ ३६ ॥

द्रष्टा हि तां भवान् अद्य स्वां भार्यां शुभचारिणीम् ।
श्लाघ्यां योगबलोपेतां योगम् आस्थाय गोपते ॥ ३७ ॥

अनुकूलं तु ते देव यदि स्यान् मम सम्मतम् ।
रूपं निर्वर्तयाम्य् अद्य तव कान्तम् अरिन्दम ॥ ३८ ॥

ततो ऽभ्युपगमात् त्वष्टा मार्तण्डस्य विवस्वतः ।
भ्रमिम् आरोप्य तत् तेजः शातयाम् आस भो द्विजाः ॥ ३९ ॥

ततो निर्भासितं रूपं तेजसा संहतेन वै ।
कान्तात् कान्ततरं द्रष्टुम् अधिकं शुशुभे तदा ॥ ४० ॥

ददर्श योगम् आस्थाय स्वां भार्यां वडवां ततः ।
अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥ ४१ ॥

वडवावपुषा विप्राश् चरन्तीम् अकुतोभयाम् ।
सो ऽश्वरूपेण भगवांस् तां मुखे समभावयत् ॥ ४२ ॥

मैथुनाय विचेष्टन्तीं परपुंसो ऽवशङ्कया ।
सा तन् निरवमच् छुक्रं नासिकाभ्यां विवस्वतः ॥ ४३ ॥

देवौ तस्याम् अजायेताम् अश्विनौ भिषजां वरौ ।
नासत्यश् चैव दस्रश् च स्मृतौ द्वाव् अश्विनाव् इति ॥ ४४ ॥

मार्तण्डस्यात्मजाव् एताव् अष्टमस्य प्रजापतेः ।
तां तु रूपेण कान्तेन दर्शयाम् आस भास्करः ॥ ४५ ॥

सा तु दृष्ट्वैव भर्तारं तुतोष मुनिसत्तमाः ।
यमस् तु कर्मणा तेन भृशं पीडितमानसः ॥ ४६ ॥

धर्मेण रञ्जयाम् आस धर्मराज इमाः प्रजाः ।
स लेभे कर्मणा तेन शुभेन परमद्युतिः ॥ ४७ ॥

पितॄणाम् आधिपत्यं च लोकपालत्वम् एव च ।
मनुः प्रजापतिस् त्व् आसीत् सावर्णिः स तपोधनाः ॥ ४८ ॥

भाव्यः समागते तस्मिन् मनुः सावर्णिके ऽन्तरे ।
मेरुपृष्ठे तपो नित्यम् अद्यापि स चरत्य् उत ॥ ४९ ॥

भ्राता शनैश्चरस् तस्य ग्रहत्वं स तु लब्धवान् ।
त्वष्टा तु तेजसा तेन विष्णोश् चक्रम् अकल्पयत् ॥ ५० ॥

तद् अप्रतिहतं युद्धे दानवान्तचिकीर्षया ।
यवीयसी तु साप्य् आसीद् यमी कन्या यशस्विनी ॥ ५१ ॥

अभवच् च सरिच्छ्रेष्ठा यमुना लोकपावनी ।
मनुर् इत्य् उच्यते लोके सावर्ण इति चोच्यते ॥ ५२ ॥

द्वितीयो यः सुतस् तस्य मनोर् भ्राता शनैश्चरः ।
ग्रहत्वं स च लेभे वै सर्वलोकाभिपूजितः ॥ ५३ ॥

य इदं जन्म देवानां शृणुयान् नरसत्तमः ।
आपदं प्राप्य मुच्येत प्राप्नुयाच् च महद् यशः ॥ ५४ ॥