005

Summary (SA)

Chapter 5- Description of Manu-eras

{{Ref- SS 12-16}}

ऋषय ऊचुः-

मन्वन्तराणि सर्वाणि विस्तरेण महामते ।
तेषां पूर्वविसृष्टिं च लोमहर्षण कीर्तय ॥ १ ॥

यावन्तो मनवश् चैव यावन्तं कालम् एव च ।
मन्वन्तराणि भोः सूत श्रोतुम् इच्छाम तत्त्वतः ॥ २ ॥

लोमहर्षण उवाच-

न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैर् अपि ।
मन्वन्तराणां सर्वेषां सङ्क्षेपाच् छृणुत द्विजाः ॥ ३ ॥

स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस् तथा ।
उत्तमस् तामसश् चैव रैवतश् चाक्षुषस् तथा ॥ ४ ॥

वैवस्वतश् च भो विप्राः साम्प्रतं मनुर् उच्यते ।
सावर्णिश् च मनुस् तद्वद् रैभ्यो रौच्यस् तथैव च ॥ ५ ॥

तथैव मेरुसावर्ण्यश् चत्वारो मनवः स्मृताः ।
अतीता वर्तमानाश् च तथैवानागता द्विजाः ॥ ६ ॥

कीर्तिता मनवस् तुभ्यं मयैवैते यथा श्रुताः ।
ऋषींस् त्व् एषां प्रवक्ष्यामि पुत्रान् देवगणांस् तथा ॥ ७ ॥

मरीचिर् अत्रिर् भगवान् अङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश् च वसिष्ठश् च सप्तैते ब्रह्मणः सुताः ॥ ८ ॥

उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस् तथा ।
आग्निइध्रश् चाग्निबाहुश् च मेध्यो मेधातिथिर् वसुः ॥ ९ ॥

ज्योतिष्मान् द्युतिमान् हव्यः सवलः पुत्रसञ्ज्ञकः ।
मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ॥ १० ॥

एतद् वै प्रथमं विप्रा मन्वन्तरम् उदाहृतम् ।
और्वो वसिष्ठपुत्रश् च स्तम्बः कश्यप एव च ॥ ११ ॥

प्राणो बृहस्पतिश् चैव दत्तो ऽत्रिच्च्यवनस् तथा ।
एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः ॥ १२ ॥

देवाश् च तुषिता नाम स्मृताः स्वारोचिषे ऽन्तरे ।
हविघ्नः सुकृतिर् ज्योतिर् आपो मूर्तिर् अपि स्मृतः ॥ १३ ॥

प्रतीतश् च नभस्यश् च नभ ऊर्जस् तथैव च ।
स्वारोचिषस्य पुत्रास् ते मनोर् विप्रा महात्मनः ॥ १४ ॥

कीर्तिताः पृथिवीपाला महावीर्यपराक्रमाः ।
द्वितीयम् एतत् कथितं विप्रा मन्वन्तरं मया ॥ १५ ॥

इदं तृतीयं वक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः ।
वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ॥ १६ ॥

हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः ।
ऋषयो ऽत्र मया प्रोक्ताः कीर्त्यमानान् निबोधत ॥ १७ ॥

औत्तमेयान् मुनिश्रेष्ठा दश पुत्रान् मनोर् इमान् ।
इष ऊर्जस् तनूर्जस् तु मधुर् माधव एव च ॥ १८ ॥

शुचिः शुक्रः सहश् चैव नभस्यो नभ एव च ।
भानवस् तत्र देवाश् च मन्वन्तरम् उदाहृतम् ॥ १९ ॥

मन्वन्तरं चतुर्थं वः कथयिष्यामि साम्प्रतम् ।
काव्यः पृथुस् तथैवाग्निर् जह्नुर् धाता द्विजोत्तमाः ॥ २० ॥

कपीवान् अकपीवांश् च तत्र सप्तर्षयो द्विजाः ।
पुराणे कीर्तिता विप्राः पुत्राः पौत्राश् च भो द्विजाः ॥ २१ ॥

तथा देवगणाश् चैव तामसस्यान्तरे मनोः ।
द्युतिस् तपस्यः सुतपास् तपोभूतः सनातनः ॥ २२ ॥

तपोरतिर् अकल्माषस् तन्वी धन्वी परन्तपः ।
तामसस्य मनोर् एते दश पुत्राः प्रकीर्तिताः ॥ २३ ॥

वायुप्रोक्ता मुनिश्रेष्ठाश् चतुर्थं चैतद् अन्तरम् ।
देवबाहुर् यदुध्रश् च मुनिर् वेदशिरास् तथा ॥ २४ ॥

हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश् च सोमजः ।
सत्यनेत्रस् तथात्रेय एते सप्तर्षयो ऽपरे ॥ २५ ॥

देवाश् चाभूतरजसस् तथा प्रकृतयः स्मृताः ।
वारिप्लवश् च रैभ्यश् च मनोर् अन्तरम् उच्यते ॥ २६ ॥

अथ पुत्रान् इमांस् तस्य बुध्यध्वं गदतो मम ।
धृतिमान् अव्ययो युक्तस् तत्त्वदर्शी निरुत्सुकः ॥ २७ ॥

आरण्यश् च प्रकाशश् च निर्मोहः सत्यवाक् कृती ।
रैवतस्य मनोः पुत्राः पञ्चमं चैतद् अन्तरम् ॥ २८ ॥

षष्ठं तु सम्प्रवक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः ।
भृगुर् नभो विवस्वांश् च सुधामा विरजास् तथा ॥ २९ ॥

अतिनामा सहिष्णुश् च सप्तैते च महर्षयः ।
चाक्षुषस्यान्तरे विप्रा मनोर् देवास् त्व् इमे स्मृताः ॥ ३० ॥

आबालप्रथितास् ते वै पृथक्त्वेन दिवौकसः ।
लेखाश् च नामतो विप्राः पञ्च देवगणाः स्मृताः ॥ ३१ ॥

ऋषेर् अङ्गिरसः पुत्रा महात्मानो महौजसः ।
नाड्वलेया मुनिश्रेष्ठा दश पुत्रास् तु विश्रुताः ॥ ३२ ॥

रुरुप्रभृतयो विप्राश् चाक्षुषस्यान्तरे मनोः ।
षष्ठं मन्वन्तरं प्रोक्तं सप्तमं तु निबोधत ॥ ३३ ॥

अत्रिर् वसिष्ठो भगवान् कश्यपश् च महान् ऋषिः ।
गौतमो ऽथ भरद्वाजो विश्वामित्रस् तथैव च ॥ ३४ ॥

तथैव पुत्रो भगवान् ऋचीकस्य महात्मनः ।
सप्तमो जमदग्निश् च ऋषयः साम्प्रतं दिवि ॥ ३५ ॥

साध्या रुद्राश् च विश्वे च वसवो मरुतस् तथा ।
आदित्याश् चाश्विनौ चापि देवौ वैवस्वतौ स्मृतौ ॥ ३६ ॥

मनोर् वैवस्वतस्यैते वर्तन्ते साम्प्रते ऽन्तरे ।
इक्ष्वाकुप्रमुखाश् चैव दश पुत्रा महात्मनः ॥ ३७ ॥

एतेषां कीर्तितानां तु महर्षीणां महौजसाम् ।
तेषां पुत्राश् च पौत्राश् च दिक्षु सर्वासु भो द्विजाः ॥ ३८ ॥

मन्वन्तरेषु सर्वेषु प्राग् आसन् सप्त सप्तकाः ।
लोके धर्मव्यवस्थार्थं लोकसंरक्षणाय च ॥ ३९ ॥

मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः ।
कृत्वा कर्म दिवं यान्ति ब्रह्मलोकम् अनामयम् ॥ ४० ॥

ततो ऽन्ये तपसा युक्ताः स्थानं तत् पूरयन्त्य् उत ।
अतीता वर्तमानाश् च क्रमेणैतेन भो द्विजाः ॥ ४१ ॥

अनागताश् च सप्तैते स्मृता दिवि महर्षयः ।
मनोर् अन्तरम् आसाद्य सावर्णस्येह भो द्विजाः ॥ ४२ ॥

रामो व्यासस् तथात्रेयो दीप्तिमन्तो बहुश्रुताः ।
भारद्वाजस् तथा द्रौणिर् अश्वत्थामा महाद्युतिः ॥ ४३ ॥

गौतमश् चाजरश् चैव शरद्वान् नाम गौतमः ।
कौशिको गालवश् चैव और्वः काश्यप एव च ॥ ४४ ॥

एते सप्त महात्मानो भविष्या मुनिसत्तमाः ।
वैरी चैवाध्वरीवांश् च शमनो धृतिमान् वसुः ॥ ४५ ॥

अरिष्टश् चाप्य् अधृष्टश् च वाजी सुमतिर् एव च ।
सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः ॥ ४६ ॥

एतेषां कल्यम् उत्थाय कीर्तनात् सुखम् एधते ।
यशश् चाप्नोति सुमहद् आयुष्मांश् च भवेन् नरः ॥ ४७ ॥

एतान्य् उक्तानि भो विप्राः सप्त सप्त च तत्त्वतः ।
मन्वन्तराणि सङ्क्षेपाच् छृणुतानागतान्य् अपि ॥ ४८ ॥

सावर्णा मनवो विप्राः पञ्च तांश् च निबोधत ।
एको वैवस्वतस् तेषां चत्वारस् तु प्रजापतेः ॥ ४९ ॥

परमेष्ठिसुता विप्रा मेरुसावर्ण्यतां गताः ।
दक्षस्यैते हि दौहित्राः प्रियायास् तनया नृपाः ॥ ५० ॥

महता तपसा युक्ता मेरुपृष्ठे महौजसः ।
रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः ॥ ५१ ॥

भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः ।
अनागताश् च सप्तैते कल्पे ऽस्मिन् मनवः स्मृताः ॥ ५२ ॥

तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
पूर्णं युगसहस्रं तु परिपाल्या द्विजोत्तमाः ॥ ५३ ॥

प्रजापतिश् च तपसा संहारं तेषु नित्यशः ।
युगानि सप्ततिस् तानि साग्राणि कथितानि च ॥ ५४ ॥

कृतत्रेतादियुक्तानि मनोर् अन्तरम् उच्यते ।
चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः ॥ ५५ ॥

वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः ।
प्रजानां पतयो विप्रा धन्यम् एषां प्रकीर्तनम् ॥ ५६ ॥

मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः ।
न शक्यते ऽन्तस् तेषां वै वक्तुं वर्षशतैर् अपि ॥ ५७ ॥

विसर्गस्य प्रजानां वै संहारस्य च भो द्विजाः ।
मन्वन्तरेषु संहाराः श्रूयन्ते द्विजसत्तमाः ॥ ५८ ॥

सशेषास् तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह ।
तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः ॥ ५९ ॥

पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते ।
तत्र भूतानि सर्वाणि दग्धान्य् आदित्यरश्मिभिः ॥ ६० ॥

ब्रह्माणम् अग्रतः कृत्वा सहादित्यगणैर् द्विजाः ।
प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम् ॥ ६१ ॥

स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनः पुनः ।
अव्यक्तः शाश्वतो देवस् तस्य सर्वम् इदं जगत् ॥ ६२ ॥

अत्र वः कीर्तयिष्यामि मनोर् वैवस्वतस्य वै ।
विसर्गं मुनिशार्दूलाः साम्प्रतस्य महाद्युतेः ॥ ६३ ॥

अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम् ।
यत्रोत्पन्नो महात्मा स हरिर् वृष्णिकुले प्रभुः ॥ ६४ ॥