004

Summary (SA)

Chapter 4- Distribution of sovereignties; Pṛthu-episode

{{Ref- SS 8-11}}

लोमहर्षण उवाच-

अभिषिच्याधिराजेन्द्रं पृथुं वैण्यं पितामहः ।
ततः क्रमेण राज्यानि व्यादेष्टुम् उपचक्रमे ॥ १ ॥

द्विजानां वीरुधां चैव नक्षत्रग्रहयोस् तथा ।
यज्ञानां तपसां चैव सोमं राज्ये ऽभ्यषेचयत् ॥ २ ॥

अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् ।
आदित्यानां तथा विष्णुं वसूनाम् अथ पावकम् ॥ ३ ॥

प्रजापतीनां दक्षं तु मरुताम् अथ वासवम् ।
दैत्यानां दानवानां वै प्रह्रादम् अमितौजसम् ॥ ४ ॥

वैवस्वतं पितॄणां च यमं राज्ये ऽभ्यषेचयत् ।
यक्षाणां राक्षसानां च पार्थिवानां तथैव च ॥ ५ ॥

सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् ।
शैलानां हिमवन्तं च नदीनाम् अथ सागरम् ॥ ६ ॥

गन्धर्वाणाम् अधिपतिं चक्रे चित्ररथं प्रभुम् ।
नागानां वासुकिं चक्रे सर्पाणाम् अथ तक्षकम् ॥ ७ ॥

वारणानां तु राजानम् ऐरावतम् अथादिशत् ।
उच्चैःश्रवसम् अश्वानां गरुडं चैव पक्षिणाम् ॥ ८ ॥

मृगाणाम् अथ शार्दूलं गोवृषं तु गवां पतिम् ।
वनस्पतीनां राजानं प्लक्षम् एवाभ्यषेचयत् ॥ ९ ॥

एवं विभज्य राज्यानि क्रमेणैव पितामहः ।
दिशां पालान् अथ ततः स्थापयाम् आस स प्रभुः ॥ १० ॥

पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ।
दिशः पालं सुधन्वानं राजानं सो ऽभ्यषेचयत् ॥ ११ ॥

दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः ।
पुत्रं शङ्खपदं नाम राजानं सो ऽभ्यषेचयत् ॥ १२ ॥

पश्चिमस्यां दिशि तथा रजसः पुत्रम् अच्युतम् ।
केतुमन्तं महात्मानं राजानं सो ऽभ्यषेचयत् ॥ १३ ॥

तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ।
उदीच्यां दिशि दुर्धर्षं राजानं सो ऽभ्यषेचयत् ॥ १४ ॥

तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशम् अद्यापि धर्मेण प्रतिपाल्यते ॥ १५ ॥

राजसूयाभिषिक्तस् तु पृथुर् एतैर् नराधिपैः ।
वेददृष्टेन विधिना राजा राज्ये नराधिपः ॥ १६ ॥

ततो मन्वन्तरे ऽतीते चाक्षुषे ऽमिततेजसि ।
वैवस्वताय मनवे पृथिव्यां राज्यम् आदिशत् ॥ १७ ॥

तस्य विस्तरम् आख्यास्ये मनोर् वैवस्वतस्य ह ।
भवतां चानुकूल्याय यदि श्रोतुम् इहेच्छथ ।
महद् एतद् अधिष्ठानं पुराणे तद् अधिष्ठितम् ॥ १८ ॥

मुनय ऊचुः-

विस्तरेण पृथोर् जन्म लोमहर्षण कीर्तय ।
यथा महात्मना तेन दुग्धा वेयं वसुन्धरा ॥ १९ ॥

यथा वापि नृभिर् दुग्धा यथा देवैर् महर्षिभिः ।
यथा दैत्यैश् च नागैश् च यथा यक्षैर् यथा द्रुमैः ॥ २० ॥

यथा शैलैः पिशाचैश् च गन्धर्वैश् च द्विजोत्तमैः ।
राक्षसैश् च महासत्त्वैर् यथा दुग्धा वसुन्धरा ॥ २१ ॥

तेषां पात्रविशेषांश् च वक्तुम् अर्हसि सुव्रत ।
वत्सक्षीरविशेषांश् च दोग्धारं चानुपूर्वशः ॥ २२ ॥

यस्माच् च कारणात् पाणिर् वेणस्य मथितः पुरा ।
क्रुद्धैर् महर्षिभिस् तात कारणं तच् च कीर्तय ॥ २३ ॥

लोमहर्षण उवाच-

शृणुध्वं कीर्तयिष्यामि पृथोर् वैण्यस्य विस्तरम् ।
एकाग्राः प्रयताश् चैव पुण्यार्थं वै द्विजर्षभाः ॥ २४ ॥

नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य च ।
कीर्तयेयम् इदं विप्राः कृतघ्नायाहिताय च ॥ २५ ॥

स्वर्ग्यं यशस्यम् आयुष्यं धन्यं वेदैश् च सम्मितम् ।
रहस्यम् ऋषिभिः प्रोक्तं शृणुध्वं वै यथातथम् ॥ २६ ॥

यश् चेमं कीर्तयेन् नित्यं पृथोर् वैण्यस्य विस्तरम् ।
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतम् ॥ २७ ॥

आसीद् धर्मस्य सङ्गोप्ता पूर्वम् अत्रिसमः प्रभुः ।
अत्रिवंशे समुत्पन्नस् त्व् अङ्गो नाम प्रजापतिः ॥ २८ ॥

तस्य पुत्रो ऽभवद् वेणो नात्यर्थं धर्मकोविदः ।
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥ २९ ॥

स मातामहदोषेण तेन कालात्मजात्मजः ।
स्वधर्मं पृष्ठतः कृत्वा कामलोभेष्व् अवर्तत ॥ ३० ॥

मर्यादां भेदयाम् आस धर्मोपेतां स पार्थिवः ।
वेदधर्मान् अतिक्रम्य सो ऽधर्मनिरतो ऽभवत् ॥ ३१ ॥

निःस्वाध्यायवषट्काराः प्रजास् तस्मिन् प्रजापतौ ।
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ॥ ३२ ॥

न यष्टव्यं न होतव्यम् इति तस्य प्रजापतेः ।
आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ ३३ ॥

अहम् इज्यश् च यष्टा च यज्ञश् चेति भृगूद्वह ।
मयि यज्ञो विधातव्यो मयि होतव्यम् इत्य् अपि ॥ ३४ ॥

तम् अतिक्रान्तमर्यादम् आददानम् असाम्प्रतम् ।
ऊचुर् महर्षयः सर्वे मरीचिप्रमुखास् तदा ॥ ३५ ॥

वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान् बहून् ।
अधर्मं कुरु मा वेण एष धर्मः सनातनः ॥ ३६ ॥

निधने ऽत्रेः प्रसूतस् त्वं प्रजापतिर् असंशयम् ।
प्रजाश् च पालयिष्ये ऽहम् इतीह समयः कृतः ॥ ३७ ॥

तांस् तथा ब्रुवतः सर्वान् महर्षीन् अब्रवीत् तदा ।
वेणः प्रहस्य दुर्बुद्धिर् इमम् अर्थम् अनर्थवित् ॥ ३८ ॥

वेण उवाच-

स्रष्टा धर्मस्य कश् चान्यः श्रोतव्यं कस्य वा मया ।
श्रुतवीर्यतपःसत्यैर् मया वा कः समो भुवि ॥ ३९ ॥

प्रभवं सर्वभूतानां धर्माणां च विशेषतः ।
सम्मूढा न विदुर् नूनं भवन्तो मां विचेतसः ॥ ४० ॥

इच्छन् दहेयं पृथिवीं प्लावयेयं जलैस् तथा ।
द्यां वै भुवं च रुन्धेयं नात्र कार्या विचारणा ॥ ४१ ॥

यदा न शक्यते मोहाद् अवलेपाच् च पार्थिवः ।
अपनेतुं तदा वेणस् ततः क्रुद्धा महर्षयः ॥ ४२ ॥

तं निगृह्य महात्मानो विस्फुरन्तं महाबलम् ।
ततो ऽस्य सव्यम् ऊरुं ते ममन्थुर् जातमन्यवः ॥ ४३ ॥

तस्मिन् निमथ्यमाने वै राज्ञ ऊरौ तु जज्ञिवान् ।
ह्रस्वो ऽतिमात्रः पुरुषः कृष्णश् चेति बभूव ह ॥ ४४ ॥

स भीतः प्राञ्जलिर् भूत्वा तस्थिवान् द्विजसत्तमाः ।
तम् अत्रिर् विह्वलं दृष्ट्वा निषीदेत्य् अब्रवीत् तदा ॥ ४५ ॥

निषादवंशकर्तासौ बभूव वदतां वराः ।
धीवरान् असृजच् चापि वेणकल्मषसम्भवान् ॥ ४६ ॥

ये चान्ये विन्ध्यनिलयास् तथा पर्वतसंश्रयाः ।
अधर्मरुचयो विप्रास् ते तु वै वेणकल्मषाः ॥ ४७ ॥

ततः पुनर् महात्मानः पाणिं वेणस्य दक्षिणम् ।
अरणीम् इव संरब्धा ममन्थुर् जातमन्यवः ॥ ४८ ॥

पृथुस् तस्मात् समुत्पन्नः कराज् ज्वलनसन्निभः ।
दीप्यमानः स्ववपुषा साक्षाद् अग्निर् इव ज्वलन् ॥ ४९ ॥

अथ सो ऽजगवं नाम धनुर् गृह्य महारवम् ।
शरांश् च दिव्यान् रक्षार्थं कवचं च महाप्रभम् ॥ ५० ॥

तस्मिञ् जाते ऽथ भूतानि सम्प्रहृष्टानि सर्वशः ।
समापेतुर् महाभागा वेणस् तु त्रिदिवं ययौ ॥ ५१ ॥

समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना ।
त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात् तदा ॥ ५२ ॥

तं समुद्राश् च नद्यश् च रत्नान्य् आदाय सर्वशः ।
तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ॥ ५३ ॥

पितामहश् च भगवान् देवैर् आङ्गिरसैः सह ।
स्थावराणि च भूतानि जङ्गमानि च सर्वशः ॥ ५४ ॥

समागम्य तदा वैण्यम् अभ्यषिञ्चन् नराधिपम् ।
महता राजराजेन प्रजास् तेनानुरञ्जिताः ॥ ५५ ॥

सो ऽभिषिक्तो महातेजा विधिवद् धर्मकोविदैः ।
आधिराज्ये तदा राज्ञां पृथुर् वैण्यः प्रतापवान् ॥ ५६ ॥

पित्रापरञ्जितास् तस्य प्रजास् तेनानुरञ्जिताः ।
अनुरागात् ततस् तस्य नाम राजाभ्यजायत ॥ ५७ ॥

आपस् तस्तम्भिरे तस्य समुद्रम् अभियास्यतः ।
पर्वताश् च ददुर् मार्गं ध्वजभङ्गश् च नाभवत् ॥ ५८ ॥

अकृष्टपच्या पृथिवी सिध्यन्त्य् अन्नानि चिन्तनात् ।
सर्वकामदुघा गावः पुटके पुटके मधु ॥ ५९ ॥

एतस्मिन्न् एव काले तु यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्ये ऽहनि महामतिः ॥ ६० ॥

तस्मिन्न् एव महायज्ञे जज्ञे प्राज्ञो ऽथ मागधः ।
पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥ ६१ ॥

ताव् ऊचुर् ऋषयः सर्वे स्तूयताम् एष पार्थिवः ।
कर्मैतद् अनुरूपं वां पात्रं चायं नराधिपः ॥ ६२ ॥

ताव् ऊचतुस् तदा सर्वांस् तान् ऋषीन् सूतमागधौ ।
आवां देवान् ऋषींश् चैव प्रीणयावः स्वकर्मभिः ॥ ६३ ॥

न चास्य विद्मो वै कर्म नाम वा लक्षणं यशः ।
स्तोत्रं येनास्य कुर्याव राज्ञस् तेजस्विनो द्विजाः ॥ ६४ ॥

ऋषिभिस् तौ नियुक्तौ तु भविष्यैः स्तूयताम् इति ।
यानि कर्माणि कृतवान् पृथुः पश्चान् महाबलः ॥ ६५ ॥

ततः प्रभृति वै लोके स्तवेषु मुनिसत्तमाः ।
आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ॥ ६६ ॥

तयोः स्तवान्ते सुप्रीतः पृथुः प्रादात् प्रजेश्वरः ।
अनूपदेशं सूताय मगधं मागधाय च ॥ ६७ ॥

तं दृष्ट्वा परमप्रीताः प्रजाः प्रोचुर् मनीषिणः ।
वृत्तीनाम् एष वो दाता भविष्यति नराधिपः ॥ ६८ ॥

ततो वैण्यं महात्मानं प्रजाः समभिदुद्रुवुः ।
त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात् तदा ॥ ६९ ॥

सो ऽभिद्रुतः प्रजाभिस् तु प्रजाहितचिकीर्षया ।
धनुर् गृह्य पृषत्कांश् च पृथिवीम् आद्रवद् बली ॥ ७० ॥

ततो वैण्यभयत्रस्ता गौर् भूत्वा प्राद्रवन् मही ।
तां पृथुर् धनुर् आदाय द्रवन्तीम् अन्वधावत ॥ ७१ ॥

सा लोकान् ब्रह्मलोकादीन् गत्वा वैण्यभयात् तदा ।
प्रददर्शाग्रतो वैण्यं प्रगृहीतशरासनम् ॥ ७२ ॥

ज्वलद्भिर् निशितैर् बाणैर् दीप्ततेजसम् अन्ततः ।
महायोगं महात्मानं दुर्धर्षम् अमरैर् अपि ॥ ७३ ॥

अलभन्ती तु सा त्राणं वैण्यम् एवान्वपद्यत ।
कृताञ्जलिपुटा भूत्वा पूज्या लोकैस् त्रिभिस् तदा ॥ ७४ ॥

उवाच वैण्यं नाधर्मं स्त्रीवधे परिपश्यसि ।
कथं धारयिता चासि प्रजा राजन् विना मया ॥ ७५ ॥

मयि लोकाः स्थिता राजन् मयेदं धार्यते जगत् ।
मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥ ७६ ॥

न माम् अर्हसि हन्तुं वै श्रेयश् चेत् त्वं चिकीर्षसि ।
प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥ ७७ ॥

उपायतः समारब्धाः सर्वे सिध्यन्त्य् उपक्रमाः ।
उपायं पश्य येन त्वं धारयेथाः प्रजाम् इमाम् ॥ ७८ ॥

हत्वापि मां न शक्तस् त्वं प्रजानां पोषणे नृप ।
अनुकूला भविष्यामि यच्छ कोपं महामते ॥ ७९ ॥

अवध्यां च स्त्रियं प्राहुस् तिर्यग्योनिगतेष्व् अपि ।
यद्य् एवं पृथिवीपाल न धर्मं त्यक्तुम् अर्हसि ॥ ८० ॥

एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः ।
कोपं निगृह्य धर्मात्मा वसुधाम् इदम् अब्रवीत् ॥ ८१ ॥

पृथुर् उवाच-

एकस्यार्थे तु यो हन्याद् आत्मनो वा परस्य वा ।
बहून् वा प्राणिनो ऽनन्तं भवेत् तस्येह पातकम् ॥ ८२ ॥

सुखम् एधन्ति बहवो यस्मिंस् तु निहते ऽशुभे ।
तस्मिन् हते नास्ति भद्रे पातकं चोपपातकम् ॥ ८३ ॥

सो ऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे ।
यदि मे वचनान् नाद्य करिष्यसि जगद्धितम् ॥ ८४ ॥

त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम् ॥ ८५ ॥

सा त्वं शासनम् आस्थाय मम धर्मभृतां वरे ।
सञ्जीवय प्रजाः सर्वाः समर्था ह्य् असि धारणे ॥ ८६ ॥

दुहितृत्वं च मे गच्छ तत एनम् अहं शरम् ।
नियच्छेयं त्वद्वधार्थम् उद्यन्तं घोरदर्शनम् ॥ ८७ ॥

वसुधोवाच-

सर्वम् एतद् अहं वीर विधास्यामि न संशयः ।
वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला ॥ ८८ ॥

समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर ।
यथा विस्यन्दमानं मे क्षीरं सर्वत्र भावयेत् ॥ ८९ ॥

लोमहर्षण उवाच-

तत उत्सारयाम् आस शैलाञ् शतसहस्रशः ।
धनुष्कोट्या तदा वैण्यस् तेन शैला विवर्धिताः ॥ ९० ॥

नहि पूर्वविसर्गे वै विषमे पृथिवीतले ।
संविभागः पुराणां वा ग्रामाणां वाभवत् तदा ॥ ९१ ॥

न सस्यानि न गोरक्ष्यं न कृषिर् न वणिक्पथः ।
नैव सत्यानृतं चासीन् न लोभो न च मत्सरः ॥ ९२ ॥

वैवस्वते ऽन्तरे तस्मिन् साम्प्रतं समुपस्थिते ।
वैण्यात् प्रभृति वै विप्राः सर्वस्यैतस्य सम्भवः ॥ ९३ ॥

यत्र यत्र समं त्व् अस्या भूमेर् आसीत् तदा द्विजाः ।
तत्र तत्र प्रजाः सर्वा निवासं समरोचयन् ॥ ९४ ॥

आहारः फलमूलानि प्रजानाम् अभवत् तदा ।
कृच्छ्रेण महता युक्त इत्य् एवम् अनुशुश्रुम ॥ ९५ ॥

स कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् ।
स्वपाणौ पुरुषव्याघ्रो दुदोह पृथिवीं ततः ॥ ९६ ॥

सस्यजातानि सर्वाणि पृथुर् वैण्यः प्रतापवान् ।
तेनान्नेन प्रजाः सर्वा वर्तन्ते ऽद्यापि सर्वशः ॥ ९७ ॥

ऋषयश् च तदा देवाः पितरो ऽथ सरीसृपाः ।
दैत्या यक्षाः पुण्यजना गन्धर्वाः पर्वता नगाः ॥ ९८ ॥

एते पुरा द्विजश्रेष्ठा दुदुहुर् धरणीं किल ।
क्षीरं वत्सश् च पात्रं च तेषां दोग्धा पृथक् पृथक् ॥ ९९ ॥

ऋषीणाम् अभवत् सोमो वत्सो दोग्धा बृहस्पतिः ।
क्षीरं तेषां तपो ब्रह्म पात्रं छन्दांसि भो द्विजाः ॥ १०० ॥

देवानां काञ्चनं पात्रं वत्सस् तेषां शतक्रतुः ।
क्षीरम् ओजस्करं चैव दोग्धा च भगवान् रविः ॥ १०१ ॥

पितॄणां राजतं पात्रं यमो वत्सः प्रतापवान् ।
अन्तकश् चाभवद् दोग्धा क्षीरं तेषां सुधा स्मृता ॥ १०२ ॥

नागानां तक्षको वत्सः पात्रं चालाबुसञ्ज्ञकम् ।
दोग्धा त्व् ऐरावतो नागस् तेषां क्षीरं विषं स्मृतम् ॥ १०३ ॥

असुराणां मधुर् दोग्धा क्षीरं मायामयं स्मृतम् ।
विरोचनस् तु वत्सो ऽभूद् आयसं पात्रम् एव च ॥ १०४ ॥

यक्षाणाम् आमपात्रं तु वत्सो वैश्रवणः प्रभुः ।
दोग्धा रजतनाभस् तु क्षीरान्तर्धानम् एव च ॥ १०५ ॥

सुमाली राक्षसेन्द्राणां वत्सः क्षीरं च शोणितम् ।
दोग्धा रजतनाभस् तु कपालं पात्रम् एव च ॥ १०६ ॥

गन्धर्वाणां चित्ररथो वत्सः पात्रं च पङ्कजम् ।
दोग्धा च सुरुचिः क्षीरं तेषां गन्धः शुचिः स्मृतः ॥ १०७ ॥

शैलं पात्रं पर्वतानां क्षीरं रत्नौषधीस् तथा ।
वत्सस् तु हिमवान् आसीद् दोग्धा मेरुर् महागिरिः ॥ १०८ ॥

प्लक्षो वत्सस् तु वृक्षाणां दोग्धा शालस् तु पुष्पितः ।
पालाशपात्रं क्षीरं च च्छिन्नदग्धप्ररोहणम् ॥ १०९ ॥

सेयं धात्री विधात्री च पावनी च वसुन्धरा ।
चराचरस्य सर्वस्य प्रतिष्ठा योनिर् एव च ॥ ११० ॥

सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहणी ।
आसीद् इयं समुद्रान्ता मेदिनी परिविश्रुता ॥ १११ ॥

मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता ।
तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः ॥ ११२ ॥

ततो ऽभ्युपगमाद् राज्ञः पृथोर् वैण्यस्य भो द्विजाः ।
दुहितृत्वम् अनुप्राप्ता देवी पृथ्वीति चोच्यते ॥ ११३ ॥

पृथुना प्रविभक्ता च शोधिता च वसुन्धरा ।
सस्याकरवती स्फीता पुरपत्तनशालिनी ॥ ११४ ॥

एवम्प्रभावो वैण्यः स राजासीद् राजसत्तमः ।
नमस्यश् चैव पूज्यश् च भूतग्रामैर् न संशयः ॥ ११५ ॥

ब्राह्मणैश् च महाभागैर् वेदवेदाङ्गपारगैः ।
पृथुर् एव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥ ११६ ॥

पार्थिवैश् च महाभागैः पार्थिवत्वम् इहेच्छुभिः ।
आदिराजो नमस्कार्यः पृथुर् वैण्यः प्रतापवान् ॥ ११७ ॥

योधैर् अपि च विक्रान्तैः प्राप्तुकामैर् जयं युधि ।
आदिराजो नमस्कार्यो योधानां प्रथमो नृपः ॥ ११८ ॥

यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् ।
स घोररूपात् सङ्ग्रामात् क्षेमी भवति कीर्तिमान् ॥ ११९ ॥

वैश्यैर् अपि च वित्ताढ्यैर् वैश्यवृत्तिविधायिभिः ।
पृथुर् एव नमस्कार्यो वृत्तिदाता महायशाः ॥ १२० ॥

तथैव शूद्रैः शुचिभिस् त्रिवर्णपरिचारिभिः ।
पृथुर् एव नमस्कार्यः श्रेयः परम् इहेप्सुभिः ॥ १२१ ॥

एते वत्सविशेषाश् च दोग्धारः क्षीरम् एव च ।
पात्राणि च मयोक्तानि किं भूयो वर्णयामि वः ॥ १२२ ॥