003

Summary (SA)

Chapter 3- Creation of beings; descendants of Dakṣa

{{Ref- SS 4-8}}

मुनय ऊचुः-

देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्तय ॥ १ ॥

लोमहर्षण उवाच-

प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा ।
यथा ससर्ज भूतानि तथा शृणुत भो द्विजाः ॥ २ ॥

मानसान्य् एव भूतानि पूर्वम् एवासृजत् प्रभुः ।
ऋषीन् देवान् सगन्धर्वान् असुरान् यक्षराक्षसान् ॥ ३ ॥

यदास्य मानसी विप्रा न व्यवर्धत वै प्रजा ।
तदा सञ्चिन्त्य धर्मात्मा प्रजाहेतोः प्रजापतिः ॥ ४ ॥

स मैथुनेन धर्मेण सिसृक्षुर् विविधाः प्रजाः ।
असिक्नीम् आवहत् पत्नीं वीरणस्य प्रजापतेः ॥ ५ ॥

सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ।
अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान् ॥ ६ ॥

असिक्न्यां जनयाम् आस दक्ष एव प्रजापतिः ।
तांस् तु दृष्ट्वा महाभागान् संविवर्धयिषून् प्रजाः ॥ ७ ॥

देवर्षिः प्रियसंवादो नारदः प्राब्रवीद् इदम् ।
नाशाय वचनं तेषां शापायैवात्मनस् तथा ॥ ८ ॥

यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् ।
दक्षस्य वै दुहितरि दक्षशापभयान् मुनिः ॥ ९ ॥

पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः ।
असिक्न्याम् अथ वैरण्यां भूयो देवर्षिसत्तमः ॥ १० ॥

तं भूयो जनयाम् आस पितेव मुनिपुङ्गवम् ।
तेन दक्षस्य वै पुत्रा हर्यश्वा इति विश्रुताः ॥ ११ ॥

निर्मथ्य नाशिताः सर्वे विधिना च न संशयः ।
तस्योद्यतस् तदा दक्षो नाशायामितविक्रमः ॥ १२ ॥

ब्रह्मर्षीन् पुरतः कृत्वा याचितः परमेष्ठिना ।
ततो ऽभिसन्धिश् चक्रे वै दक्षस्य परमेष्ठिना ॥ १३ ॥

कन्यायां नारदो मह्यं तव पुत्रो भवेद् इति ।
ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने ।
स तस्यां नारदो जज्ञे भूयः शापभयाद् ऋषिः ॥ १४ ॥

मुनय ऊचुः-

कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा ।
प्रजापतेः सूतवर्य श्रोतुम् इच्छाम तत्त्वतः ॥ १५ ॥

लोमहर्षण उवाच-

दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः ।
समागता महावीर्या नारदस् तान् उवाच ह ॥ १६ ॥

नारद उवाच-

बालिशा बत यूयं वै नास्या जानीत वै भुवः ।
प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः ॥ १७ ॥

अन्तर् ऊर्ध्वम् अधश् चैव कथं सृजथ वै प्रजाः ।
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशः ॥ १८ ॥

अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ।
हर्यश्वेष्व् अथ नष्टेषु दक्षः प्राचेतसः पुनः ॥ १९ ॥

वैरण्याम् अथ पुत्राणां सहस्रम् असृजत् प्रभुः ।
विवर्धयिषवस् ते तु शबलाश्वास् तथा प्रजाः ॥ २० ॥

पूर्वोक्तं वचनं ते तु नारदेन प्रचोदिताः ।
अन्योन्यम् ऊचुस् ते सर्वे सम्यग् आह महान् ऋषिः ॥ २१ ॥

भ्रातॄणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः ।
ज्ञात्वा प्रमाणं पृथ्व्याश् च सुखं स्रक्ष्यामहे प्रजाः ॥ २२ ॥

ते ऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ २३ ॥

तदा प्रभृति वै भ्राता भ्रातुर् अन्वेषणे द्विजाः ।
प्रयातो नश्यति क्षिप्रं तन् न कार्यं विपश्चिता ॥ २४ ॥

तांश् चैव नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
षष्टिं ततो ऽसृजत् कन्या वैरण्याम् इति नः श्रुतम् ॥ २५ ॥

तास् तदा प्रतिजग्राह भार्यार्थं कश्यपः प्रभुः ।
सोमो धर्मश् च भो विप्रास् तथैवान्ये महर्षयः ॥ २६ ॥

ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय चतस्रो ऽरिष्टनेमिने ॥ २७ ॥

द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ।
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ २८ ॥

अरुन्धती वसुर् यामी लम्बा भानुर् मरुत्वती ।
सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भो द्विजाः ॥ २९ ॥

धर्मपत्न्यो दश त्व् एतास् तास्व् अपत्यानि बोधत ।
विश्वेदेवास् तु विश्वायाः साध्या साध्यान् व्यजायत ॥ ३० ॥

मरुत्वत्यां मरुत्वन्तो वसोस् तु वसवः सुताः ।
भानोस् तु भानवः पुत्रा मुहूर्तास् तु मुहूर्तजाः ॥ ३१ ॥

लम्बायाश् चैव घोषो ऽथ नागवीथी च यामिजा ।
पृथिवी विषयं सर्वम् अरुन्धत्यां व्यजायत ॥ ३२ ॥

सङ्कल्पायास् तु विश्वात्मा जज्ञे सङ्कल्प एव हि ।
नागवीथ्यां च यामिन्यां वृषलश् च व्यजायत ॥ ३३ ॥

परा याः सोमपत्नीश् च दक्षः प्राचेतसो ददौ ।
सर्वा नक्षत्रनाम्न्यस् ता ज्योतिषे परिकीर्तिताः ॥ ३४ ॥

ये त्व् अन्ये ख्यातिमन्तो वै देवा ज्योतिष्पुरोगमाः ।
वसवो ऽष्टौ समाख्यातास् तेषां वक्ष्यामि विस्तरम् ॥ ३५ ॥

आपो ध्रुवश् च सोमश् च धवश् चैवानिलो ऽनलः ।
प्रत्यूषश् च प्रभासश् च वसवो नामभिः स्मृताः ॥ ३६ ॥

आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो मुनिस् तथा ।
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥ ३७ ॥

सोमस्य भगवान् वर्चा वर्चस्वी येन जायते ।
धवस्य पुत्रो द्रविणो हुतहव्यवहस् तथा ।
मनोहरायाः शिशिरः प्राणो ऽथ रमणस् तथा ॥ ३८ ॥

अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः ।
अविज्ञातगतिश् चैव द्वौ पुत्राव् अनिलस्य च ॥ ३९ ॥

अग्निपुत्रः कुमारस् तु शरस्तम्बे श्रिया वृतः ।
तस्य शाखो विशाखश् च नैगमेयश् च पृष्ठजः ॥ ४० ॥

अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ।
प्रत्यूषस्य विदुः पुत्रम् ऋषिं नाम्नाथ देवलम् ॥ ४१ ॥

द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ।
बृहस्पतेस् तु भगिनी वरस्त्री ब्रह्मवादिनी ॥ ४२ ॥

योगसिद्धा जगत् कृत्स्नम् असक्ता विचचार ह ।
प्रभासस्य तु सा भार्या वसूनाम् अष्टमस्य तु ॥ ४३ ॥

विश्वकर्मा महाभागो यस्यां जज्ञे प्रजापतिः ।
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥ ४४ ॥

भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ।
यः सर्वेषां विमानानि दैवतानां चकार ह ॥ ४५ ॥

मानुषाश् चोपजीवन्ति यस्य शिल्पं महात्मनः ।
सुरभी कश्यपाद् रुद्रान् एकादश विनिर्ममे ॥ ४६ ॥

महादेवप्रसादेन तपसा भाविता सती ।
अजैकपाद् अहिर्बुध्न्यस् त्वष्टा रुद्रश् च वीर्यवान् ॥ ४७ ॥

हरश् च बहुरूपश् च त्र्यम्बकश् चापराजितः ।
वृषाकपिश् च शम्भुश् च कपर्दी रैवतस् तथा ॥ ४८ ॥

मृगव्याधश् च शर्वश् च कपाली च द्विजोत्तमाः ।
एकादशैते विख्याता रुद्रास् त्रिभुवनेश्वराः ॥ ४९ ॥

शतं त्व् एवं समाख्यातं रुद्राणाम् अमितौजसाम् ।
पुराणे मुनिशार्दूला यैर् व्याप्तं सचराचरम् ॥ ५० ॥

दाराञ् शृणुध्वं विप्रेन्द्राः कश्यपस्य प्रजापतेः ।
अदितिर् दितिर् दनुश् चैव अरिष्टा सुरसा खसा ॥ ५१ ॥

सुरभिर् विनता चैव ताम्रा क्रोधवशा इरा ।
कद्रुर् मुनिश् च भो विप्रास् तास्व् अपत्यानि बोधत ॥ ५२ ॥

पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः ।
तुषिता नाम ते ऽन्योन्यम् ऊचुर् वैवस्वते ऽन्तरे ॥ ५३ ॥

उपस्थिते ऽतियशसश् चाक्षुषस्यान्तरे मनोः ।
हितार्थं सर्वलोकानां समागम्य परस्परम् ॥ ५४ ॥

आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै ।
मन्वन्तरे प्रसूयामस् तन् नः श्रेयो भविष्यति ॥ ५५ ॥

लोमहर्षण उवाच-

एवम् उक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।
मारीचात् कश्यपाज् जातास् त्व् अदित्या दक्षकन्यया ॥ ५६ ॥

तत्र विष्णुश् च शक्रश् च जज्ञाते पुनर् एव हि ।
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ ५७ ॥

विवस्वान् सविता चैव मित्रो वरुण एव च ।
अंशो भगश् चातितेजा आदित्या द्वादश स्मृताः ॥ ५८ ॥

सप्तविंशति याः प्रोक्ताः सोमपत्न्यो महाव्रताः ।
तासाम् अपत्यान्य् अभवन् दीप्तान्य् अमिततेजसः ॥ ५९ ॥

अरिष्टनेमिपत्नीनाम् अपत्यानीह षोडश ।
बहुपुत्रस्य विदुषश् चतस्रो विद्युतः स्मृताः ॥ ६० ॥

चाक्षुषस्यान्तरे पूर्वे ऋचो ब्रह्मर्षिसत्कृताः ।
कृशाश्वस्य च देवर्षेर् देवप्रहरणाः स्मृताः ॥ ६१ ॥

एते युगसहस्रान्ते जायन्ते पुनर् एव हि ।
सर्वे देवगणाश् चात्र त्रयस्त्रिंशत् तु कामजाः ॥ ६२ ॥

तेषाम् अपि च भो विप्रा निरोधोत्पत्तिर् उच्यते ।
यथा सूर्यस्य गगन उदयास्तमयाव् इह ॥ ६३ ॥

एवं देवनिकायास् ते सम्भवन्ति युगे युगे ।
दित्याः पुत्रद्वयं जज्ञे कश्यपाद् इति नः श्रुतम् ॥ ६४ ॥

हिरण्यकशिपुश् चैव हिरण्याक्षश् च वीर्यवान् ।
सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ॥ ६५ ॥

सैंहिकेया इति ख्याता यस्याः पुत्रा महाबलाः ।
हिरण्यकशिपोः पुत्राश् चत्वारः प्रथितौजसः ॥ ६६ ॥

ह्रादश् च अनुह्रादश् च प्रह्रादश् चैव वीर्यवान् ।
संह्रादश् च चतुर्थो ऽभूद् ध्रादपुत्रो ह्रदस् तथा ॥ ६७ ॥

ह्रदस्य पुत्रौ द्वौ वीरौ शिवः कालस् तथैव च ।
विरोचनश् च प्राह्रादिर् बलिर् जज्ञे विरोचनात् ॥ ६८ ॥

बलेः पुत्रशतम् आसीद् बाणज्येष्ठं तपोधनाः ।
धृतराष्ट्रश् च सूर्यश् च चन्द्रमाश् चन्द्रतापनः ॥ ६९ ॥

कुम्भनाभो गर्दभाक्षः कुक्षिर् इत्य् एवमादयः ।
बाणस् तेषाम् अतिबलो ज्येष्ठः पशुपतेः प्रियः ॥ ७० ॥

पुरा कल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम् ।
पार्श्वतो विहरिष्यामि इत्य् एवं याचितो वरः ॥ ७१ ॥

हिरण्याक्षसुताश् चैव विद्वांसश् च महाबलाः ।
भर्भरः शकुनिश् चैव भूतसन्तापनस् तथा ॥ ७२ ॥

महानाभश् च विक्रान्तः कालनाभस् तथैव च ।
अभवन् दनुपुत्राश् च शतं तीव्रपराक्रमाः ॥ ७३ ॥

तपस्विनो महावीर्याः प्राधान्येन ब्रवीमि तान् ।
द्विमूर्धा शङ्कुकर्णश् च तथा हयशिरा विभुः ॥ ७४ ॥

अयोमुखः शम्बरश् च कपिलो वामनस् तथा ।
मारीचिर् मघवांश् चैव इल्वलः स्वसृमस् तथा ॥ ७५ ॥

विक्षोभणश् च केतुश् च केतुवीर्यशतह्रदौ ।
इन्द्रजित् सर्वजिच् चैव वज्रनाभस् तथैव च ॥ ७६ ॥

एकचक्रो महाबाहुस् तारकश् च महाबलः ।
वैश्वानरः पुलोमा च विद्रावणमहाशिराः ॥ ७७ ॥

स्वर्भानुर् वृषपर्वा च विप्रचित्तिश् च वीर्यवान् ।
सर्व एते दनोः पुत्राः कश्यपाद् अभिजज्ञिरे ॥ ७८ ॥

विप्रचित्तिप्रधानास् ते दानवाः सुमहाबलाः ।
एतेषां पुत्रपौत्रं तु न तच् छक्यं द्विजोत्तमाः ॥ ७९ ॥

प्रसङ्ख्यातुं बहुत्वाच् च पुत्रपौत्रम् अनन्तकम् ।
स्वर्भानोस् तु प्रभा कन्या पुलोम्नस् तु शची सुता ॥ ८० ॥

उपदीप्तिर् हयशिराः शर्मिष्ठा वार्षपर्वणी ।
पुलोमा कालिका चैव वैश्वानरसुते उभे ॥ ८१ ॥

बह्वपत्ये महापत्ये मरीचेस् तु परिग्रहः ।
तयोः पुत्रसहस्राणि षष्टिर् दानवनन्दनाः ॥ ८२ ॥

चतुर्दशशतान् अन्यान् हिरण्यपुरवासिनः ।
मरीचिर् जनयाम् आस महता तपसान्वितः ॥ ८३ ॥

पौलोमाः कालकेयाश् च दानवास् ते महाबलाः ।
अवध्या देवतानां हि हिरण्यपुरवासिनः ॥ ८४ ॥

पितामहप्रसादेन ये हताः सव्यसाचिना ।
ततो ऽपरे महावीर्या दानवास् त्व् अतिदारुणाः ॥ ८५ ॥

सिंहिकायाम् अथोत्पन्ना विप्रचित्तेः सुतास् तथा ।
दैत्यदानवसंयोगाज् जातास् तीव्रपराक्रमाः ॥ ८६ ॥

सैंहिकेया इति ख्यातास् त्रयोदश महाबलाः ।
वंश्यः शल्यश् च बलिनौ नलश् चैव तथा बलः ॥ ८७ ॥

वातापिर् नमुचिश् चैव इल्वलः स्वसृमस् तथा ।
अञ्जिको नरकश् चैव कालनाभस् तथैव च ॥ ८८ ॥

सरमानस् तथा चैव स्वरकल्पश् च वीर्यवान् ।
एते वै दानवाः श्रेष्ठा दनोर् वंशविवर्धनाः ॥ ८९ ॥

तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः ।
संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ॥ ९० ॥

समुत्पन्नाः सुमहता तपसा भावितात्मनः ।
तिस्रः कोट्यः सुतास् तेषां मणिवत्यां निवासिनः ॥ ९१ ॥

अवध्यास् ते ऽपि देवानाम् अर्जुनेन निपातिताः ।
षट् सुताः सुमहाभागास् ताम्रायाः परिकीर्तिताः ॥ ९२ ॥

क्रौञ्ची श्येनी च भासी च सुग्रीवी शुचिगृध्रिका ।
क्रौञ्ची तु जनयाम् आस उलूकप्रत्युलूककान् ॥ ९३ ॥

श्येनी श्येनांस् तथा भासी भासान् गृध्रांश् च गृध्र्य् अपि ।
शुचिर् औदकान् पक्षिगणान् सुग्रीवी तु द्विजोत्तमाः ॥ ९४ ॥

अश्वान् उष्ट्रान् गर्दभांश् च ताम्रावंशः प्रकीर्तितः ।
विनतायास् तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ ॥ ९५ ॥

गरुडः पततां श्रेष्ठो दारुणः स्वेन कर्मणा ।
सुरसायाः सहस्रं तु सर्पाणाम् अमितौजसाम् ॥ ९६ ॥

अनेकशिरसां विप्राः खचराणां महात्मनाम् ।
काद्रवेयास् तु बलिनः सहस्रम् अमितौजसः ॥ ९७ ॥

सुपर्णवशगा नागा जज्ञिरे नैकमस्तकाः ।
येषां प्रधानाः सततं शेषवासुकितक्षकाः ॥ ९८ ॥

ऐरावतो महापद्मः कम्बलाश्वतराव् उभौ ।
एलापत्त्रश् च शङ्खश् च कर्कोटकधनञ्जयौ ॥ ९९ ॥

महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ ।
कुहरः पुष्पदंष्ट्रश् च दुर्मुखः सुमुखस् तथा ॥ १०० ॥

शङ्खश् च शङ्खपालश् च कपिलो वामनस् तथा ।
नहुषः शङ्खरोमा च मणिर् इत्य् एवमादयः ॥ १०१ ॥

तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः ।
चतुर्दशसहस्राणि क्रूराणाम् अनिलाशिनाम् ॥ १०२ ॥

गणं क्रोधवंशं विप्रास् तस्य सर्वे च दंष्ट्रिणः ।
स्थलजाः पक्षिणो ऽब्जाश् च धरायाः प्रसवाः स्मृताः ॥ १०३ ॥

गास् तु वै जनयाम् आस सुरभिर् महिषीस् तथा ।
इरा वृक्षलता वल्लीस् तृणजातीश् च सर्वशः ॥ १०४ ॥

खसा तु यक्षरक्षांसि मुनिर् अप्सरसस् तथा ।
अरिष्टा तु महासिद्धा गन्धर्वान् अमितौजसः ॥ १०५ ॥

एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः ।
येषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः ॥ १०६ ॥

एष मन्वन्तरे विप्राः सर्गः स्वारोचिषे स्मृतः ।
वैवस्वते ऽतिमहति वारुणे वितते क्रतौ ॥ १०७ ॥

जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ।
पूर्वं यत्र समुत्पन्नान् ब्रह्मर्षीन् सप्त मानसान् ॥ १०८ ॥

पुत्रत्वे कल्पयाम् आस स्वयम् एव पितामहः ।
ततो विरोधे देवानां दानवानां च भो द्विजाः ॥ १०९ ॥

दितिर् विनष्टपुत्रा वै तोषयाम् आस कश्यपम् ।
कश्यपस् तु प्रसन्नात्मा सम्यग् आराधितस् तया ॥ ११० ॥

वरेण च्छन्दयाम् आस सा च वव्रे वरं तदा ।
पुत्रम् इन्द्रवधार्थाय समर्थम् अमितौजसम् ॥ १११ ॥

स च तस्मै वरं प्रादात् प्रार्थितः सुमहातपाः ।
दत्त्वा च वरम् अत्युग्रो मारीचः समभाषत ॥ ११२ ॥

इन्द्रं पुत्रो निहन्ता ते गर्भं वै शरदां शतम् ।
यदि धारयसे शौचतत्परा व्रतम् आस्थिता ॥ ११३ ॥

तथेत्य् अभिहितो भर्ता तया देव्या महातपाः ।
धारयाम् आस गर्भं तु शुचिः सा मुनिसत्तमाः ॥ ११४ ॥

ततो ऽभ्युपागमद् दित्यां गर्भम् आधाय कश्यपः ।
रोधयन् वै गणं श्रेष्ठं देवानाम् अमितौजसम् ॥ ११५ ॥

तेजः संहृत्य दुर्धर्षम् अवध्यम् अमरैर् अपि ।
जगाम पर्वतायैव तपसे संशितव्रता ॥ ११६ ॥

तस्याश् चैवान्तरप्रेप्सुर् अभवत् पाकशासनः ।
जाते वर्षशते चास्या ददर्शान्तरम् अच्युतः ॥ ११७ ॥

अकृत्वा पादयोः शौचं दितिः शयनम् आविशत् ।
निद्रां चाहारयाम् आस तस्यां कुक्षिं प्रविश्य सः ॥ ११८ ॥

वज्रपाणिस् ततो गर्भं सप्तधा तं न्यकृन्तयत् ।
स पाट्यमानो गर्भो ऽथ वज्रेण प्ररुरोद ह ॥ ११९ ॥

मा रोदीर् इति तं शक्रः पुनः पुनर् अथाब्रवीत् ।
सो ऽभवत् सप्तधा गर्भस् तम् इन्द्रो रुषितः पुनः ॥ १२० ॥

एकैकं सप्तधा चक्रे वज्रेणैवारिकर्षणः ।
मरुतो नाम ते देवा बभूवुर् द्विजसत्तमाः ॥ १२१ ॥

यथोक्तं वै मघवता तथैव मरुतो ऽभवन् ।
देवाश् चैकोनपञ्चाशत् सहाया वज्रपाणिनः ॥ १२२ ॥

तेषाम् एवं प्रवृत्तानां भूतानां द्विजसत्तमाः ।
रोचयन् वै गणश्रेष्ठान् देवानाम् अमितौजसाम् ॥ १२३ ॥

निकायेषु निकायेषु हरिः प्रादात् प्रजापतीन् ।
क्रमशस् तानि राज्यानि पृथुपूर्वाणि भो द्विजाः ॥ १२४ ॥

स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ।
पर्जन्यस् तपनो ऽनन्तस् तस्य सर्वम् इदं जगत् ॥ १२५ ॥

भूतसर्गम् इमं सम्यग् जानतो द्विजसत्तमाः ।
नावृत्तिभयम् अस्तीह परलोकभयं कुतः ॥ १२६ ॥