002

Summary (SA)

Chapter 2- Descendants of Manu Svāyambhuva; creation by Dakṣa

{{Ref- SS 2-4}}

लोमहर्षण उवाच-

स सृष्ट्वा तु प्रजास् त्व् एवम् आपवो वै प्रजापतिः ।
लेभे वै पुरुषः पत्नीं शतरूपाम् अयोनिजाम् ॥ १ ॥

आपवस्य महिम्ना तु दिवम् आवृत्य तिष्ठतः ।
धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत ॥ २ ॥

सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ ३ ॥

स वै स्वायम्भुवो विप्राः पुरुषो मनुर् उच्यते ।
तस्यैकसप्ततियुगं मन्वन्तरम् इहोच्यते ॥ ४ ॥

वैराजात् पुरुषाद् वीरं शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत ॥ ५ ॥

काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः ।
काम्यापुत्रास् तु चत्वारः सम्राट् कुक्षिर् विराट् प्रभुः ॥ ६ ॥

उत्तानपादं जग्राह पुत्रम् अत्रिः प्रजापतिः ।
उत्तानपादाच् चतुरः सूनृता सुषुवे सुतान् ॥ ७ ॥

धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता ।
उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ॥ ८ ॥

ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा ।
उत्तानपादो ऽजनयत् सूनृतायां प्रजापतिः ॥ ९ ॥

ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः ।
तपस् तेपे महाभागः प्रार्थयन् सुमहद् यशः ॥ १० ॥

तस्मै ब्रह्मा ददौ प्रीतः स्थानम् आत्मसमं प्रभुः ।
अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥ ११ ॥

तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य च ।
देवासुराणाम् आचार्यः श्लोकं प्राग् उशना जगौ ॥ १२ ॥

अहो ऽस्य तपसो वीर्यम् अहो श्रुतम् अहो ऽद्भुतम् ।
यम् अद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ १३ ॥

तस्माच् छ्लिष्टिं च भव्यं च ध्रुवाच् छम्भुर् व्यजायत ।
श्लिष्टेर् आधत्त सुच्छाया पञ्च पुत्रान् अकल्मषान् ॥ १४ ॥

रिपुं रिपुञ्जयं वीरं वृकलं वृकतेजसम् ।
रिपोर् आधत्त बृहती चक्षुषं सर्वतेजसम् ॥ १५ ॥

अजीजनत् पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् ।
प्रजापतेर् आत्मजायां वीरण्यस्य महात्मनः ॥ १६ ॥

मनोर् अजायन्त दश नड्वलायां महौजसः ।
कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः ॥ १७ ॥

कुत्सः पुरुः शतद्युम्नस् तपस्वी सत्यवाक् कविः ।
अग्निष्टुद् अतिरात्रश् च सुद्युम्नश् चेति ते नव ॥ १८ ॥

अभिमन्युश् च दशमो नड्वलायां महौजसः ।
पुरोर् अजनयत् पुत्रान् षड् आग्नेयी महाप्रभान् ॥ १९ ॥

अङ्गं सुमनसं स्वातिं क्रतुम् अङ्गिरसं मयम् ।
अङ्गात् सुनीथापत्यं वै वेणम् एकं व्यजायत ॥ २० ॥

अपचारेण वेणस्य प्रकोपः सुमहान् अभूत् ।
प्रजार्थम् ऋषयो यस्य ममन्थुर् दक्षिणं करम् ॥ २१ ॥

वेणस्य मथिते पाणौ सम्बभूव महान् नृपः ।
तं दृष्ट्वा मुनयः प्राहुर् एष वै मुदिताः प्रजाः ॥ २२ ॥

करिष्यति महातेजा यशश् च प्राप्स्यते महत् ।
स धन्वी कवची जातो ज्वलज्ज्वलनसन्निभः ॥ २३ ॥

पृथुर् वैण्यस् तथा चेमां ररक्ष क्षत्रपूर्वजः ।
राजसूयाभिषिक्तानाम् आद्यः स वसुधापतिः ॥ २४ ॥

तस्माच् चैव समुत्पन्नौ निपुणौ सूतमागधौ ।
तेनेयं गौर् मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता ॥ २५ ॥

प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह ।
पितृभिर् दानवैश् चैव गन्धर्वैर् अप्सरोगणैः ॥ २६ ॥

सर्पैः पुण्यजनैश् चैव वीरुद्भिः पर्वतैस् तथा ।
तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा ॥ २७ ॥

प्रादाद् यथेप्सितं क्षीरं तेन प्राणान् अधारयन् ।
पृथोस् तु पुत्रौ धर्मज्ञौ यज्ञान्ते ऽन्तर्धिपातिनौ ॥ २८ ॥

शिखण्डिनी हविर्धानम् अन्तर्धानाद् व्यजायत ।
हविर्धानात् षड् आग्नेयी धिषणाजनयत् सुतान् ॥ २९ ॥

प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ।
प्राचीनबर्हिर् भगवान् महान् आसीत् प्रजापतिः ॥ ३० ॥

हविर्धानान् मुनिश्रेष्ठा येन संवर्धिताः प्रजाः ।
प्राचीनबर्हिर् भगवान् पृथिवीतलचारिणीः ॥ ३१ ॥

समुद्रतनयायां तु कृतदारो ऽभवत् प्रभुः ।
महतस् तपसः पारे सवर्णायां प्रजापतिः ॥ ३२ ॥

सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः ।
सर्वान् प्रचेतसो नाम धनुर्वेदस्य पारगान् ॥ ३३ ॥

अपृथग्धर्मचरणास् ते ऽतप्यन्त महत् तपः ।
दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥ ३४ ॥

तपश् चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।
अरक्षमाणाम् आवव्रुर् बभूवाथ प्रजाक्षयः ॥ ३५ ॥

नाशकन् मारुतो वातुं वृतं खम् अभवद् द्रुमैः ।
दश वर्षसहस्राणि न शेकुश् चेष्टितुं प्रजाः ॥ ३६ ॥

तद् उपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः ।
मुखेभ्यो वायुम् अग्निं च ससृजुर् जातमन्यवः ॥ ३७ ॥

उन्मूलान् अथ वृक्षांस् तु कृत्वा वायुर् अशोषयत् ।
तान् अग्निर् अदहद् घोर एवम् आसीद् द्रुमक्षयः ॥ ३८ ॥

द्रुमक्षयम् अथो बुद्ध्वा किञ्चिच् छिष्टेषु शाखिषु ।
उपगम्याब्रवीद् एतांस् तदा सोमः प्रजापतीन् ॥ ३९ ॥

कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः ।
वृक्षशून्या कृता पृथ्वी शाम्येताम् अग्निमारुतौ ॥ ४० ॥

रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी ।
भविष्यं जानता तात धृता गर्भेण वै मया ॥ ४१ ॥

मारिषा नाम नाम्नैषा वृक्षाणाम् इति निर्मिता ।
भार्या वो ऽस्तु महाभागाः सोमवंशविवर्धिनी ॥ ४२ ॥

युष्माकं तेजसो ऽर्धेन मम चार्धेन तेजसः ।
अस्याम् उत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥ ४३ ॥

स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै ।
अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ ४४ ॥

ततः सोमस्य वचनाज् जगृहुस् ते प्रचेतसः ।
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥ ४५ ॥

दशभ्यस् तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।
दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ॥ ४६ ॥

अचरांश् च चरांश् चैव द्विपदो ऽथ चतुष्पदः ।
स सृष्ट्वा मनसा दक्षः पश्चाद् असृजत स्त्रियः ॥ ४७ ॥

ददौ दश स धर्माय कश्यपाय त्रयोदश ।
शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः ॥ ४८ ॥

तासु देवाः खगा गावो नागा दितिजदानवाः ।
गन्धर्वाप्सरसश् चैव जज्ञिरे ऽन्याश् च जातयः ॥ ४९ ॥

ततः प्रभृति विप्रेन्द्राः प्रजा मैथुनसम्भवाः ।
सङ्कल्पाद् दर्शनात् स्पर्शात् पूर्वेषां प्रोच्यते प्रजा ॥ ५० ॥

मुनय ऊचुः-

देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
सम्भवस् तु श्रुतो ऽस्माभिर् दक्षस्य च महात्मनः ॥ ५१ ॥

अङ्गुष्ठाद् ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः ।
वामाङ्गुष्ठात् तथा चैवं तस्य पत्नी व्यजायत ॥ ५२ ॥

कथं प्राचेतसत्वं स पुनर् लेभे महातपाः ।
एतं नः संशयं सूत व्याख्यातुं त्वम् इहार्हसि ।
दौहित्रश् चैव सोमस्य कथं श्वशुरतां गतः ॥ ५३ ॥

लोमहर्षण उवाच-

उत्पत्तिश् च निरोधश् च नित्यं भूतेषु भो द्विजाः ।
ऋषयो ऽत्र न मुह्यन्ति विद्यावन्तश् च ये जनाः ॥ ५४ ॥

युगे युगे भवन्त्य् एते पुनर् दक्षादयो नृपाः ।
पुनश् चैव निरुध्यन्ते विद्वांस् तत्र न मुह्यति ॥ ५५ ॥

ज्यैष्ठ्यं कानिष्ठम् अप्य् एषां पूर्वं नासीद् द्विजोत्तमाः ।
तप एव गरीयो ऽभूत् प्रभावश् चैव कारणम् ॥ ५६ ॥

इमां विसृष्टिं दक्षस्य यो विद्यात् सचराचराम् ।
प्रजावान् आयुर् उत्तीर्णः स्वर्गलोके महीयते ॥ ५७ ॥