001

Summary (SA)

Chapter 1- Setting of the recitation of the Purāṇa; creation of the world

{{Ref- SS 1-2}}

यस्मात् सर्वम् इदं प्रपञ्चरचितं मायाजगज् जायते ।
यस्मिंस् तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः ।
यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवं ।
तं वन्दे पुरुषोत्तमाख्यम् अमलं नित्यं विभुं निश्चलम् ॥ १ ॥

यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्सन्निभम् ।
नित्यानन्दमयं प्रसन्नम् अमलं सर्वेश्वरं निर्गुणम् ।
व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् ।
तं संसारविनाशहेतुम् अजरं वन्दे हरिं मुक्तिदम् ॥ २ ॥

सुपुण्ये नैमिषारण्ये पवित्रे सुमनोहरे ।
नानामुनिजनाकीर्णे नानापुष्पोपशोभिते ॥ ३ ॥

सरलैः कर्णिकारैश् च पनसैर् धवखादिरैः ।
आम्रजम्बूकपित्थैश् च न्यग्रोधैर् देवदारुभिः ॥ ४ ॥

अश्वत्थैः पारिजातैश् च चन्दनागुरुपाटलैः ।
बकुलैः सप्तपर्णैश् च पुन्नागैर् नागकेसरैः ॥ ५ ॥

शालैस् तालैस् तमालैश् च नारिकेलैस् तथार्जुनैः ।
अन्यैश् च बहुभिर् वृक्षैश् चम्पकाद्यैश् च शोभिते ॥ ६ ॥

नानापक्षिगणाकीर्णे नानामृगगणैर् युते ।
नानाजलाशयैः पुण्यैर् दीर्घिकाद्यैर् अलङ्कृते ॥ ७ ॥

ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् चान्यैश् च जातिभिः ।
वानप्रस्थैर् गृहस्थैश् च यतिभिर् ब्रह्मचारिभिः ॥ ८ ॥

सम्पन्नैर् गोकुलैश् चैव सर्वत्र समलङ्कृते ।
यवगोधूमचणकैर् माषमुद्गतिलेक्षुभिः ॥ ९ ॥

चीनकाद्यैस् तथा मेध्यैः सस्यैश् चान्यैश् च शोभिते ।
तत्र दीप्ते हुतवहे हूयमाने महामखे ॥ १० ॥

यजतां नैमिषेयाणां सत्त्रे द्वादशवार्षिके ।
आजग्मुस् तत्र मुनयस् तथान्ये ऽपि द्विजातयः ॥ ११ ॥

तान् आगतान् द्विजांस् ते तु पूजां चक्रुर् यथोचिताम् ।
तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च ॥ १२ ॥

तत्राजगाम सूतस् तु मतिमांल् लोमहर्षणः ।
तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर् मुदान्विताः ॥ १३ ॥

सो ऽपि तान् प्रतिपूज्यैव संविवेश वरासने ।
कथां चक्रुस् तदान्योन्यं सूतेन सहिता द्विजाः ॥ १४ ॥

कथान्ते व्यासशिष्यं ते पप्रच्छुः संशयं मुदा ।
ऋत्विग्भिः सहिताः सर्वे सदस्यैः सह दीक्षिताः ॥ १५ ॥

मुनय ऊचुः-

पुराणागमशास्त्राणि सेतिहासानि सत्तम ।
जानासि देवदैत्यानां चरितं जन्म कर्म च ॥ १६ ॥

न ते ऽस्त्य् अविदितं किञ्चिद् वेदे शास्त्रे च भारते ।
पुराणे मोक्षशास्त्रे च सर्वज्ञो ऽसि महामते ॥ १७ ॥

यथापूर्वम् इदं सर्वम् उत्पन्नं सचराचरम् ।
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ॥ १८ ॥

श्रोतुम् इच्छामहे सूत ब्रूहि सर्वं यथा जगत् ।
बभूव भूयश् च यथा महाभाग भविष्यति ॥ १९ ॥

यतश् चैव जगत् सूत यतश् चैव चराचरम् ।
लीनम् आसीत् तथा यत्र लयम् एष्यति यत्र च ॥ २० ॥

लोमहर्षण उवाच-

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ २१ ॥

नमो हिरण्यगर्भाय हरये शङ्कराय च ।
वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे ॥ २२ ॥

एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ २३ ॥

सर्गस्थितिविनाशाय जगतो यो ऽजरामरः ।
मूलभूतो नमस् तस्मै विष्णवे परमात्मने ॥ २४ ॥

आधारभूतं विश्वस्याप्य् अणीयांसम् अणीयसाम् ।
प्रणम्य सर्वभूतस्थम् अच्युतं पुरुषोत्तमम् ॥ २५ ॥

ज्ञानस्वरूपम् अत्यन्तं निर्मलं परमार्थतः ।
तम् एवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ २६ ॥

विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् ।
सर्वज्ञं जगताम् ईशम् अजम् अक्षयम् अव्ययम् ॥ २७ ॥

आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च ।
इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् ॥ २८ ॥

सर्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् ।
गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम् ॥ २९ ॥

कथयामि यथा पूर्वं दक्षाद्यैर् मुनिसत्तमैः ।
पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥ ३० ॥

शृणुध्वं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम् ॥ ३१ ॥

यस् त्व् इमां धारयेन् नित्यं शृणुयाद् वाप्य् अभीक्ष्णशः ।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ ३२ ॥

अव्यक्तं कारणं यत् तन् नित्यं सदसदात्मकम् ।
प्रधानं पुरुषस् तस्मान् निर्ममे विश्वम् ईश्वरः ॥ ३३ ॥

तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्माणम् अमितौजसम् ।
स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥ ३४ ॥

अहङ्कारस् तु महतस् तस्माद् भूतानि जज्ञिरे ।
भूतभेदाश् च भूतेभ्य इति सर्गः सनातनः ॥ ३५ ॥

विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति ।
कीर्त्यमानं शृणुध्वं वः सर्वेषां कीर्तिवर्धनम् ॥ ३६ ॥

कीर्तितं स्थिरकीर्तीनां सर्वेषां पुण्यवर्धनम् ।
ततः स्वयम्भूर् भगवान् सिसृक्षुर् विविधाः प्रजाः ॥ ३७ ॥

अप एव ससर्जादौ तासु वीर्यम् अथासृजत् ।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ ३८ ॥

अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।
हिरण्यवर्णम् अभवत् तद् अण्डम् उदकेशयम् ॥ ३९ ॥

तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूर् इति नः श्रुतम् ।
हिरण्यवर्णो भगवान् उषित्वा परिवत्सरम् ॥ ४० ॥

तद् अण्डम् अकरोद् द्वैधं दिवं भुवम् अथापि च ।
तयोः शकलयोर् मध्य आकाशम् अकरोत् प्रभुः ॥ ४१ ॥

अप्सु पारिप्लवां पृथ्वीं दिशश् च दशधा दधे ।
तत्र कालं मनो वाचं कामं क्रोधम् अथो रतिम् ॥ ४२ ॥

ससर्ज सृष्टिं तद्रूपां स्रष्टुम् इच्छन् प्रजापतीन् ।
मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ ४३ ॥

वसिष्ठं च महातेजाः सो ऽसृजत् सप्त मानसान् ।
सप्त ब्रह्माण इत्य् एते पुराणे निश्चयं गताः ॥ ४४ ॥

नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम् ।
ततो ऽसृजत् पुरा ब्रह्मा रुद्रं रोषात्मसम्भवम् ॥ ४५ ॥

सनत्कुमारं च विभुं पूर्वेषाम् अपि पूर्वजम् ।
सप्तस्व् एता अजायन्त प्रजा रुद्राश् च भो द्विजाः ॥ ४६ ॥

स्कन्दः सनत्कुमारश् च तेजः सङ्क्षिप्य तिष्ठतः ।
तेषां सप्त महावंशा दिव्या देवगणान्विताः ॥ ४७ ॥

क्रियावन्तः प्रजावन्तो महर्षिभिर् अलङ्कृताः ।
विद्युतो ऽशनिमेघांश् च रोहितेन्द्रधनूंषि च ॥ ४८ ॥

वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ।
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ ४९ ॥

साध्यान् अजनयद् देवान् इत्य् एवम् अनुसञ्जगुः ।
उच्चावचानि भूतानि गात्रेभ्यस् तस्य जज्ञिरे ॥ ५० ॥

आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः ।
सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा ॥ ५१ ॥

द्विधा कृत्वात्मनो देहम् अर्धेन पुरुषो ऽभवत् ।
अर्धेन नारी तस्यां तु सो ऽसृजद् द्विविधाः प्रजाः ॥ ५२ ॥

दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्ठति ।
विराजम् असृजद् विष्णुः सो ऽसृजत् पुरुषं विराट् ॥ ५३ ॥

पुरुषं तं मनुं विद्यात् तस्य मन्वन्तरं स्मृतम् ।
द्वितीयं मानसस्यैतन् मनोर् अन्तरम् उच्यते ॥ ५४ ॥

स वैराजः प्रजासर्गं ससर्ज पुरुषः प्रभुः ।
नारायणविसर्गस्य प्रजास् तस्याप्य् अयोनिजाः ॥ ५५ ॥

आयुष्मान् कीर्तिमान् पुण्यप्रजावांश् च भवेन् नरः ।
आदिसर्गं विदित्वेमं यथेष्टां चाप्नुयाद् गतिम् ॥ ५६ ॥