विश्वास-प्रस्तुतिः
हयग्रीव उवाच
प्रविश्य तु जपस्थानमानीय निजमासनम् ।
अभ्युक्ष्य विधिवन्मन्त्रैर्गुरूक्तक्रमयोगतः ॥ ३.४४.१ ॥
मूलम्

स्वात्मानं देवतामूर्तिं ध्यायंस्तत्राविशेषतः ।
प्राङ्मुखो दृढमाबध्य पद्मासनमनन्यधीः ॥ ३.४४.२ ॥

त्रिखण्डामनुबध्नीयाद्गुर्वादीनभिवन्द्य च ।
द्विरुक्तबालबीजानि मध्याद्यङ्गुलिषु क्रमात् ॥ ३.४४.३ ॥

तलयोरपि विन्यस्य करशुद्धिपुरःसरम् ।
अग्निप्राकारपर्यन्तं कुर्यात्स्वास्त्रेण मन्त्रवित् ॥ ३.४४.४ ॥

प्रतिलोमेन पादाद्यमनुलोमेन कादिकम् ।
व्याप कन्यासमारोप्य व्यापयन्वाग्भवादिभिः ॥ ३.४४.५ ॥

व्यक्तैः कारमसूक्ष्मस्थूलशरीराणि कल्पयेत् ।
नाभौ हृदि भ्रुवोर्मध्ये बालाबीजान्यथ न्यसेत् ॥ ३.४४.६ ॥

मातृकां मूलपुटितां न्यसेन्नाभ्यादिषु क्रमात् ।
बालाबीजानि तान्येव द्विरावृत्त्याथ विन्यसेत् ॥ ३.४४.७ ॥

मध्यादिकरशाखासु तलयोरपि नान्यथा ।
नाभ्यादावथ विन्यस्य न्यसेदथ पदद्वये ॥ ३.४४.८ ॥

जानूरुस्फिग्गुह्यमूलनाभि हृन्मूर्धसु क्रमात् ।
नवासनानि ब्रह्माणं विष्णुं रुद्रं तथेश्वरम् ॥ ३.४४.९ ॥

सदाशिवं च पूषाणं तूलिकां च प्रकाशकम् ।
विद्यासनं च विन्यस्य हृदये दर्शयेत्ततः ॥ ३.४४.१० ॥

पद्मत्रिखण्डयोन्याख्यां मुद्रामोष्ठपुटेन च ।
वायुमापूर्य हुं हुं हुं त्विति प्राबीध्य कुण्डलीम् ॥ ३.४४.११ ॥

मन्त्रशक्त्या समुन्नीय द्वादशान्ते शिवैकताम् ।
भावयित्वा पुनस्तं च स्वस्थाने विनिवेश्य च ॥ ३.४४.१२ ॥

वाग्भवादीनि बीजानि मूलहृद्बाहुषु न्यसेत् ।
समस्तमूर्ध्नि दोर्मूलमध्याग्रेषु यथाक्रमम् ॥ ३.४४.१३ ॥

हस्तौ विन्यस्य चाङ्गेषु ह्यङ्गुष्ठादितलावधि ।
हृदयादौ च विन्यस्य कुङ्कुमं न्यासमाचरेत् ॥ ३.४४.१४ ॥

शुद्धा तृतीयबीजेन पुटितां मातृकां पुनः ।
आद्यबीजद्वयं न्यस्य ह्यन्त्यबीजं न्यसेदिति ॥ ३.४४.१५ ॥

पुनर्भूतलविन्यासमाचरेन्नातिविस्तरम् ।
वर्गाष्टकं न्यसेन्मूले नाभौ हृदयकण्ठयोः ॥ ३.४४.१६ ॥

प्रागाधायैषु शषसान्मूलहृन्मूर्द्धसु न्यसेत् ।
कक्षकट्यंसवामांसकटिहृत्सु च विन्यसेत् ॥ ३.४४.१७ ॥

प्रभूताधः षडङ्गानि दादिवर्गैस्तु विन्यसेत् ।
ऋषिस्तु शब्दब्रह्मस्याच्छन्दो भूतलिपिर्मता ॥ ३.४४.१८ ॥

श्रीमूलप्रकृतिस्त्वस्य देवता कथिता मनोः ।
अक्षस्रक्पुस्तके चोर्ध्वे पुष्पसायककार्मुके ॥ ३.४४.१९ ॥

वराभीतिकराब्जैश्च धारयन्तीमनूपमाम् ।
रक्षणाक्षमयीं मानां वहन्ती कण्ठदेशतः ॥ ३.४४.२० ॥

हारकेयूरकटकच्छन्नवीरविभूषणाम् ।
दिव्याङ्गरागसम्भिन्नमणिकुण्डलमण्डिताम् ॥ ३.४४.२१ ॥

लिपिकल्पद्रुमस्याधो रूपिपङ्कजवासिनीम् ।
साक्षाल्लिपिमयीं ध्यायेद्भैरवीं भक्तवत्सलाम् ॥ ३.४४.२२ ॥

अनेककोटिदूतीभिः समन्तात्समलङ्कृताम् ।
एवं ध्यात्वा न्यसेद्भूयो भूतलेप्यक्षरान्क्रमात् ॥ ३.४४.२३ ॥

मूलाद्याज्ञावसानेषु वर्गाष्टकमथो न्यसेत् ।
शषसान्मूर्ध्नि सन्न्यस्य स्वरानेष्वेव विन्यसेत् ॥ ३.४४.२४ ॥

हादिरूर्ध्वादिपञ्चास्येष्वग्रे मूले च मध्यमे ।
अङ्गुलीमूलमणिबन्धयोर्देष्णोश्च पादयोः ॥ ३.४४.२५ ॥

जठरे पार्श्वयोर्दक्षवामयोर्नाभिपृष्ठयोः ।
शषसान्मूलहृन्मूर्धस्वेतान्वा लादिकान्न्य सेत् ॥ ३.४४.२६ ॥

ह्रस्वाः पञ्चाथ सन्ध्यर्णाश्चत्वारो हयरा वलौ ।
अकौ खगेनगश्चादौ क्रमोयं शिष्टवर्गके ॥ ३.४४.२७ ॥

शषसा इति विख्याता द्विचत्वारिंशदक्षराः ।
आद्यः पञ्चाक्षरो वर्गो द्वितीयश्चतुरक्षरः ॥ ३.४४.२८ ॥

पञ्चाक्षरी तु षड्वर्गी त्रिवर्णो नवमो मतः ।
ब्रह्मा विष्णुश्च रुद्रश्च धनेशेन्द्रयमाः क्रमात् ॥ ३.४४.२९ ॥

वरुणश्चैव सोमश्च शक्तित्रयमिमे नव ।
वर्णानामीश्वराः प्रोक्ताः क्रमो भूतलिपेरयम् ॥ ३.४४.३० ॥

एवं सृष्टौ पाठो विपरीतः संहृतावमुन्येव ।
स्थानानि योजनीयौ विसर्गबिन्दू च वर्णान्तौ ॥ ३.४४.३१ ॥

ध्यानपूर्वं ततः प्राज्ञो रत्यादिन्यासमाचरेत् ।
जपाकुसुमसङ्काशाः कुङ्कुमारुणविग्रहाः ॥ ३.४४.३२ ॥

कामवामाधिरूढाङ्का ध्येयाः शरधनुर्धराः ।
रतिप्रीतियुतः कामः कामिन्याः कान्तैष्यते ॥ ३.४४.३३ ॥

कान्तिमान्मोहिनीयुक्तकामाङ्गः कलहप्रियाम् ।
अन्वेति कामचारैस्तु विलासिन्या समन्वितः ॥ ३.४४.३४ ॥

कामः कल्पलता युक्तः कामुकः श्यामवर्णया ।
शुचिस्मितान्वितः कामो बन्धको विस्मृतायुतः ॥ ३.४४.३५ ॥

रमणो विस्मिताक्ष्या च रामोऽयं लेलिहानया ।
रमण्या रतिनाथोपि दिग्वस्त्राढ्यो रतिप्रियः ॥ ३.४४.३६ ॥

वामया कुब्जया युक्तो रतिनाथो धरायुतः ।
रमाकान्तो रमोपास्यो रममाणो निशाचरः ॥ ३.४४.३७ ॥

कल्याणो मोहिनीनाथो नन्दकश्चोत्तमान्वितः ।
नन्दी सुरोत्तमाढ्यो नन्दनो नन्दयिता पुनः ॥ ३.४४.३८ ॥

सुलावण्यान्वितः पञ्चबाणो बालनिधीश्वरः ।
कलहप्रियया युक्तस्तथा रतिसखः पुनः ॥ ३.४४.३९ ॥

एकाक्ष्या पुष्पधन्वापि सुमुखेशो महाधनुः ।
नीली जडिल्यो भ्रमणः क्रमशः पालिनीपतिः ॥ ३.४४.४० ॥

भ्रममाणः शिवाकान्तो भ्रमो भ्रान्तश्च मुग्धया ।
भ्रामको रमया प्राप्तो भ्रामितो भृङ्ग इष्यते ॥ ३.४४.४१ ॥

भ्रान्ताचारो लोचनया दीर्घजिह्विकया पुनः ।
भ्रमावहं समन्वेति मोहनस्तु रतिप्रियाम् ॥ ३.४४.४२ ॥

मोहकस्तु पलाशाक्ष्या गृहिण्यां मोह इष्यते ।
विकटेशो मोहधरो वर्धनोयं धरायुतः ॥ ३.४४.४३ ॥

मदनाथोऽनूपमस्तु मन्मथो मलयान्वितः ।
मादकोह्लादिनीयुक्तः समिच्छन्विश्वतोमुखी ॥ ३.४४.४४ ॥

नायको भृङ्गपूर्वस्तु गायको नन्दिनीयुतः ।
गणकोऽनामया ज्ञेयः काल्या नर्तक इष्यते ॥ ३.४४.४५ ॥

क्ष्वेल्लकः कालकर्ण्यढ्यः कन्दर्पो मत्त इष्यते ।
नर्तकः श्यामलाकान्तो विलासी झषयान्वितः ॥ ३.४४.४६ ॥

उन्मत्तामुपसङ्गम्य मोदते कामवर्धनः ।
ध्यानपूर्वं ततः श्रीकण्ठादिविन्यासमाचरेत् ॥ ३.४४.४७ ॥

सिन्दूरकाञ्चनसमोभयभागमर्धनारीश्वरं गिरिसुताहरभूपचिह्नम् ।
पाशद्वयाक्षवलयेष्टदहस्तमेव स्मृत्वा न्यसेल्लिपिपदेषु समीहितार्थम् ॥ ३.४४.४८ ॥

श्रीकण्ठानन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ।
उर्वीशोभारभूतिश्चातिथीशः स्थाणुको हरः ॥ ३.४४.४९ ॥

चण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ।
अक्रूरश्च महासेनः स्युरेते वरमूर्त्तयः ॥ ३.४४.५० ॥

ततः क्रोधीशचण्डीशौ पञ्चान्तकशिवोत्तमौ ।
तथैकरुद्रकूर्मैकनेत्राः सचतुरातनाः ॥ ३.४४.५१ ॥

अजेशः शर्वसोमेशौ हरो लागलिदारुकौ ।
अर्धनारीश्वरश्चोमाकान्तश्चापाढ्यदण्डिनौ ॥ ३.४४.५२ ॥

अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ।
खड्गदण्डद्विदण्डौ च सुमहाकालव्या लिनौ ॥ ३.४४.५३ ॥

भुजङ्गेशः पिनाकी च खड्गेशश्च बकस्तथा ।
श्वेतो ह्यभ्रश्च लकुलीशिवः संवर्त्तकस्तथा ॥ ३.४४.५४ ॥

पूर्णोदरी च विरजा तृतीया शाल्म तथा ।
लोलाक्षी वर्तुलाक्षी च दीर्घङ्घोणा तथैव च ॥ ३.४४.५५ ॥

सुदीर्घमुखिगो मुख्यौ नवमी दीर्घजिह्विका ।
कुञ्जरी चौर्ध्वकेशा च द्विमुखी विकृतानना ॥ ३.४४.५६ ॥

सत्यलीलाकलाविद्यामुख्याः स्युः स्वरशक्तयः ।
महाकाली सरस्वत्यौ सर्वसिद्धिसमन्विते ॥ ३.४४.५७ ॥

गौरी त्रैलोक्यविद्या च तथा मन्त्रात्मशक्तिका ।
लम्बोदरी भूतमता द्राविणी नागरी तथा ॥ ३.४४.५८ ॥

खेचरी मञ्जरी चैव रूपिणी वीरिणी तथा ।
कोटरा पूतना भद्रा काली योगिन्य एव च ॥ ३.४४.५९ ॥

शङ्खिनीगर्जिनीकालरात्रिकूर्दिन्य एव च ।
कपर्दिनी तथा वज्रा जया च सुमुखेश्वरी ॥ ३.४४.६० ॥

रेवती माधवी चैव वारुणी वायवी तथा ।
रक्षावधारिणी चान्या तथा च सहजाह्वया ॥ ३.४४.६१ ॥

लक्ष्मीश्च व्यापिनीमाये सङ्ख्याता वर्णशक्तयः ।
द्विरुक्तवालाया वर्णै रङ्गं कृत्वाथ केवलैः ॥ ३.४४.६२ ॥

षोढा न्यासं प्रकुर्वीत देवतात्मत्वसिद्धये ।
विघ्नेशादींस्तु तत्रादौ विन्यसेद्ध्यानपूर्वकम् ॥ ३.४४.६३ ॥

तरुणारुणसङ्काशान्गजवक्त्रांस्त्रिलोचनान् ।
पाशाङ्कुशवराभीतिहस्ताञ्छक्तिसमन्वितान् ॥ ३.४४.६४ ॥

विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ ।
विघ्नकृद्विघ्नहन्ता च विघ्नराढ्गणनायकः ॥ ३.४४.६५ ॥

एकदन्तो द्विदन्तश्च गजवक्त्रो निरञ्जनः ।
कपर्दवान्दीर्घमुखः शङ्कुकर्णो वृषध्वजः ॥ ३.४४.६६ ॥

गणनाथो गजेन्द्रास्यः शूर्पकर्णस्त्रिलोचनः ।
लम्बोदरो महानादश्चतुर्मूर्तिः सदाशिवः ॥ ३.४४.६७ ॥

आमोदो दुर्मदश्चैव सुमुखश्च प्रमोदकः ।
एकपादो द्विपादश्च शूरो वीरश्च षण्मुखः ॥ ३.४४.६८ ॥

वरदो नाम देवश्च वक्रतुण्डो द्विदन्तकः ।
सेनानीर्ग्रामणीर्मत्तो मत्तमूषकवाहनः ॥ ३.४४.६९ ॥

जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः ।
भङ्यप्रियो गणेशश्च मेघनादो गणेश्वरः ॥ ३.४४.७० ॥

एते गणेशा वर्णानामेकपञ्चाशतः क्रमात् ।
श्रीश्च ह्रीश्चैव पुष्टिश्च शान्तिस्तुष्टिः सरस्वती ॥ ३.४४.७१ ॥

रतिर्मेधा तथा कान्तिः कामिनी मोहिनी तथा ।
तीव्रा च ज्वालिनी नन्दा सुयशाः कामरूपिणी ॥ ३.४४.७२ ॥

उग्रा तेजोवती सत्या विघ्नेशानी स्वरूपिणी ।
कामार्त्ता मदजिह्वा च विकटा घूर्णितानना ॥ ३.४४.७३ ॥

भूतिर्भूमिर्द्विरम्या चामारूपा मकरध्वजा ।
विकर्णभ्रुकुटी लज्जा दीर्घघोणा धनुर्धरी ॥ ३.४४.७४ ॥

तथैव यामिनी रात्रिश्चन्द्रकान्ता शशिप्रभा ।
लोलाक्षी चपला ऋज्वी दुर्भगा सुभगा शिवा ॥ ३.४४.७५ ॥

दुर्गा गुहप्रिया काली कालजिह्वा च शक्तयः ।
ग्रहन्यासं ततः कुर्याद्ध्यानपूर्वं समाहितः ॥ ३.४४.७६ ॥

वरदाभयहस्ताढ्याञ्छक्त्यालिङ्गितविग्रहान् ।
कुङ्कुमक्षीररुधिरकुन्दकाञ्चनकम्बुभिः ॥ ३.४४.७७ ॥

अम्भोदधूमतिमिरैः सूर्यादीन्सदृशान्स्मरेत् ।
हृदयाधो रविं न्यस्य शीर्ष्णि सोमं दृशोः कुजम् ॥ ३.४४.७८ ॥

हृदि शुक्रं च हृन्मध्ये बुधं कण्ठे बृहस्पतिम् ।
नाभौ शनैश्चरं वक्त्रे राहुं केतुं पदद्वये ॥ ३.४४.७९ ॥

ज्वलत्कालानलप्रख्या वरदाभयपाणयः ।
तारा न्यसेत्ततो ध्यायन्सर्वाभरणभूषिताः ॥ ३.४४.८० ॥

भाले नयनयोः कर्णद्वये नासापुडद्वये ।
कण्ठे स्कन्धद्वये पश्चात्कूर्पयोर्मणिबन्धयोः ॥ ३.४४.८१ ॥

स्तनयोर्नाभिकट्यूरुजानुजङ्घापदद्वये ।
योगिनीन्यासमादध्या द्विशुद्धो हृदये तथा ॥ ३.४४.८२ ॥

नाभौ स्वाधिष्ठिते मूले भ्रूमध्ये मूर्धनि क्रमात् ।
पद्मेन्दुकर्णिकामध्ये वर्णशक्तीर्दलेष्वथ ॥ ३.४४.८३ ॥

दलाग्रेषु तु पद्मस्य मूर्ध्नि सर्वाश्च विन्यसेत् ।
अमृता नन्दिनीन्द्राणी त्वीशानी चात्युमा तथा ॥ ३.४४.८४ ॥

ऊर्ध्वकेशी ऋद्विदुषी ळकारिका तथैव च ।
एकपादात्मिकैश्वर्यकारिणी चौषधात्मिका ॥ ३.४४.८५ ॥

ततोम्बिकाथो रक्षात्मिकेति षोडश शक्तयः ।
कालिका खेचरी गायत्री घण्टाधारिणी तथा ॥ ३.४४.८६ ॥

नादात्मिका च चामुण्टा छत्रिका च जया तथा ।
झङ्कारिणी च सञ्ज्ञा च टङ्कहस्ता ततः परम् ॥ ३.४४.८७ ॥

टङ्कारिणी च विज्ञेयाः शक्तयो द्वादश क्रमात् ।
डङ्कारी टङ्कारिणी च णामिनी तामसी तथा ॥ ३.४४.८८ ॥

थङ्कारिणी दया धात्री नादिनी पार्वती तथा ।
फट्कारिणी च विज्ञेयाः शक्तयो द्वयपन्नगाः ॥ ३.४४.८९ ॥

वर्धिनी च तथा भद्रा मज्जा चैव यशस्विनी ।
रमा च लामिनी चेति षडेताः शक्तयः क्रमात् ॥ ३.४४.९० ॥

नारदा श्रीस्तथा षण्ढाशश्वत्यपि च शक्तयः ।
चतस्रोऽपि तथैव द्वे हाकिनी च क्षमा तथा ॥ ३.४४.९१ ॥

ततः पादे च लिङ्गे च कुक्षौ हृद्दोःशिरस्मु च ।
दक्षा दिवामपादान्तं राशीन्मेषादिकान्न्यसेत् ॥ ३.४४.९२ ॥

ततः पीठानि पञ्चाशदेकं चक्रं मनो न्यसेत् ।
वाराणसी कामरूपं नेपालं पौण्ड्रवर्धनम् ॥ ३.४४.९३ ॥

वरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् ।
आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोष्ठकम् ॥ ३.४४.९४ ॥

कैलासं भृगुनगरं केदारं चन्द्रपुष्करम् ।
श्रीपीठं चैकवीरां च जालन्ध्रं मालवं तथा ॥ ३.४४.९५ ॥

कुलान्नं देविकोटं च गोकर्णं मारुतेश्वरम् ।
अट्टहासं च विरजं राजवेश्म महापथम् ॥ ३.४४.९६ ॥

कोलापुरकैलापुरकालेश्वरजयन्तिकाः ।
उज्ज्यिन्यपि चित्रा च क्षीरकं हस्तिनापुरम् ॥ ३.४४.९७ ॥

उडीरां च प्रयागं च षष्टिमायापुरं तथा ।
गौरीशं सलयं चैव श्रीशैलं मरुमेव च ॥ ३.४४.९८ ॥

पुनर्गिरिवरं पश्चान्महेन्द्रं वामनं गिरिम् ।
स्याद्धिरण्यपुरं पश्चान्महालक्ष्मीपुरं तथा ॥ ३.४४.९९ ॥

पुरोद्यानं तथा छायाक्षेत्रमाहुर्मनीषिणः ।
लिपिक्रमसमायुक्तांल्लिपिस्थानेषु विन्यसेत् ॥ ३.४४.१०० ॥

अन्यान्यथीक्तस्थानेषु संयुक्तांल्लिपिसङ्कमात् ।
षोढा न्यासो मयाख्यातः साक्षादीश्वरभाषितः ॥ ३.४४.१०१ ॥

एवं विन्यस्तदेहस्तु देवताविग्रहो भवेत् ।
ततः षोढा पुरः कृत्वा श्रीचक्रन्यासमाचरेत् ॥ ३.४४.१०२ ॥

अंशाद्यानन्द्यमूर्त्यन्तं मन्त्रैस्तु व्यापकं चरेत् ।
चक्रेश्वरीं चक्रसमर्पणमन्त्रान्हृदि न्यसेत् ॥ ३.४४.१०३ ॥

अन्यान्यथोक्तस्थानेषु गणपत्यादिकान्न्यसेत् ।
दक्षिणोरुसमं वामं सर्वांश्च क्रमशो न्यसेत् ॥ ३.४४.१०४ ॥

गणेशं क्षेत्रपालं च योगिनीं बटुकं तथा ।
आदाविन्द्रादयो न्यस्याः पदाङ्गुष्ठद्वयाग्रके ॥ ३.४४.१०५ ॥

जानुपार्श्वंसमूर्धास्यपार्श्वजानुषु मूर्धनि ।
मूलाधारेऽणिमादीनां सिद्धीनां दशकं ततः ॥ ३.४४.१०६ ॥

न्यस्तव्यमंसदोः पृष्ठवक्षस्सु प्रपदोः स्फिजि ।
दोर्देशपृष्ठयोर्मूर्धपादद्वितययोः क्रमात् ॥ ३.४४.१०७ ॥

अणिमा चैव लघिमा तृतीया महिमा तथा ।
ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च ।
इच्छासिद्धी रससिद्धिर्मोक्षसिद्धिरिति स्मृताः ॥ ३.४४.१०८ ॥

ततो विप्र न्यसेद्धीमान्मातृणामष्टकं क्रमात् ।
पादाङ्गुष्ठयुगे दक्षपार्श्वे मूर्द्धनि वामतः ॥ ३.४४.१०९ ॥

वामजनौ दक्षजानौ दक्षवामांसयोस्तथा ॥ ३.४४.११० ॥
विश्वास-प्रस्तुतिः
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा चैव सप्तमी ॥ ३.४४.११ ॥

महालक्ष्मीश्च विज्ञेया मातरो वै क्रमाद्बुधैः ।
मुद्रादेवीर्न्यसेदष्टावेष्वेव द्वे च ते पुनः ॥ ३.४४.१२ ॥

मूर्द्धार्न्ध्योरपि मुद्रास्तु सर्वसङ्क्षोभिणी तथा ।
सर्वविद्राविणी पश्चात्सर्वार्थाकर्षणी तथा ॥ ३.४४.१३ ॥

सर्वाद्या वशकरिणी सर्वाद्या प्रियकारिणी ।
महाङ्कुशी च सर्वाद्या सर्वाद्या खेचरी तथा ॥ ३.४४.१४ ॥

त्रिखण्डा सर्वबीजा च मूद्रा सर्वप्रपीरिका ।
योनिमुद्रेति विज्ञेयास्तत्र चक्रेश्वरीं न्यसेत् ॥ ३.४४.१५ ॥

त्रैलोक्य मोहनं चक्रं समर्प्य व्याप्य वर्ष्मणि ।
ततः कलानां नित्यानां क्रमात्षोडशकं न्यसेत् ॥ ३.४४.१६ ॥

कामाकर्षणरूपा च शब्दाकर्षणरूपिणी ।
अहङ्काराकर्षिणी च शब्दाकर्षणरूपिणी ॥ ३.४४.१७ ॥

स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी ।
रसाकर्षणरूपा च गन्धाकर्षणरूपिणी ॥ ३.४४.१८ ॥

चित्ताकर्षणरूपा च धैर्याकर्षणरूपिणी ।
स्मृत्याकर्षणरूपा च हृदाकर्षणरूपिणी ॥ ३.४४.१९ ॥

श्रद्धाकर्षणरूपा च ह्यात्माकर्षणरूपिणी ।
अमृताकर्षिणी प्रोक्ता शरीराकर्षणी तथा ॥ ३.४४.१२० ॥

स्थानानि दक्षिणं श्रोत्रं पृष्ठमंसश्च कूर्परः ।
दक्षहस्त तलस्याथ पृष्ठं तत्स्फिक्च जानुनी ॥ ३.४४.२१ ॥

तज्जङ्घाप्रपदे वामप्रपदादिविलोमतः ।
चक्रेशीं न्यस्य चक्रं च समर्च्य व्याप्य वर्ष्मणि ॥ ३.४४.२२ ॥

न्यसेदनङ्गकुसुमदेव्यादीनामथाष्टकम् ।
शङ्खजत्रूरुजङ्घासु वामे तु प्रतिलोमतः ॥ ३.४४.२३ ॥

अनङ्गकुसुमा पश्चाद्द्वितीयानङ्ग मेखला ।
अनङ्गमदना पश्चादनङ्गमदनातुरा ॥ ३.४४.२४ ॥

अनङ्गरेखा तत्पश्चाद्वेगाख्यानङ्गपूर्विका ।
ततोऽनङ्गाङ्कुशा पश्चादनङ्गाधारमालिनी ॥ ३.४४.२५ ॥

चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि ।
शक्तिदेवीर्न्यसेत्सर्वसङ्क्षोभिण्यादिका अथ ॥ ३.४४.२६ ॥

ललाटगण्डयोरं से पादमूले च जानुनि ।
उपर्यधश्च जङ्घायां तथा वामे विलोमतः ॥ ३.४४.२७ ॥

सर्वसङ्क्षोभिणी शक्तिः सर्वविद्राविणी तथा ।
सर्वाद्याकर्षणी शक्तिः सर्वप्रह्लादिनी तथा ॥ ३.४४.२८ ॥

सर्वसम्मोहिनी शक्तिः सर्वाद्या स्तम्भिनी तथा ।
सर्वाद्या जृम्भिणी शक्तिः सर्वाद्या वशकारिणी ॥ ३.४४.२९ ॥

सर्वाद्या रञ्जिनी शक्तिः सर्वाद्योन्मादिनी तथा ।
सर्वार्थसाधिनी शक्तिस्सर्वाशापूरिणी तथा ॥ ३.४४.१३० ॥

सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करा ।
चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि ॥ ३.४४.३१ ॥

सर्वसिद्धिप्रदादीनां दशकं चाथ विन्यसेत् ।
दक्षनासापुटे दन्तमूले दक्षस्तने तथा ॥ ३.४४.३२ ॥

कूर्परे मणिबन्धे च न्यस्येद्वामे विलोमतः ।
सर्वसिद्धिप्रदा नित्यं सर्वसम्पत्प्रदा तथा ॥ ३.४४.३३ ॥

सर्वप्रियङ्करा देवी सर्वमङ्गलकारिणी ।
सर्वाघमोचिनी शक्तिः सर्वदुःखविमोचिनी ॥ ३.४४.३४ ॥

सर्व मृत्युप्रशमिनी सर्वविघ्नविनाशिनी ।
सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदायिनी ॥ ३.४४.३५ ॥
मूलम्
सर्व मृत्युप्रशमिनी सर्वविघ्नविनाशिनी ।
सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदायिनी ॥ ३.४४.३५ ॥
विश्वास-प्रस्तुतिः
चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि ।
सर्वज्ञाद्यान्न्यसेद्वक्षस्यपि दन्तस्थलेष्वथ ॥ ३.४४.३६ ॥

सर्वज्ञा सर्वशक्तिश्च सर्वज्ञानप्रदा तथा ।
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ॥ ३.४४.३७ ॥

सर्वाधारस्वरूपा च सर्वपापहरा तथा ।
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ।
विज्ञेया दशमी चैव सर्वेप्सितफलप्रदा ॥ ३.४४.३८ ॥
मूलम्
सर्वाधारस्वरूपा च सर्वपापहरा तथा ।
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ।
विज्ञेया दशमी चैव सर्वेप्सितफलप्रदा ॥ ३.४४.३८ ॥
विश्वास-प्रस्तुतिः
चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि ।
प्राग्वामाद्याश्च विन्यस्य पक्षिण्याद्यास्ततः सुधीः ॥ ३.४४.३९ ॥

दक्षे तु चिबुके कण्ठे स्तने नाभौ च पार्श्वयोः ।
वामा विनोदिनी विद्या वशिता कामिकी मता ॥ ३.४४.१४० ॥

कामेश्वरी परा ज्ञेया मोहिनी विमला तथा ।
अरुणा जयिनी पश्चात्तथा सर्वेश्वरी मता ।
कौलिनीति समुक्तानि तासां नामानि सूरिभिः ॥ ३.४४.४१ ॥

चक्रेश्वरीं न्यसेच्चक्रं समर्प्य व्याप्य वर्ष्मणि ।
हृदि त्रिकोणं सम्भाव्य दिक्षु प्रागादितः क्रमात् ॥ ३.४४.४२ ॥

तद्बहिर्विन्न्यसेद्धीमानायुधानां चतुष्टयम् ।
न्यसेदग्न्यादिकोणेषु मध्ये पीठचतुष्टयम् ॥ ३.४४.४३ ॥

मध्यवृत्तन्न्यसित्वा च नित्याषोडशकं न्यसेत् ।
कामेश्वरी तथा नित्या नित्या च भगमालिनी ॥ ३.४४.४४ ॥

नित्यक्लिन्ना तथा नित्या नित्या भेरुण्डिनी मता ।
वह्निवासिनिका नित्या महावज्रेश्वरी तथा ॥ ३.४४.४५ ॥

नित्या च दूती नित्या च त्वरिता तु ततः परम् ।
कुलसुन्दरिका नित्या कुल्या नित्या ततः परम् ॥ ३.४४.४६ ॥

नित्या नीलपताका च नित्या तु विजया परा ।
ततस्तु मङ्गला चैव नित्यपूर्वा प्रचक्ष्यते ॥ ३.४४.४७ ॥

प्रभामालिनिका नित्या चित्रा नित्या तथैव च ।
एतास्त्रिकोणान्तरेण पादतो हृदि विन्यसेत् ॥ ३.४४.४८ ॥

नित्या प्रमोदिनी चैव नित्या त्रिपुरसुन्दरी ।
तन्मध्ये विन्यसेद्देवीमखण्डजगदात्मिकाम् ॥ ३.४४.४९ ॥

चक्रेश्वरीं हृदि न्यस्य कृत्वा चक्रं समुद्धृतम् ।
प्रदर्श्य मुद्रां योन्याख्यां सर्वानन्दमनुं जपेत् ॥ ३.४४.१५० ॥

इत्यात्मनस्तु चक्रस्य चक्रदेवी भविष्यति ॥ ३.४४.१५१ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने चतुश्चत्वारिंशोऽध्यायः
समाप्तं ललितोपाख्यानम् ।
श्रीमत्प्रतापगढपत्तनमध्यवर्त्तिश्रीरामपूर्वकगढाभिधवासिनेदम् ।
संशोधितं निखिलमान्यपुराणकं यद्ब्रह्माण्डसञ्ज्ञमिह तद्विदुषां मुदेऽस्तु
रघुनाथेनेदं यत्क्वचिदस्ती हाप्यसंशुद्धम् ।
संशोधितमपि दयया तत्क्षन्तव्यं ह्यशेषेण
ओं नमो भगवते वासुदेवाय ।
रामाय नमः
समाप्तमिदं ब्रह्माण्डमहापुराणम् ।