०४२

विश्वास-प्रस्तुतिः

अगस्त्य उवाच
मुद्राविरचनारीतिमश्वानन निवेदय ।
याभिर्विरचिताभिस्तु श्रीदेवी सम्प्रसीदति ॥ ३.४२.१ ॥

मूलम्

हयग्रीव उवाच
आवाहनी महामुद्रा त्रिखण्डेति प्रकीर्तिता ।
परिवृत्य करौ स्पष्टमङ्गुष्ठौ कारयेत्समौ ॥ ३.४२.२ ॥

अनामान्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती ।
कनिष्ठिके नियुञ्जीत निजस्थाने तपोधन ।
सङ्क्षोभिण्याख्यामुद्रां तु कथयाम्यधुना श्रुणु ॥ ३.४२.३ ॥

मध्यमे मध्यगे कृत्वा कनिष्ठाङ्गुष्टरोधिते ।
तर्जन्यो दण्डवत्कृत्वा मध्यमोपर्यनामिके ॥ ३.४२.४ ॥

एतस्या एव मुद्राया मध्यमे सरले यदि ।
क्रियते विन्ध्यदर्पारे मुद्रा विद्राविणी तथा ॥ ३.४२.५ ॥

मध्यमातर्जनीभ्यां तु कनिष्ठानामिके समे ।
अङ्कुशाकाररूपाभ्यां मध्यगे कलशोद्भव ।
इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षणे क्षमा ॥ ३.४२.६ ॥

पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती ।
परिवर्तक्रमेणैव मध्यमे तदधोगते ॥ ३.४२.७ ॥

क्रमेणानेन देवर्षे मध्यमामध्यगेऽनुजे ।
अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् ॥ ३.४२.८ ॥

दण्डाकारौ ततोंऽगुष्ठौ मध्यमावर्तदेशगौ ।
मुद्रैषोन्मादिनी नाम्ना ख्याता वातापितापन ॥ ३.४२.९ ॥

अस्यास्त्वनामिकायुग्ममधः कृत्वाङ्कुशाकृति ।
तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् ॥ ३.४२.१० ॥

इयं महाङ्कुशा मुद्रा सर्वकार्यार्थसाधिका ॥ ३.४२.११ ॥

विश्वास-प्रस्तुतिः

सव्यं दक्षिणादेशे तु दक्षिणं सव्यदेशतः ।
बाहू कृत्वा तु देवर्षे हस्तौ सम्परिवर्त्य च ४२.१२ ।
कनिष्ठानामिके युक्ते क्रमेणानेन तापस ।
तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ॥ ३.४२.१३ ॥

लोपामुद्रापतेङ्गुष्ठौ कारयेत्सकलावपि ।
इयं तु खेचरी नाम मुद्रा सर्वोत्तमोत्तमा ।
एतद्विज्ञानमात्रेण योगिनीनां प्रियो भवेत् ॥ ३.४२.१४ ॥

परिवर्त्य करौ स्पृष्टावर्धचन्द्रसमाकृती ।
तर्जन्यङ्गुष्ठयुगलं युगपद्योजयेत्ततः ॥ ३.४२.१५ ॥

अधः कनिष्ठावष्टब्धमध्यमे विनियोजयेत् ।
अथैते कुटिले युक्त्वा सर्वाधस्तादनामिके ।
बीजमुद्रेयमाचिरात्सर्वसिद्धप्रवर्तिनी ॥ ३.४२.१६ ॥

मध्याग्रे कुटिलाकारे तर्जन्युपरि संस्थिते ।
अनामिकामध्यगते तथैव हि कनिष्टिके ॥ ३.४२.१७ ॥

सर्वा एकत्र संयोज्य चाङ्गुष्ठपरिपीडिताः ।
एषा तु प्रथमा मुद्रा योनिमुद्रेति सञ्ज्ञिता ॥ ३.४२.१८ ॥

एता मुद्रास्तु देवर्षे श्रीदेव्याः प्रीतिहेतवः ।
पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः ॥ ३.४२.१९ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने हयग्रीवागस्त्यसम्वादे द्वाचत्वारिंशोऽध्यायः