०४१

विश्वास-प्रस्तुतिः

अगस्त्य उवाच
कीदृशं यन्त्रमेतस्या मन्त्रोवा कीदृशो वरः ।
उपदेष्टा च कीदृक्स्याच्छिष्यो वा कीदृशः स्मृतः ॥ ३.४१.१ ॥

मूलम्

सर्वज्ञस्त्वं हयग्रीव साक्षात्परमपूरुषः ।
स्वामिन्मयि कृपादृष्ट्या सर्वमेतन्निवेदय ॥ ३.४१.२ ॥

हयग्रीव उवाच
मन्त्रं श्रीचक्रगेवास्याः सेयं हि त्रिपुराम्बिका ।
सैषैव हि महालक्ष्मीः स्फुरच्चैवात्मनः पुरा ॥ ३.४१.३ ॥

पस्यति स्म तदा चक्रं ज्योतिर्मयविजृम्भितम् ।
अस्य चक्रस्य माहात्म्यमपरिज्ञेयमेव हि ॥ ३.४१.४ ॥

साक्षात्सैव महालक्ष्मीः श्रीचक्रमिति तत्त्वतः ।
यदभ्यर्च्य महाविष्णुः सर्वलोकविमोहनम् ।
कामसम्मोहिनीरूपं भेजे राजीवलोचनः ॥ ३.४१.५ ॥

अर्चयित्वा तदीशानः सर्वविद्येश्वरोऽभवत् ।
तदाराध्य विशेषेण ब्रह्मा ब्रह्माण्डसूरभूत् ।
मुनीनां मोहनश्चासीत्स्मरो यद्वरिवस्यया ॥ ३.४१.६ ॥

श्रीदेव्याः पुरतश्चक्रं हेमरौप्यादिनिर्मितम् ।
निधाय गन्धैरभ्यर्च्य षोडशाक्षरविद्यया ॥ ३.४१.७ ॥

प्रत्यहं तुलसीपत्रैः पवित्रैर्मङ्गलाकृतिः ।
सहस्रैर्मूलमन्त्रेण श्रीदेवीध्यानसंयुतः ॥ ३.४१.८ ॥

अर्चयित्वा च मध्वाज्यशर्करापायसैः शुभैः ।
अनवद्यैश्च नैवेद्यैर्माषापूपैर्मनोहरैः ॥ ३.४१.९ ॥

यः प्रीणति महालक्ष्मीं मतिमान्मण्डलत्रये ।
महसा तस्य सान्निध्यमाधत्ते परमेश्वरी ॥ ३.४१.१० ॥

मनसा वाञ्छितं यच्च प्रसन्ना तत्प्रपूरयेत् ।
धवलै कुसुमैश्चक्रमुक्तरीत्या तु योर्ऽचयेत् ॥ ३.४१.११ ॥

तस्यैव रसनाभागे नित्यं नृत्यति भारती ।
पाटलैः कुसुमैश्चक्रं योर्ऽचयेदुक्तमार्गतः ।
सार्वभौमं च राजानं दासवद्वशयेदसौ ॥ ३.४१.१२ ॥

पीतवर्णैः शुभैः पुष्पैः पूर्ववत्पूजयेच्च यः ।
तस्य वक्षस्थले नित्यं साक्षाच्छ्रीर्वसति ध्रुवम् ॥ ३.४१.१३ ॥

दुर्गन्धैर्गन्धहीनैश्च सुवर्णैरपि नार्चयेत् ।
सुगन्धैरेव कुसुमैः पुष्पैश्चाभ्यर्चर्योच्छवाम् ॥ ३.४१.१४ ॥

कामाक्ष्यैव महालक्ष्मीश्चक्रं श्रीचक्रमेव हि ।
श्रीविद्यैषा परा विद्या नायिका गुरुनायिका ॥ ३.४१.१५ ॥

एतस्या मन्त्रराजस्तु श्रीविद्यैव तपोधन ।
कामराजान्तमन्त्रान्ते श्रीबीजेन समन्वितः ॥ ३.४१.१६ ॥

षोडशाक्षरविद्येयं श्रीविद्येति प्रकीर्तिता ।
इत्थं रहस्यमाख्यातं गोपनीयं प्रयत्नतः ॥ ३.४१.१७ ॥

तिसृणामपि मूर्तीनां शक्तिर्विद्येयमीरिता ।
सर्वेषा मपि मन्त्राणां विद्यैषा प्राणरूपिणी ॥ ३.४१.१८ ॥

पारम्पर्येण विज्ञाता विद्येयं बन्धमोचिनी ।
संस्मृता पापहरणी जरामृत्युविनाशिनी ॥ ३.४१.१९ ॥

पूजिता दुःखदौर्भाग्यव्याधिदारिद्रयनाशिनी ।
स्तुता विघ्नौघशमिनी ध्याता सर्वार्थसिद्धिदा ॥ ३.४१.२० ॥

मुद्राविशेषतत्त्वज्ञो दीक्षाक्षपितकल्मषः ।
भजेद्यः परमेशानीमभीष्टफलमाप्नुयात् ॥ ३.४१.२१ ॥

धवलाम्बरसंवीतां धवलावासमध्यगाम् ।
पूजयेद्धवलैः पुष्पैर्ब्रह्मचर्ययुतो नरः ॥ ३.४१.२२ ॥

धवलैश्चैव नैवेद्यैर्दधिक्षीरौदनादिभिः ।
सङ्कल्पधवलैर्वापि पूजयेत्परमेश्वरीम् ॥ ३.४१.२३ ॥

श्रीर्वालन्त्र्यक्षीबीजैः क्रमात्खण्डेषु योजिताम् ।
षोडशाक्षरविद्यां तामर्चयेच्छुद्धमानसः ॥ ३.४१.२४ ॥

अनुलोमविलोमेन प्रजपन्मात्रिकाक्षरैः ॥ ३.४१.२५ ॥

विश्वास-प्रस्तुतिः

भावयन्नेव देवाग्रे श्रीदेवीं दीपरूपिणीम् ।
मनसोपांशुना वापि निगदेनापि तापस ॥ ३.४१.२६ ॥

श्रीदेवीन्याससहितः श्रीदेवीकृतविग्रहः ।
एकलक्षजपेनैव महापापैः प्रमुच्यते ॥ ३.४१.२७ ॥

लक्षद्वयेन देवर्षे सप्तजन्मकृतान्यपि ।
पापानि नाशयत्येव साधकस्य परा कला ॥ ३.४१.२८ ॥

लक्षत्रितयजापेन सहस्रजनिपातकैः ।
मुच्यते नात्र सन्देहो निर्मलो नितरां मुने ।
क्रमात्षोडशलक्षेण देवीसान्निध्यमाप्नुयात् ॥ ३.४१.२९ ॥

पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च ।
होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ ३.४१.३० ॥

होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः ।
मन्त्रान्ते पूजयेद्देवीं जपकाले यथोचितम् ॥ ३.४१.३१ ॥

जपाद्दशांशो होमः स्यात्तद्दशांशं तु तर्पणम् ।
तद्दशांशं ब्राह्मणानां भोजनं विन्ध्यमर्दन ॥ ३.४१.३२ ॥

देशकालोपघाते तु यद्यदङ्गं विहीयते ।
तत्सङ्ख्याद्विगुणं जप्त्वा पुरश्चर्यां समापयेत् ॥ ३.४१.३३ ॥

ततः काम्यप्रयोगार्थं पुनर्लक्षत्रयं जपेत् ।
व्रतस्थो निर्विकारश्च त्रिकालं पूजनेरतः ।
पश्चाद्वश्यादिकर्माणि कुर्वन्सिद्धिमवाप्स्यति ॥ ३.४१.३४ ॥

अभ्यर्च्य चक्रमध्यस्थो मन्त्री चिन्तयते यदा ।
सर्वमात्मानमरुणं साध्यमप्यरुणीकृतम् ॥ ३.४१.३५ ॥

ततो भवति विन्ध्यारे सर्वसौभाग्यसुन्दरः ।
वल्लभः सर्वलोकानां वशयेन्नात्रसंशयः ॥ ३.४१.३६ ॥

रोचनाकुङ्कुमाभ्यां तु समभागं तु चन्दनम् ।
शतमष्टोत्तरं जप्त्वा तिलकं कारयेद्बुधः ॥ ३.४१.३७ ॥

ततो यमीक्षते वक्ति स्पृशते चिन्तयेच्च यम् ।
अर्धेन च शरीरेण स वशं याति दासवत् ॥ ३.४१.३८ ॥

तथा पुष्पं फलं गन्धं पानं वस्त्रं तपोधन ।
शतमष्टोत्तरं जप्त्वा यस्यै सम्प्रोष्यते स्त्रियै ।
सद्य आकृष्यते सा तु विमूढहृदया सती ॥ ३.४१.३९ ॥

लिखेद्रोचन यैकान्ते प्रतिमामवनीतले ।
सुरूपां च सशृङ्गारवेषाभरणमण्डिताम् ॥ ३.४१.४० ॥

तद्भालगलहृन्नाभिजानुमण्डलयोजितम् ।
जन्मनाममहाविद्यामङ्कुशान्तर्विदर्भितम् ॥ ३.४१.४१ ॥

सर्वाङ्गसन्धिसंलीनामालिख्य मदनाक्षरैः ।
तदाशाभिमुखो भूत्वा त्रिपुरीकृतविग्रहः ॥ ३.४१.४२ ॥

बद्ध्वा तु क्षोभिणीं मुद्रां विद्यामष्टशतं जपेत् ।
संयोज्य दहनागारे चन्द्रसूर्यप्रभाकुले ॥ ३.४१.४३ ॥

ततो विह्वलितापाङ्गीमनङ्गशरपीडिताम् ।
प्रज्वलन्मदनोन्मेषप्रस्फुरज्जघनस्थलाम् ॥ ३.४१.४४ ॥

शक्तिचक्रे लसद्रश्मिवलनाकवलीकृताम् ।
दूरीकृतसुचारित्रां विशालनयनाम्बुजाम् ॥ ३.४१.४५ ॥

आकृष्टनयनां नष्टधैर्यसंलीनव्रीडनाम् ।
मन्त्रयन्त्रौषधमहामुद्रानिगडबन्धनाम् ।
दूरीकृतसुचारित्रां विशालनयनाम्बुजाम् ॥ ३.४१.४६ ॥

मनोऽधिकमहामन्त्रजपमानां हृतांशुकाम् ।
विमूढामिव विक्षुब्धामिव प्लुष्टामिवाद्भुताम् ॥ ३.४१.४७ ॥

लिखितामिव निःसञ्ज्ञामिव प्रमथितामिव ।
निलीनामिव निश्चेष्टामिवान्यत्वं गतामिव ॥ ३.४१.४८ ॥

भ्रमन्मन्त्रानिलोद्धूतवेणुपत्राकृतिं च खे ।
भ्रमन्तीं भावयेन्नारीं योजनानां शतादपि ॥ ३.४१.४९ ॥

चक्रमध्यगतां पृथ्वीं सशैलवनकाननाम् ।
चतुःसमुद्रपर्यन्तं ज्वलन्तीं चिन्तयेत्ततः ॥ ३.४१.५० ॥

षण्मासाभ्यासयोगेन जायते मदनोपमः ।
दृष्ट्वा कर्षयते लोकं दृष्ट्वैव कुरुते वशम् ॥ ३.४१.५१ ॥

दृष्ट्वा सङ्क्षोभयेन्नारीं दृष्ट्वैव हरते विषम् ।
दृष्ट्वा करीति वागीशं दृष्ट्वा सर्वं विमोहयेत् ।
दृष्ट्वा चातुर्थिकादींश्च ज्वरान्नाशयते क्षणात् ॥ ३.४१.५२ ॥

पीतद्रव्येण लिखितं चक्रं गूढं तु धारयेत् ।
वाक्स्तम्भं वादिनां क्षिप्रं कुरुते नात्र संशयः ॥ ३.४१.५३ ॥

महानीलीरसेनापि शत्रुनामयुतं लिखेत् ।
दक्षिणाभिमुखो वह्नौ दग्ध्वा मारयते रिपून् ॥ ३.४१.५४ ॥

महिषाश्वपुरीषाभ्यां गोमूत्रैर्नाम टङ्कितम् ।
आरनालस्थितं चक्रं विद्वेषं कुरुते द्विषाम् ॥ ३.४१.५५ ॥

युक्त्वा रोचनया नाम काकपक्षेण मध्यगम् ।
लम्बमानस्तदाकारो उच्चाटनकरं परम् ॥ ३.४१.५६ ॥

दुग्धलाक्षारोचनाभिर्महानीलीरसेन च ।
लिखित्वा धारयंश्चक्रं चातुर्वर्ण्यं वशं नयेत् ॥ ३.४१.५७ ॥

अनेनैव विधानेन जलमध्ये यदि क्षिपेत् ।
सौभाग्यमतुलं तस्य स्नानपानान्न संशयः ॥ ३.४१.५८ ॥

चक्रमध्यगतं देशं नगरीं वा वराङ्गनाम् ।
ज्वलन्तीं चिन्तयेन्नित्यं सप्ताहात्क्षोभयेन्मुने ॥ ३.४१.५९ ॥

लिखित्वा पीतवर्णं तु चक्रमेतद्यदाचरेत् ।
पूर्वाशाभिमुखो भूत्वा स्तम्भयेत्सर्ववादिनः ॥ ३.४१.६० ॥

सिन्दूरवर्णलिखितं पूजयेदुत्तरामुखः ।
यदा तदा स्ववशगो लोको भवति नान्यथा ॥ ३.४१.६१ ॥

चक्रं गौरिकयालिख्यपूजयेत्पश्चिमामुखः ।
यः ससर्वाङ्गनाकर्षवश्यक्षोभकरो भवेत् ॥ ३.४१.६२ ॥

पूजयेद्विन्ध्यदर्पारे रहस्येकचरो गिरौ ।
अजरामरतां मन्त्री लभते नात्र संशयः ॥ ३.४१.६३ ॥

रहस्यमेतत्कथितं गोपितव्यं महामुने ।
गोपनात्सर्वसिद्धिः स्याद्भ्रंश एव प्रकाशनात् ॥ ३.४१.६४ ॥

अविधाय पुरश्चर्यां यः कर्म कुरुते मुने ।
देवताशापमाप्नोति न च सिद्धिं स विन्दति ॥ ३.४१.६५ ॥

प्रयोगदोषशान्त्यर्थं पुनर्लक्षं जपेद्बुधः ।
कुर्याच्च विधिवत्पूजां पुनर्योग्यो भवेन्नरः ॥ ३.४१.६६ ॥

निष्कामो देवतां नित्यं योर्ऽचयेद्भक्तिनिर्भरः ॥ ३.४१.६७ ॥

तामेव चिन्तयन्नास्ते यथाशक्ति मनुं जपन् ॥ ३.४१.६८ ॥

विश्वास-प्रस्तुतिः

सैव तस्यैहिकं भारं वहेन्मुक्तिं च साधयेत् ।
सदा सन्निहिता तस्य सर्वं च कथयेत सा ॥ ३.४१.६९ ॥

वात्सल्यसहिता धेनु यथा वत्समनुव्रजेत् ।
तथानुगच्छेत्सा देवी स्वभक्तं शरणागतम् ॥ ३.४१.७० ॥

शरणागतशब्दस्य कोर्ऽथो वद हया नन ।
वत्सं गौरिव यं गौरी धावन्तमनुधावति ॥ ३.४१.७१ ॥

यः पुमानखिलं भारमैहिकामुष्मिकात्मकम् ।
श्रीदेवतायां निक्षिप्य सदा तद्गतमानसः ॥ ३.४१.७२ ॥

सर्वानुकूलः सर्वत्र प्रतिकूलविवर्जितः ।
अनन्यशरणो गौरीं दृढं सम्प्रार्थ्य रक्षणे ॥ ३.४१.७३ ॥

रक्षिष्यतीति विश्वासस्तत्सेवैकप्रयोजनः ।
वरिवस्यातत्परः स्यात्सा एव शरणागतिः ॥ ३.४१.७४ ॥

यदा कदाचित्स्तुतिनिन्दनादौ निन्दन्तु लोकाः स्तुवतां जनो वा ।
इति स्वरूपं सुधिया समीक्ष्य विषादखेदौ न भजेत्प्रपन्नः ॥ ३.४१.७५ ॥

अनुकूलस्य सङ्कल्पः प्रतिकूलस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ ३.४१.७६ ॥

आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः ।
अङ्गीकृत्यात्मनिक्षेपं पञ्चाङ्गानि समर्पयेत् ।
न ह्यस्य सदृशं किञ्चिद्भुक्तिमुक्त्योस्तु साधनम् ॥ ३.४१.७७ ॥

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ३.४१.७८ ॥

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ।
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ॥ ३.४१.७९ ॥

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ।
मयि चानन्यभावेन भक्तिख्यभिचारिणी ॥ ३.४१.८० ॥

विविक्तदेशसेवित्वमरतिर्जनसंसदि ।
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतानि सर्वदा ज्ञानसाधनानि समभ्यसेत् ॥ ३.४१.८१ ॥

तत्कर्मकृत्तत्परमस्तद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स याति परां श्रियम् ॥ ३.४१.८२ ॥

गुरुस्तु मादृशो धीमान्ख्यातो वातापितापन ।
शिष्योऽपि त्वादृशः प्रोक्तो रहस्याम्नायदेशिकः ॥ ३.४१.८३ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने एकचत्वारिंशोऽध्यायः